________________
परिच्छेदः । रुचिराख्यया म्याख्यया समेतः ।
२०३ तत्र निर्वेदः१८४ तत्त्वज्ञानापदादेनिवेदः स्वावमाननम् ।
दैन्यचिन्ताऽश्रुनिःश्वास-वैवण्याच्छसितादिकृत् ॥ १६९ ॥ तत्र तत्त्वज्ञानानिदो यथा'मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना । दक्षिणावर्तशखोऽयं हन्त चूर्णीकृतो मया ॥९६॥'
'अप्रत्ययात् ।' ३।३।१०२ इत्यः । 'अजाद्यतष्टाप् ।' ४११४ इति टाप् । विषीदनं विषादः । सधृतिचपलता धृतिचपलताभ्यां सहिताः । मनसो धरणमवरोधो धृतिः । चपति गच्छतीति चपलः । 'चप' गतावित्येके । 'वृषादिभ्यश्चित् ।' इति कलच् । चपलस्य भावश्चपलता । ग्लानिचिन्तावितर्का ग्लानिश्च चिन्ता च वितर्कश्चेति ते। 'बहिश्रिश्रयुगुग्लाहात्वरिभ्यो नित् ।' इति निः । चिनानं चिन्ता । वितर्कणं वितर्कः । 'तर्क' भाषार्थः॥ १६८ ॥
एवं नामतो निर्दिश्य स्वरूपतो निर्देष्ट मुपक्रमते-तत्रेत्यादिना ।
तत्र तेषु निवदादिषु मध्ये । निर्वेदः-स्वरूपतो निर्दिश्यते-१८४ तत्त्व..इत्यादिनेति शेषः । -- १८४ तत्त्वज्ञानापदीpदेस्तत्त्वज्ञानं चापञ्चेा चेति ता आदौ यस्य (दारिद्रयादेः) तस्मात्तमनुरुध्येति भावः । अत्र ल्यपो लोपे पञ्चमी । अत्राहुस्तर्कवागीशा:-'तत्त्वज्ञानमिह देहविषयादावनुपादेयत्वज्ञानमेव, न तु जीवात्मपरमात्मनोरभेदज्ञानम्: तस्मिन्सति मोक्ष एव, न तु स्वावमाननम् ।' इति । दैन्यचिन्ताऽनिःश्वास-वैवयोच्छ-सितादिकृत् । प्राणघायूनां दीदीर्घ बहिर्निस्सरणं निःश्वासः । वक्षउत्कम्पनमुच्छसितम् । आदिपदेन निजकुचरितोद्भावनादिग्रहणम् । अन्यत्स्पष्टम् । स्वावमाननम् । निर्वेदः ॥ १६९ ॥
लक्षणं सङ्गमयितुमाह-तत्र तेषु तत्त्वज्ञानादिकार्य्यभूततयाऽनेकविधेषु निर्वेदेषु मध्ये । तत्त्वज्ञानात् तत्त्वस्य भगवद्भवनाद्यन्तरा शरीरधारणादि व्यर्थमेवेति यावन्मात्रस्य शास्त्रस्य ज्ञान न तु विज्ञानं तस्मात् । 'सम्पद्यमान' इति शेषः । निर्वेदः। यथा- 'मृत्कुम्भ.. इत्यादौ ।
'मृत्कुम्भवालकारन्ध्रपिधानरचनार्थिना मृत्कुम्भस्य मृन्मयस्थ घटस्य पालुका तस्या रन्ध्रपिधानं तभिरोधोपायस्तस्य रचनं यत्नस्तस्यार्थी तेन । मृन्मये घटे निहिताया वालुकाया बहिनि:सरणं माभूदिति प्रयतमानेनेत्यर्थः । मृत्कुम्भः शरीरं तत्र वालुका तद्भोगमुखमिति रूपकातिशयोक्तिः। मपा । अयमनपोहनीयस्वरूपः । दक्षिणावर्तशखः । मनुष्यदेह इति रूपकातिशयोक्तिः । हन्त कष्टम् । चूर्णीकृतो विनाशितः । अयम्भावःप्रतिशरीरं विषयसुखं, तस्मात् तदर्थों यत्नोऽनर्थकः, मनुष्यशरीरं पुनस्तत्रापि ब्राह्मणस्य न विषयसुखानुभवार्थ, 'नदेहमाचं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयाऽनुकूलेन नभखतेरितं पुमान् भवाब्धि न तरेत्स आत्महा ॥' 'ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते । कृच्छाय तपमे चेह प्रेत्यानन्तसुखाय च ॥' इत्याद्युपदेशात् । अथ यदि तथाभूतस्यास्य विषयभोगेनापहननं तर्हि सत्यं वालुकारक्षाऽर्थ दक्षिणाऽऽवर्त्तशखस्यापहननम् ।' इति । यतु-'यद्वारावणशक्त्या पतिते लक्ष्मणे श्रीरामस्य परिदेवनमिदम् । अयं लक्ष्मण एव दक्षिणावर्तशड्खो मया चूर्णीकृतो विनाशितश्वर्णाख्यद्रव्यविशेषीकृतश्च ।...अत्र पक्षे आपज्जन्यं स्वावमाननं वेद्यम् ।' इत्युक्तं तर्कवागीशैस्तदुपेक्ष्यम् । 'तत्त्वज्ञाना' दिति मूलविरोधाद्रामवाक्यतयाऽस्यानुपलम्भाच । शास्त्रोपदेशमात्रेण विषयसुखं तुच्छमन्वानस्योक्तिरियम् । अत्र टोकश्छन्दः, तल्लक्षणं चोक्तं प्राक ॥ ९६ ॥
यथा वा मम-'दयितेति सुमजुभाषिणी मम वा जीवितमेव या स्वयम् । बत हन्त विनाऽद्य तां प्रियाभिह वाऽन्यत्र न किञ्चन प्रियम् ॥' इति ।
यत्तूकं पण्डितराजः-नीचपुरुषेष्वाकोशनाधिक्षेपव्याधिताडनदारिद्येष्टविरहपरसम्पदर्शनादिभिः, उत्तमेषु त्ववज्ञादिभिर्जनिता विषयद्वेषाख्या रोदनदीर्घश्वासदीनमुखताऽऽदिकारिणी चित्तवृत्तिनिवेदः ॥ उदाहरणम्- “यदि लक्ष्मण ! सा मृगेक्षणा न मदीक्षासरणिं समेष्यति । अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥" नित्यानित्यवस्तुविवेकाभावान्नासो रसब्यपदेशहेतुः।' इति 'अवज्ञाऽऽदिभिरिति । आदिना विरहादयः।' इति च नागेश