________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
क्षत्रको पदहनार्चिषं ततः सन्दधे दृशमुदग्रतारकाम् ॥ ९७ ॥ '
एवमन्यदूह्यम् । अथ दैन्यम्
यथा---
१८७ दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकृत् ॥ १७२ ॥
'वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालोऽभ्यर्णजलागमः, कुशलिनी वत्वस्य वार्ताऽपि नो यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्ध्याकुला, eg गर्भभरालसां निजवधूं श्वश्रूश्विरं रोदिति ॥ ९८ ॥
२०५
ततस्तत्र । क्षत्रको पदहनार्चिषं क्षत्रेषु कोपदहनार्चिस्ताम् । कोप एव दहनार्चिर्यत्र सा कोपदहनार्चिः । 'क्षेत्रेषु यः कोपः स एव दहनस्तस्यशिखामिति तु विववृतिकाराः । उग्रतारकामुदप्रोन्नता तारका कनीनिका यत्र ताम् । 'उच्च प्रांशुभतोदप्रोच्छ्रितास्तुङ्ग' इत्यमर: । 'तारको दैत्यभित्कर्णधारयोर्न द्वयोर्हशि । कनीनिकायामृक्षे च न पुमांस्त्रातरि
॥' इति मेदिनी । दृशं दृष्टिम् । खन्दधे । 'शस्त्रमिवे 'ति शेषः । रघुवंशस्येदं पद्यम् । रथोद्धता वृत्तं, तल्लक्षणं च 'रथोद्धतानों लौंग ।' इति ॥ ९७ ॥
अत्रेदं बोध्यम् भार्गव आलम्बनविभावः, तस्यानेकशः क्षत्रापहननमुद्दीपन विभावः, 'अर्घ्यमर्घ्य' मित्यभिधानं चानुभाव इत्येवं दशरथगतो भार्गवस्य सर्वक्षत्रसंहर्ततया शत्रोदेर्शनोत्थ आवेगः । इति ।
अत्र दिग्दर्शनमेव न्याय इत्याह-एवं यथेदं तथा । अन्यदुदाहरणान्तरम् । ऊह्यं बोध्यम् । अस्माभिस्तु स्पष्टमिति विरम्यत इति भावः ।
"दैन्यं लक्षयितुं प्रतिजानीते - अथावेग निदर्शनानन्तरम् । दैन्यं दीनत्वम् । 'लक्ष्यते १८७ दौर्गत्यादे... इत्यादिना ।
१८७ दौर्गत्यादेर्दुर्गतस्य भावो दौर्गत्यं, तदादिर्यस्य ( बन्धुनाशादेः ) तस्मात् । दुर्गतो दरिद्रः । ' दरिद्रो दुर्गतोऽपि सः ।' इत्यमरः । मलिनताऽऽदिकृत् । 'अयं मलिन' । इत्यादिप्रतीतिहेतुः । आदिपदेन पाप्मतामूढतादीनां प्रणम् | अनोजस्यं नौजो दीप्तिः पराक्रमो वा यस्य तस्य भावस्तथोक्तम् । 'ओजो दीप्तौ बल' इत्यमरः । दैम्यम् । 'मत' मिति शेषः ॥ १७२ ॥
उदाहरति-यथा-' वृद्धो.. ' इत्यादौ ।
'वृद्धो जरया जर्जरीकृतदेहः । अथ च - अन्धो नेत्रविहीनः । एषः । पतिः । मञ्चकगतः मञ्चकमल्पं मयं न तु दीर्घ गतः प्राप्तस्तत उत्थातुमपि न शक्त इति भावः । अल्पो मचो मञ्चकः । 'अल्पे । ' ५।३।८५ इति कः । स्थूणावशेषं स्थूणाः काष्टस्तम्भा अवशेषा यस्य तत् । 'स्थूणा स्तम्भेऽपि वेश्मनः । इत्यमरः । स्थूणाभिरब - शेषमिति वा । अवशिष्यतीत्यवशेषम् । गृहम् । कालः समयः । अभ्यर्णजलागमोऽभ्यर्णे समीपे जलागमो वर्षां यस्य सः । ‘उपकण्ठान्ति काभ्यर्णाभ्यग्रा' इत्यमरः । वत्सस्य पुत्रस्य । कथमपि किञ्चिद्भोजनाच्छादनाद्युपयोगिद्रव्यमानेतुं देशान्तरं कियन्तं समयं निर्गतस्यैकाकिनो बालकुमारस्येति यावत् । ' वत्सः पुत्रादिवर्षयोः ।' इति मेदिनी । कुशलिनी कुशलमस्यामस्तीति तथोक्ता । वार्त्ता लोकमुखाद् वृत्तश्रवणम् । 'वार्ता वृत्तौ जनश्रुतौ ।' इत्यमरः । अपि किं पुनर्द्रव्यप्रेषणम् । नो नास्ति । यत्नात् कथमपीतस्ततोऽऽभ्यर्थ्य महताऽऽयासेनेति भावः । सञ्चिततैafeguar सचिता ये तैलबिन्दवः ( तैलस्य कतिपये विन्दव इत्यर्थः ) तेषां घटिकाऽल्पा घटीति तथोक्ता । भग्ना । इतीत्यतः । पर्य्याकुला परितो व्यग्रा । गर्भभरालसां गर्भस्य पूर्णमास्यस्य भ्रूणस्य भरो भारस्तेनालसा गमनादावशक्ता ताम् । 'गर्भो भ्रूण इमौ समौ ।' इत्यमरः । निजवधूं निजा स्वकीया वधूः पुत्रस्य सहधर्मिणी ताम् । 'स्वके नित्ये निजं त्रिषु ।' 'वधूजीया स्नुषा स्त्री चे 'ति चामरः । दृष्ट्ा । श्वश्रूः । चिरं न त्वल्पसमयावधि । रोदिति । देशान्तरे धनेहया व्यापारितपुत्राया दैवहतकाया व्याकुलतावर्णनपरोकिारयम् । अत्र शार्दूलविक्रीडितं वृत्तम्, तलक्षणं चोक्तं प्राक् ॥ ९८ ॥ '