________________
२०० - साहित्यदर्पणः ।
[ तृतीयः१८१ प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः । यथा
'प्रेमााः प्रणयस्पृशः परिचयादगाढरागोदया-- स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा
दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ ९३ ॥' यथा वा'हाहा देवि ! स्फुटति हृदयं, स्रंसते देहबन्धः, शून्यं मन्ये जगदविरतज्वालमन्तवलामि । 'विररामेति प्रयुक्तं, तदपि न साम्प्रतम् , 'विरराम ने' त्यपठित्वा 'न तु हा हन्ते'ति तु साम्प्रतम् । यद्वा-न हाशशामेत्यपि युक्तम्, अन्यथा पदान्तरेण तस्यैवार्थस्याभिधाने प्रतीतिस्थगनं स्यादेव । किन्तु-वृष्टथा' इति पाठान्तर 'न तु हा हन्ते' त्येव युक्तः पाठः, अन्यथा 'वृष्टया' इत्यनेन 'धारासन्तति' रित्यत्रान्वयो नोपपद्यतेति बोध्यम् । अत्र व्यतिरेकोऽलङ्कारः, श्लोकश्छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ ९२ ॥'
यथा वा मम-'गन्तास्मीति निरुक्ता पतति स्म शुचा समर्पितरौः । परिहसिताऽसीति मुदोत्पतति स्म सम च तैः सैव ॥' इति ।
प्रलयं लक्षयति-१८१ प्रलय इत्यादिना ।
१८१ सुखदःखाभ्याम् । 'प्रवृ?' रिति शेषः । चेष्टाज्ञाननिराकृतिश्चेष्टा च ज्ञान चेति तयार्निराकतिः । परिभवोऽभाव इति यावत् । निश्चेष्टत्वं निरस्तज्ञातृत्वं चेति भावः । प्रलयः। 'मत' इति शेषः ।
उदाहरति-यथा-'प्रेमाा .. इत्यादौ ।
'आशंसापरिकल्पितास्वाशंसया मनोरथेन परिकल्पिता आरोप्य सङ्घटित (सङ्कल्पित) शरीरा इति तासु । अपि 'किं पुनःपुनः साक्षादनुभूयमानाखिति शेषः । यासु (चेष्टासु) 'सती'विति शेषः । अन्तःकरणस्य मनसः । बाह्यकरणव्यापाररोधी वाह्योऽसौ करणव्यापारश्चक्षुरादीनां विषयग्राहित्वं तं रुणद्धीत्येवंशील इति तथोक्तः । करणानीन्द्रियाणि । 'करणं साधकतम क्षेत्रगानेन्द्रियेष्वपि ।' इत्यमरः । आनन्दसान्द्र आनन्देन सान्द्र। घनीभूतः । लयस्तन्मयीभवनम् । क्षणा'न तु कालान्तरे' इति शेषः । भवति । अयम्भावः --'भवति समाधिष्वपि परमानन्दसाक्षात्कारे परमानन्दानुभवः, किन्तु न क्षणा' दिति ततोऽप्यतिशयितमहिमत्वेन व्यतिरेको ध्वन्यते । इति । तास्ताः । ताः सर्वा इति भावः । प्रेमााः प्रेम्णा करुणापरिपाकरूपेणापराधसहस्रऽपि अविकारिणा वात्सल्येनार्दाः सरसा न तु प्रयोजनमात्रानुयायिन्य इति तथोक्ताः । प्रणयस्पृशः प्रणयं प्रेमपरिपाकं स्पृशन्तीति तथोक्ताः । 'मुग्धदृश' इति विशेषत्वे तु 'प्रणयं स्पृशतीति तस्यास्तथोक्ताया इत्यर्थः । परिचयात् । ल्यपो लोपे पञ्चमी । तथा च परिचयमनुरुध्येत्यर्थः । उदाढरागोदया उद्गाढो नितान्तं स्थिरोऽनेकैरप्युपायैरुत्खातुमशक्य इति यावत् रागीदयो यासु ताः । रागस्यानुरागस्योदयः । निसर्गमधुरा निसर्गेण खभावेन मधुराः । मुग्धदृशो मुग्धे सुन्दरे अप्रगल्भे वा दृशौ यस्यास्तस्याः । 'मालत्या' इति शेषः । चेष्टा दर्शनहसितादिरूपा व्यापारविशेषाः । मयि माधव इति शेषः । अत्र विषये सप्तमी । भवेयुः । एवं च चेष्टासु चेष्टाविरोधोविरुद्धोऽपि सम्भवंस्तासामनैकान्त्यादिति विरोधाभासः । मालतीमाधवस्येदं पद्यम् , मालतीप्राप्तये श्मशानसाधने प्रवृत्तस्य माधवस्येयमुक्तिः । अत्र शार्दूलविक्रीडितं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ ९३ ॥
एवं सुखहेतुकं प्रलयमुदाहृत्य दुःखहेतुकमुदाहर्तुमुपक्रमते-यथा वेत्यादिना । वाऽथवा । यथा-'हाहा...इत्यादौ ।
'हाहा कष्टंकष्टम् । 'सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः इति द्विः । हे देवि सीते। हदयमुपचाराद्वक्षः । स्फुटति दीय॑ति । देहबन्धो देहस्योपचारादेहाङ्गानां बन्धः सङ्घटनम् । स्रंसते विशीर्यति । 'वंसत' इति पाठान्तरेऽप्ययमेवार्थः। जगत् । शून्यम् । मन्ये । अविरतज्वालमविरता ज्वाला यत्र (कर्मणि)