________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
१९९ सद्यः स्विद्यत्ययमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां कम्पते किं करोमि ॥९०॥' एवमन्यत ।
१७९ विषादमदरोषाद्यैर्वर्णान्यत्वं विवर्णता । यथा'परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी-मभिनवकरिदन्तच्छेदपाण्डः कपोलः ॥ ९१॥'
१८० अश्रु नेत्रोद्भवं वारि क्रोधदुःखप्रहर्षजम् ॥ १६५ ॥ यथा
'शशाम वृष्टिर्मेघाना-मुत्सङ्गे तस्य भूभृतः। विरराम न रामस्य धारासन्ततिरश्रुणः ॥१२॥' स्तम्भम् । अभ्येति । अयम् । अविरतोत्कम्पलोलाङ्गुलीकोऽविरतो निरन्तरं प्रवृत्तो य उत्कम्पस्तेन लोला अस्थिरा अङ्गुल्यो यस्य स इति तथोक्तः । 'नयतश्च।' ५।४।१५३ इति कप् । पाणिः । सद्यः। स्विद्यति तापेनेव सबाप्पो भवति । 'श्चिदागात्रप्रक्षरणे । लेखाविधिष लेखानां लिपीनां विधयो विधानानि तेषु । 'लेखा राज्यां लिपावपि ।' इति मेदिनी । 'विधिविधाने देवेऽपि'इत्यमरः । नितरां नितान्तम् । कम्पते। किम् । करोमि कुर्य्याम् । मन्दाक्रान्ताछन्दः, तल्लक्षणं चोक्तं प्राक् ९० ।
विवर्णतां लक्षयति-१७९ विषाद...इत्यादिना।
१७९ विषादमदरोषाद्यैः विषादश्च मदरोषौ चेति त आद्यायेषां (शोकमोहादीनाम्) तैः । वर्णान्यत्वं वर्णस्याकृतेरन्यत्वं विपरीतत्वं क्लान्तत्वेन परिणमनमिति यावत्तथोक्तम् । विवर्णता । 'मते'ति शेषः ।
उदाहरति-यथा-'परिमृदित...इत्यादौ ।
'परिमृदितमृणालीम्लानं परिमृदिता कराभ्यां ग्लापिता या मृणाली बालमृणालं (कमलानां कोमल मूलम्) तद्वन्म्लानं क्लान्तमिति तथोक्तम् । अद्धं गात्रम् । 'जात्यभिप्रायेणैकवचनम् ।' 'अस्या' इति पूर्वतः प्राप्तम् । एवं पुरस्तादपि । अस्या मालत्या इत्यर्थः । तथा-कथमपीच्छाराहित्येऽपि पारतन्येणेति भावः । परिवारप्रार्थनाभिः परिवारस्य वयस्याऽऽदिसमाजस्य प्रार्थना न तु प्रार्थनाप्रार्थने वा, ताभिः । क्रियासु 'शरीरधारणमात्रोपयोगिनीवि'ति शेषः । प्रवृत्तिर्न त्वादर' इति शेषः । एवं च तत्र वैराग्यातिशयो व्यज्यते । अभिनवकरिदन्तच्छेदपाण्डुरभिनवोऽसौ करिदन्तच्छेदस्तद्वत् पाण्डुः पाण्डुरः । 'हरिणः पाण्डुरः पाण्डु रित्यमरः । 'पाण्डु' रित्यत्र कान्त'इति पाठान्तरे कान्तः सुन्दरः पाण्डुरिति यावत्'इति भाव्यम् । कपोलो न तु कपोलौ, एकपार्श्वशयनेनैकस्यैव तथास्वात् । एवं च नितान्तं क्षामत्वं प्रतीयते चापीत्यर्थः । निष्कलङ्कस्य कलामात्रावशिष्टतया तिरोहितलाञ्छनचिह्नस्येति भावः । हिमांशोश्चन्द्रस्य । च । लक्ष्मी शोभाम् । कलयति धारयति । एतेन तस्य क्षान्तत्वेऽपि प्रकृतिरमणीयत्वं द्योत्यते । मालतीमाधवस्येदं पद्यम् , 'तथाहि-अस्या'इत्युपक्रम्य माधवस्य मकरन्दं प्रति मालत्यवस्थावर्णनपरम् । अत्र मालिनी छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ९१ ॥
अश्रु लक्षयति-१८० अश्रु..इत्यादिना ।।
१८० क्रोधदुःखमहर्षजम् । दुःखमाधिव्याध्युभयरूपम् । नेत्रोद्भवं नेत्राभ्यां सम्भवतीति तथोक्तम् । वारि जलम् । 'आपः स्त्री भूम्नि वारी' त्यमरः । अश्रु 'मत' मिति शेषः ॥ १६५ ॥
उदाहरति-यथा- 'शशाम.. इत्यादौ ।
'तस्यर्ण्यमूकनान इत्यर्थः । भूभृतः पर्वतस्य । 'भूभृद्गिरिनरेन्द्रयोः ।' इति गोपालः । उत्सङ्गे क्रोड उपचारान्मध्यभागे । मेघानां न तु मेघस्य मेधयोर्वे'ति शेषः । वृष्टिः । शशाम निवृत्ताऽऽसीत् । 'वृष्टया' इति पाठे तु-वृष्टिसम्बन्धिनीत्यर्थः । धारासन्ततिरिति शेषः । किन्तु-रामस्य । अश्रुणोऽश्रुसम्बन्धिनीत्यर्थः । धारासन्ततिधाराणां स्थूलस्थूलपातानां सन्ततिरुत्तरोत्तरं द्धिः । न नैव । विरराम शशाम । अत्र यद्यपि पुनरुक्ततापरिह