________________
परिच्छेदः रुचिराख्यया व्याख्यया समेतः।
२०१ सीदवन्धेतमसि विधुरो मज्जतीवान्तरात्मा, विश्वमोहः स्थगयति कथं मन्दभाग्यः करोमि ॥९४॥
यथा वा मम दिङ्मात्रम्'तनुस्पर्शादस्या दरमुकुलिते हन्त नयने उदश्चद्रोमाञ्चं व्रजति जडतामङ्गमखिलम् । कपोलो घाद्री ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटित्ति ब्रह्म परमम् ॥९५॥' अथ व्यभिचारिण:१८२ विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ॥ १६६ ॥
स्थायिन्युन्मग्ननिर्मनास्त्रयस्त्रिंशत्प्रकीर्तिताः ॥ १६७ ॥ तद् यथा भवेत्तथा। अन्तः। ज्वलामि। विधुरो दुःखितः । “विधुरं विकले त्रिषु ।' इति त्रिकाण्डशेषः । अन्धेतमसि गाढान्धकारे । सीदन् विषीदन् । अन्तरात्मा । मजति । इव (इत्युत्प्रेक्षा)। मोहो ज्ञानाभायो मच्छेति यावत् । विष्वक परितः । स्थगयति चेष्टातो निवर्त्तयति । मन्दभाग्यो मन्दं सीतायाः साक्षादनुपलडधेस्तुच्छ भाग्यं यस्य सः । 'अह'मिति शेषः । कथं केन प्रकारेण । करोमि करिष्यामि । हृदयस्फोटादि कथमई निवारयिष्यामीत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा ।' ३।३।१३१ इति लट् । यद्वा-'विभाषा कथमि लिञ्च ।' ३१३१४३ इत्यनेन गर्दायां चालट् । उत्तररामचरितस्येदं पद्यम् । रामस्य सीतां स्पृशतोऽपि भगवतीमहिनापश्यत उक्तिरियम् । मन्दाक्रान्ता छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ ९४॥'
एवं प्रलयमुदाहृत्य सर्वेऽप्यमी मनागुदाहियन्ते-यथा वेत्यादिना । वाऽथवा । यथा । मम “कृतौ-तनु...इत्यत्रे"ति शेषः । दिङ्मात्रम् । 'सात्त्विका भावा' इति शेषः ।
'अस्याः प्रत्यक्षायाः कान्ताया इत्यर्थः । तनुस्पर्शात्तन्वाः स्पर्शस्तस्मात् तमनुभूयेत्यर्थः । हन्त हर्षः । दरमुकुलिते दरमीषन्मुकुलिते इति तथोक्ते । नयने । ‘भवत'इति शंषः । उदश्चद्रोमाश्चमुदश्चन् परिस्फुरन् रोमाञ्चो रोमोद्गमो यत्र तत् । 'स'दिति शेषः । अखिलम् । अङ्गम् । जडतां निश्चेष्टताम् । व्रजति प्रयाति । कपोलौ। घर्मादौ धर्मेण स्वेदाम्बुनाऽऽद्रौं । घरण क्षरणमिति धर्मः । 'घृक्षरणदीप्त्योः । 'घम' इत्यनेन निपातनासाधुः । 'जातो'इति शेषः । ध्रुवम् । उपरताशेषविषयमुपरता निवृत्ता अशेषविषया यस्य तत् । मनः (कर्त)। झटिति निर्विषयस्य तस्य स्थातुमशक्यत्वात्तदानीमेवेति शेषः । सान्द्रानन्दं सान्द्रः पूर्णो निरवच्छिन्न इति यावदानन्दस्तं तत्स्वरूपभूतम् । अत एव-परममुत्कृष्टं । शुद्धं निरस्तोपाधिमालिन्यमिति यावत् । ब्रह्म। स्पृशति तत्स्वरूपेणोप
आवः । अत्र "उदञ्चद्रोमाञ्च"मिति रोमाञ्चः, 'व्रजति जडता'मिति स्तम्भः, 'घर्दाि 'विति स्वेदः, 'उपरताशेषविषय मिति प्रलयश्च निर्दिष्टः । शिखरिणी छन्दः, तलक्षण चोक्तं प्राक ॥ ९५ ॥'
व्यभिचारिणो लक्षयितुं प्रतिजानीते-अथानुभावनिरूपणानन्तरम् । व्यभिचारिणो 'लक्ष्यन्ते-१८२ विशेषादित्यादिना।
१८२ विशेषाद्विभावात् भावसात्त्विकभावापेक्षयाऽऽधिक्यमनुरुध्येति भावः । आभिमुख्येन रसानुगुण्येन । स्थायिनि वारिधा'विवेति शेषः । स्थायी च रत्यादिरेव, तथा च-समुद्र इव खरूपेणावस्थायिनि (गम्भीरे ) रत्यादाविति निष्कृष्टम् । उन्मग्ननिर्मग्ना उन्ममा अविलम्बप्रतीतिकत्वेन प्रादुर्भूताश्च -निर्मग्ना विलम्बप्रतीतिकत्वेन तिरोहिताश्चेति . सथोक्ताः । एतेन-तरङ्गधर्मत्वं सूचितम् । 'भूत्वेति शेषः । चरन्तः। 'सन्त' इति शेषः । त्रयस्त्रिंशत् । व्यभिबारिणः। प्रकीर्तिताः । 'तु तद्भिदा'इति पाठान्तरे तु-तद्भिदास्तेषां व्यभिचारिभावानां भिदा भेदा इति तथोक्ताः । तु । त्रयस्त्रिंशत् । इति योज्यम् ॥ १६६ ॥ १६७ ॥
अयम्भावः-विशिष्टतयाऽभितः (अनियताः सन्तः) चरन्तीति व्यभिचारिणः । तत्र विशिष्टत्वं नाम विभावानभावसात्विकभावापेक्षयातिशयितस्वम् । तच्च (अतिशयितत्वं च) रसानुगुण्यापेक्षाकृतमेवे, त्येवं विभावानुभावसास्विका.
२६