________________
२०४
अथावेगः
साहित्यदर्पणः ।
१८५ आवेगस्सम्भ्रमसू
१८६ तत्र वर्षजे पीडिताङ्गता ।
उत्पातजे स्रस्तताऽङ्गे धूमाद्याकुलताग्निजे ॥ १७० ॥ राजादेर्विद्रवाज्जाते शस्त्रयानादियोजनम् ।
गजादेः स्तम्भकम्पाऽऽदि पांस्वाद्याकुलताऽनिलात् ॥ १७१ ॥ इष्टाद्धर्षाः, शुचोऽनिष्टाजू - ज्ञेयाश्चान्ये यथायथम् ।
तत्र शत्रुजो यथा:
.' अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
[ तृतीय:
भट्टैस्तश्चिन्त्यम् । तथाहि - इष्टविरहजन्यस्य निर्वेदस्य नीचजनसम्भवित्वाभिधानेनोदाहृतस्य पद्यस्यासङ्गतत्वापत्तेः । न हि श्रीराम नीच इति पामरव्यतिरेकेण वक्तुं शक्यम् । न वा 'अवज्ञाऽऽदिभि रित्यादिपदेनेष्ट विरहग्रहणेन न निरुक्तदोष इति वक्तुं शक्यम् । 'इष्टविरहजन्यस्य निर्वेदस्य नीचजनसम्भवित्वमभिदधभिः पण्डितराजैः स्फुटं विरोधापत्तेः । वस्तुतस्तु 'नीचपुरुषेषु' 'उत्तमे' ष्विति च विशिष्याभिधानमयुक्तमेव । इति ।
आवेगं लक्षयितुं प्रतिजानीते- अथ निर्वेदनिरूपणानन्तरम् । आवेगः । 'लक्ष्यते - १८५ आवेग...इत्यादिना ।
१८५ सम्भ्रमः । 'सम्भ्रमस्त्वरा ।' इत्यमरः । कथमपि किमपि कर्तुं सन्त्वरणमिति भावः । आबेगस्तत्पद वाय इत्यर्थः ।
एवं स्वरूपतो निर्दिश्य तत्र विशिष्य निर्देष्टव्यं निर्दिशति - १८६ तत्रे त्यादिना ।
१८६ तत्र तस्मिन्नावेग इत्यर्थः । वर्षजे वर्षणं वर्षस्तज्जे 'सती'ति शेषः । पीडिताङ्गता पीडितान्यङ्गानि यस्य तता । 'भवती 'ति शेषः । यथेन्द्रे कुपिते गोकुलस्येति बोध्यम् । उत्पातज उत्पतनमुपरितोऽकस्माद्वा पतनमुत्पातस्तज्जे सतीत्यर्थः । अङ्गे शरीरे गात्रे वा । स्वस्तता स्रस्तं ध्वस्तं तस्य भावस्तता । स्तम्भविष्यतीत्याकाराऽवस्था भवतीति भावः । यथा द्रौण्यस्त्रपाते पाण्डवानामुत्तरायाश्च शकटादिनिपाते वा यथा गोपानामिति बोध्यम् । अग्निजेऽप्रकोपजन्य आवेगे सतीत्यर्थः । धूमाद्याकुलता । आदिपदेन स्वखपरित्राणादीनां ग्रहणम् । प्रत्यक्षैवेयम् । राजादेः । आदिपदेन प्रबलशत्रुप्रभृतीनां ग्रहणम् । विद्रवादुपद्रवात् । जात उत्पन्ने । 'राजविद्रवजादेस्त्वि'ति त्वपपाठः, 'तत्रे'ति विशेषणत्वानुपपत्तेः । शस्त्रयानादियोजनम् | योजनं सङ्घटनम् । 'शस्त्रनागादियोजन' मिति पाठान्तरम् । गजादेर्गजादेः प्रमत्तस्योपद्रवेण । 'जाते' इति पूर्वतोऽन्वेति । हेतौ पचमी । स्तम्भकम्पाऽऽदि । आदिपदेन पलायनादीनां ग्रहणम् । उदाहरणं प्रत्यक्षसिद्धम् । यथा मागधोद्योगे माधवोद्योगः | अनिलाद्वायोः । प्रकम्पननामानं वायुं प्रतिकूल्यगमनादिति भावः । 'जात' इति पूर्वतः । पांस्वाद्याकुलता । पांसुलि: । आदिना पतनादि । इष्टादिष्टस्यलाभादिना 'जात' इति पूर्वतः । हर्षा आमोदास्तद्यजकानि मुखविकासादीनीति यावत् । यथा नन्दस्य नन्दने जाते गोकुलवासिनाम् । आनेष्टादनिष्टस्योपस्थित्या 'जात' इति पूर्वतः । शुचः शोकास्तव्यञ्जका मुखमालिन्यादीनीति यावत् । 'भवन्ती 'ति शेषः । प्रत्यक्षम् । अन्ये । च । 'आवेगा' इति शेषः । यथायथम् | 'यथास्वे यथायथम् |' ८।१।१४ इति साधुः । ज्ञेयाः ॥ १७० ॥ १७१ ॥
उदाहर्तुमुपक्रमते तत्र तेषु वर्षजादिष्वावेगेषु मध्ये । शत्रुजः । 'आवेग' इति शेषः । यथा- 'अध्ये... ' इत्यादौ ।
' परशुधरो जामदम्य: । अयमर्घ्यम् । 'सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्ध' इति द्विः प्रयोगः । इतीत्येवम् । वादिनम् । नृपं दशरथम् । अनवेक्ष्योपेक्ष्य । यतो यत्र । भरताग्रजः श्रीरामचन्द्रः ।
१ अत्र विधेयाविमर्षोऽपि दोषः, विफलस्य विफलत्वेनाभिधाने विधेयस्यानुवाद्यत्वप्रत्यायकत्वात् ।