________________
२०७
परिच्छेदः]
रुचिराख्यया स्याख्यया समेतः। यथा
'प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १० ॥ भथ जडता
१९० अप्रतिपत्सिर्जडता स्वादिष्टानिदष्टर्शन श्रुतिभिः ।
अनिमिषनयननिरीक्षण-तूष्णीम्भावादयस्तत्र ॥ १७५ ॥ यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये
अत्राहुः पण्डितराजा:-'अयं च मदत्रिविधः, तरुणमध्यमाधमभेदात् । अव्यक्तासङ्गतवाक्यैः सुकुमारस्खलगत्या - योऽभिनीयते स आद्यः, भुजाक्षेपस्खलितपूर्णितादिभिर्मध्यमः, गतिभङ्गस्मृतिनाशहिक्काछर्यादिभिरधमः।' इति ।
उदाहरति-यथा-'प्रातिभ..' इत्यादौ । . ... 'त्रिसरकेण त्रिगुणितेन मद्यपानेन । त्रयाणां सरकाणां मद्यपानानां समाहार इति, तेन । तद्धितार्थोत्तरपदसमाहारे च ।' २।१।५१ इति द्विगुः, 'पात्रेसमितादयश्च ।' २।११४८ इति पात्रादिस्वानपुंसकत्वं साधु । 'सरकं सीधु (मद्य ) पात्रे स्याच्छीधुपाने च शीधुनि।' इति विश्वः । प्रातिभं प्रतिभायां भवस्तम् । प्रतिभाऽलैकिकी बुद्धिः । तत्र भवः ।' ४।३।५३ इत्यण् । गतानाम् । सुभ्रुवां कामिनीनाम् । चक्रवाक्यरचनारमणीयो वक्राणि प्रतिकूलानि ,वाक्यानि तेषां रचना प्रयोगस्तया रमणीयो मनोरमः । गूढसूचितरहस्यसहासो गूढानि प्रथमं लज्जया गुप्तानि तदानीं पुनः सूचितानि मदेन प्रकाशितानि रहस्यानि सुरतसम्बन्धीनि प्रलपितानि यत्र, सोऽसौ सहासश्चेति तथोक्तः । अत्र विशेषणसमासः, विशेषणविशेष्यभावस्य वैवक्षिकत्वात् । परिहासः उपहासः । प्रववृते प्रवर्तते स्म । शिशुपालवधस्येदं पद्यम् , अत्र खागताछन्दः, तलक्षणं चोक्तं प्राक् ॥ १.०॥'
- अत्रेदं तत्त्वम्-त्रिसरकमालम्बनम्, तत्प्रभाव एवोद्दीपनम् , प्रतिभोत्कर्षेण तथा परिहासोऽनुभावश्चेत्येवं सुभ्रुवो मदोऽभिव्यज्यते।
यथा वा-'मधुरसान्मधुरं हि तवाधरं तरुणि! मददने विनिवेशय । मम गृहाण करेण कराम्बुजं पपपतामिहहाभभभूतले ॥' अत्र हि मधुपानमालम्बनं तरुण्या अधररस उद्दीपनं वर्णाधिक्येनोचारणमनुभावश्च, इत्येवं मदोऽभिव्यज्यते ।
जडतां लक्षयितुं प्रतिजानीते-अथ मदोदाहरणानन्तरम् । जड़ता-लक्ष्यते-१९० अप्रति..इत्यादिना।
१९. इष्टानिष्टदर्शनभूतिभिरिष्टं (पुत्रजन्मादि)चानिष्टं ( पुत्रमरणादि) चेति तयोर्दशनश्रुतयस्ताभिः । दर्शनानि च श्रुतय (श्रवणानि ) श्रेति। अप्रतिपत्तिर्न प्रतिपत्तिः ( कर्त्तव्य) सुनिश्चय इति तथोक्ता । जडता। स्यात् । तत्र तस्या (जडतायां) सत्याम् । अनिमिषनयननिरीक्षणतूष्णीम्भावादयोऽनिमिषनयनं यथा भवेत्तथा निरीक्षणमिति; तच्च तूष्णीम्भावश्चेति तावादी येषां (स्थगनादीनां) ते तथोक्ताः । 'भवन्ती'ति शेषः । अथोक्तम्-'कााधिवेको जडता पश्यतः शण्वतोऽपि वा। तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ॥ अनुभावास्त्वमी तूष्णीम्भावविस्मरणादयः । सा पूर्व परतो वा स्यात् मोहादिति विदां मतम् ॥' इति ॥ १७५ ॥
उदाहरति-यथा । मम मत्कर्सके । कुषलाश्वचरिते तदाख्य इति भावः । प्राकृतकाम्ये प्राकृतभाषाप्रभाने काव्ये-'णवरिभ...' इत्यादौ ।