________________
२०६
साहित्यदर्पणः।
[तृतीयः
अथ श्रमः
१८८ खेदो रत्यध्वगत्यादेः श्वासनिद्राऽदिकृच्छ्रमः। .
यथा'सद्यः पुरीपरिसरेऽपि शिरीषमृद्धी सीता जवात्रिचतुराणि पदानि गत्वा । गन्तव्यमस्ति कियदित्यसकृद् ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारमे ॥९९॥' अथ मदः१८९ सम्मोहानन्दसम्भेदो मदो मधोपयोगजः ॥ १७३ ॥
अमुना चोत्तमः शेते, मध्यो हसति गायात ।
अधमप्रकृतिश्चैवं परुषं वक्ति रोदिति ॥ १७४ ॥ ___ अत्रेदं बोध्यम्-पत्यादेव॒द्धत्वाद्यालम्बनं वध्वास्तथाऽवस्थानमुद्दीपनं रोदनमनुभावश्चेत्येवं कस्या अपि वृद्धाया असहायाया दैन्यमभिव्यज्यते । इति ।
अथ श्रमं लक्षयितुं प्रतिजानीते-अथ दैन्योदाहरणानन्तरम् । श्रमः । लक्ष्यते--१८८ खेदो..इत्यादिना ।
१८८ रत्यध्वगत्यादे रतिश्चाध्वगतिश्चेति ते आदी यस्य (व्यायामादेः) तस्मात् । श्वासनिद्राऽऽविकृत । आदिनाऽङ्गपीडनादि । खेदः। श्रमः । 'मत' इति शेषः । यथोक्तं 'अध्वव्यायामसेवायैर्विभावैरनुभावकैः । गात्रसंवानैरास्यसकोचैरजमोटनैः ॥ निःश्वासैर्जम्भितमन्दैः पादोत्क्षेपैः श्रमो मतः ।' इति ।
उदाहरति यथा-'सद्यः..' इत्यादौ ।
'शिरीषमृदी शिरीषवत् शिरीषकुसुमवत् मृद्वी कोमला । अपि । सीता। सद्यः श्रीरामस्य वनं गन्तुं विचारे प्रवृत्ते एवेति भावः । जवात् । श्रीरामतोऽपि पूर्वमिति भावः । पुरीपरिसरे पुर्य्याः अयोध्यायाः परिसरः प्रान्तदेशस्तत्र । 'पर्यन्तभूः परिसर' इत्यमरः । त्रिचतुराणि त्रीणि वा चतुराणि वेति तथोकानि । एतदुषलक्षणं 'कियन्ती' त्यस्य । पदानि तद्विन्यासदेशपय॑न्तमिति भावः । गत्वा । कियत् किंप्रमाणम् । इतःपर' मिति शेषः । गन्तव्यम् । अस्ति । इतीत्येवम् । असकृद्वारंवारम् । ब्रुवाणा । रामाश्रुणो रामस्याच नेत्राम्बु तस्य । प्रथमावतारं प्रथमोऽसाववतार आविष्कारस्तम् । कृतवती । महानाटकस्येदं पद्यम् । अत्र वसन्ततिलकं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ९९ ॥' - अत्रायम्भाव:-शिरीषद्वया जवात् कियत् पदपर्यन्तं गमनमालम्बनं, तदनन्तरमपि गन्तव्यदेशस्याप्राप्तिरुद्दीपनम् , असकृत्पृच्छाऽनुभाव इत्येवं सीताया अध्वश्रमोऽभिव्यज्यते । इति यथा वोदाहृतं रसगङ्गाधरकारैः- 'विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना । चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दमपि क्षमाऽऽसीत् ॥' इति । अत्र हि विपरीता रतिरालम्बनं, कान्तस्य पुनरपि पराजयाभाव उद्दीपनम् , तथा शयनाद्यनुभाव इति स्फुटा श्रमाभिव्यक्तिः।
मदं लक्षयितुं प्रतिजानीते-अथ श्रमोदाहरणानन्तरम् । मदः । लक्ष्यते-१८९ सम्मोहा.. इत्यादिना ।
१८९ मद्योपयोगंज मद्यस्य मादनीयद्रव्यस्य न तु मदिराया एवोपयोगः सेवनं तस्माज्जायत इति तथोक्तम् । माधन्त्यनेनेति मद्यम् । 'गदमदचरयमश्चानुपसर्गे।' ३।१११०० इति यत् । सम्मोहानन्दसम्भेदः सम्मोहानन्दयो: सम्भेदो मेलनम् । मदः स्तदाख्योभावः । 'मत'इति शेषः । अमुना निरुक्तखरूपेण मदेनेत्यर्थः । च । उत्तमः श्रेष्ट. प्रकृतिको जनः । शेते । मध्यो मध्यमप्रकृतिकः । हसति । तथा गायति । एवम् । च पुनः । अधमप्रकृतिरधमा प्रकृतिः खभावो यस्य सः । परुषं रूक्षं यथा भवेत्तथा । वक्ति । तथा-रोदिति ॥ १७३ ॥ १७४ ॥...
. १ 'अथ "अइपिहलं जलकुंभं घेत्तूण समागदह्मि सहि तुरिअं। सभसेअसलिलणीसासणीसहा वीसमामि खणं ।" इति पाठान्तरम् । अस्य च 'अतिविपुलं जलकुम्भं गृहीत्वा समागताऽस्मि सखि ! त्वरितम् । श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम् ॥' इति संस्कृतम् । वस्तुतो नेदं युक्तमुदाहर्तुम् । 'श्रम' इत्यभिहितस्य ध्वन्यमानत्वं वक्तुमशक्यत्वात्।