________________
२०२ साहित्यदर्पणः।
[ तृतीयः... स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणादयभिचारिणः कथ्यन्ते । के त इत्याह---
१८३ 'निर्वेदावेगदैन्यश्रममदजडता औय्यमोही विबोधः
स्वमापस्मारगर्वा मरणमलसतामर्षनिद्राऽवहित्थाः।
औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसन्त्रासलज्जा हर्षासूयाविषादाः सधृतिचपलता ग्लानिचिन्तावितर्काः ॥ १६८ ॥
...
पेक्षया रसानुगुण्येनातिशयितत्वं व्यभिचारित्वम् । यद्वा-रत्यादावनियतवर्तित्वं व्यभिचारित्वम् । अत एव-'रत्यादयोऽप्यनियता रसे स्युयभिचारिणः । इति वक्ष्यते, 'स्थायिन्युन्ममनिर्ममाः'इति चोक्तम् । एतत्सर्वमनुसन्धायाभिहितं १८२ विशेषादित्यादि।
- खयमपि विवृणोति-स्थिरतया 'विरुद्धा' इत्यादिना वक्ष्यमाणया स्वाभाविक्याऽवस्थित्या । वर्तमाने प्रतीयमाने । ह्येव न तु हासादावन्यथाभूत इत्यर्थः । रत्यादौ 'वारिधौ कल्लोला इवे'ति शेषः । प्रादुर्भावतिरोभावाभ्यां तदभिन्नेनेत्यर्थः । आभिमुख्येनानुकूल्येन 'ये तूपकर्तुमायान्ति स्थायिनं रसमुत्तमम् । उपकृत्य च गच्छन्ती' त्युक्तेन ( रसप्रकर्ष ) सहायकेनेति यावत् । चरणात् । चरन्तीति हेतोरिति भावः । निर्वेदादयः ‘वश्यमाणा' इति शेषः । व्यभिचारिणः । कथ्यते।
ननु किंकिं तेषां नाम स्वरूप चेत्याशङ्कामुन्मूलयितुमाह-ते व्यभिचारिसज्ञका निर्वेदादयः । के किंकिनामानः किंकिंखरूपाश्चेत्यर्थः । इतीत्येवमाशङ्कायाम् । आह -क्रमश उत्तरयितुं प्रवर्तत इति भावः । १८३ निर्वेदा..इत्यादिना।
१८३ निर्वेदावेगदैन्यश्रममदजडता निर्वेदश्चावेगश्च दैन्यं च श्रममदजडताश्चेति तथोक्ताः । श्रमश्च मदन अडता चेति ताः । निर्वेदनं तत्त्वज्ञानान्तरेणावमानादिना भोगेभ्यो विमुखीभवन निर्वेदः । आवजनमनातिशयसम्भावनादिना सन्त्वरणमावेगः । आङ्-'ओविजी' भयचलनयोः । 'भावे ।' ३।३।१८ इति पञ् । दीनस्य दारिद्रयादिना खात्मन्यपकृष्टत्वारोपेण दुःखितस्य भावो दैन्यम् । श्रमणमध्वगमनादिना दुःखीभवनं श्रमः । घन । 'नोदात्तोपदेशस्त्र मान्तस्यानाचमेः ।' ७।३।३४ इति वृद्धयभावः । मदनमुल्लसनं मदः । 'मदोऽनुपसर्गे।' ३१३१६७ इत्यपू । जडस्य चिन्तादिना विकलस्य भावो जडता । औस्यमोहा औश्यं च मोहश्चेति तौ । उग्रस्यापमानादिनोद्रिक्तरोषस्य भाव औग्र्यम् । मोहनं भयादिना विस्मरणं मोहः । विबोधो विशेषेण निद्रादिनिवृत्तिपुरःसरं याथायन बोधः । स्वप्नापस्मारगाः । स्वपनं निद्रयाऽज्ञानीभवनं स्वप्नः । 'स्वपो नन् ।' ३।३।९१ इति नन् । अपस्मरणमिष्टवियोगादिना विमुह्य तमसि निमज्जनमपस्मारः । गर्वणं सम्पदादिनाऽभिमननं गर्वः । 'ग' माने । 'भावे ।' ३।३।१८ इति घञ् । मरणमुपचारात्तथा भवनमित्यर्थः । अलसता निद्रादिनाऽनुत्साहित्वम् । अमर्षनिद्राऽवहित्थाः । न मर्षणं सहनममर्षः । निद्राणं श्रमादिना कुत्सिताऽत्मना भवनं निद्रा । 'द्रा' कुत्सायाम् । 'आतश्चोपसर्गे।। ३।१।१३६ । इत्यङ् । न बहिब्रीडाऽऽदिहेतुसत्त्वेऽपि स्थानं तव्याकगोपनेनावस्थानमवहित्था । 'सुपि स्थः ।' ३।२।४ इत्यत्र स्थ' इति योगविभागात् कः । 'पृषोदरादीनि यथोपदिष्टम् ।' ६३।१०९ इति साधुः । औत्सुक्योन्मादशङ्काः। उत्सुकस्थेष्टसझमादेरनुरागातिशयादिना सत्वरमभिलषतो भाव औत्सुक्यम् । उन्मादनं भूताद्यावेशादिना प्रलापादिविधानमुन्मादः । शङ्कनमनिष्टादेः शत्रुप्राबल्यादिचिन्तनं शङ्का । स्मृतिमतिसहिताः स्मृतिश्च मतिश्चेति ताभ्यां सहिताः । स्मरणं संस्कारवशादृष्टश्रुतयोश्चिन्तनं स्मृतिः । मननमर्थनिर्धारणं मतिः । व्याधि. सन्त्रासलज्जाः। विविधा आधयोऽस्मादिति व्याधीयन्ते पीडा अनेनेति वा व्याधिः । 'उपसर्गे घोः किः । ३३१९३ इति किः । हर्षास्याविषादा हर्षश्वासूया च विषादश्चेति ते । हर्षणमिष्टप्राप्त्यादिना सुखोद्गमनं हर्षः । असूयनमिटेध्वप्यनिष्टत्वाद्यध्यारोपणमसूया 'असूञ्' असूयायाम् । कण्डादित्वात् 'कण्डादिभ्यो थक् ।' ३।२७ इति यकि