________________
१९८ साहित्यदर्पणः।
[ तृतीयः१७७ मदसम्मदपीडाऽद्यै-वैस्वयं गद्गदं विदुः । यथा'उन्मादिकोकिलककुप्क्वणनोज्ज्वलानि संवाद्यमानकुररीगणकूजितानि । सम्भ्रान्तगद्गदविभिन्नसुदुःस्वराणि चेतो हरन्ति वचनानि सरोरुहाक्ष्याः ॥ ८९ ॥
१७८ रागद्वेषश्रमादिभ्यः कम्पो गात्रस्य वेपथुः ॥ १७२ ॥ यथा'वारंवारं तिरयति दृशोरुद्गमं बाप्पपूर-स्तत्सङ्कल्पोपहितजडिम स्तम्भमभ्येति गात्रम् ।
उद्भूयमानत्वप्रत्यायकाश्चिहविशेषाः । इव । सनाताः। पुलकोत्कराः पुलकानां रोम्णामुत्कराः पुजा इति तथोक्ताः । इति-चित्रमाश्चर्य्यम् । सखायं प्रति कस्यापि स्वानुभूतवृत्तवर्णनपरेयमुक्तिः । अत्र श्लोकश्छन्दः ॥ ८८॥
यथा वा मम--'अन्तर्जातो मदनो बहिर्बुभूषुः सरोजनेत्रायाः । प्रेयसि दृष्टे पुलकितमासीद्वक्षः कपोलयुग्मंच ॥' इति। खरभङ्गं लक्षयति-१७७ मद..इत्यादिना ।
१७७ मदसम्मदपीडाऽऽद्यैर्मद उन्मादः । सम्मदो हर्षः। पीडा व्याधिः । आदिपदं च जागरणोचारणाधिक्यादिग्राहकम् । गद्दमुपचारादव्यक्तोच्चारणम् । वैस्वयं विस्वरस्य भाव इति तथोक्तम् । स्वरभङ्गमित्यर्थः । विदुः।
उदाहरति--यथा-'उन्मादि... इत्यादौ ।
'उन्मादिकोकिलककुपवणनोज्ज्वलान्युन्मादिन उन्मत्ता ये कोकिलास्तेषां ककुपक्वणनं दिग्व्यापी शब्दस्तद्वदुज्ज्वलानि सुन्दराणीति तथोक्तानि । 'ककुबि' त्यत्र 'कले'ति पाठान्तरे तून्मादिकोकिलकल (मधुरध्वनि) वत् (मधुरं) वणनं रशनाध्वनिस्तेनोज्ज्वलानि व्याप्तानीति भावः । 'क्वणनं रशनाध्वनि'रिति कविसमयः । संवाद्यमानकुररीगणकूजितानि संवाद्यमानानि स्वरैक्येनोच्चार्य्यमाणानि कुररीगण (स्य) कुजितानि यत्र यैर्वा तानि । कुररी पक्षिविशेषः । कूजितं च दु:खावेदकः शब्दः, स च कुराः स्वाभाविकः कान्तायाः · पुनः कृत्रिमोऽनुरागातिशायकः । सम्भ्रान्तगद्गदविभिन्नसुदुःस्वराणि सम्भ्रान्तं सभयाश्चयं यथा भवेत्तथा गद्दोऽव्यक्तध्वनिविशेषस्तेन विभिन्ना विशेषिताः सुदुःखरा अत्यन्तमाक्षेपकवनयो यत्र तानि । सरोरुहाक्ष्याः । 'आलिङ्गिताया'इति शेषः । वचनानि । चेतश्चित्तम् । हरन्ति । सखायं प्रति रमणावस्थावर्णनोक्तिरियम् । अत्र वसन्ततिलकश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ८९॥'
वेपथु लक्षयति-१७८ राग... इत्यादिना
१७८ रागद्वेषश्रमादिभ्यो राग (अनुराग ) श्च द्वेषश्च श्रमश्चेति त आदौ येषां (घोरदर्शनादीनां ) तेभ्यः । गात्रस्य शरीरस्य । ‘गात्रं वपु रित्यमरः । कम्पः। वेपथुः । 'मत' इति शेषः ॥ १६४ ॥
उदाहरति-यथा-'वारंवारं...इत्यादौ ।
बाष्पपूरोऽश्रुजलप्रवाहः । 'बाष्पमूष्माश्रु'इत्यमरः । 'पूरो जलप्रवाहे स्यादिति मेदिनी। वारंवारं पुनःपुनरित्यर्थः । 'वारंवारं शश्वदर्थे' इति त्रिकाण्डशेषः । दृशोर्नेत्रयोः । उद्गममुन्मीलनमिति भावः । तिरयति तिरस्यति तिरोहितं करोतीति यावत् । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । इति णिच् । 'अव्ययानां भमात्रे टिलोपश्च ।' इति टिलोपः । तत्सङ्कल्पोपहितजडिम तस्याः कान्तायाः सङ्कल्पो मनोवृत्तिविषयता तेनोपहितः सन्निधिं नीतो जडिमा जाडयं यत्र तत्तथोक्तम् । 'सङ्कल्पः कर्म मानसम् ।' इत्यमरः । जडस्य भावो जडिमा । 'वर्णदृढादिभ्यः ज्यश्च ।' ५।१।१२३ इतीमनिन् । गात्रमहं शरीरं वा । (कर्तृ) 'गात्रं गजाग्रजङ्घाऽऽदिभागेऽप्यङ्गे कलेवरे । इति मेदिनी।