________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः ।
यथा'अधीराक्ष्याः कटाक्षा वः श्रेयसे सन्तु जिष्णवः । युवानस्तत्रतत्रैव यत्पातैलिखिता इव॥८६॥'
१७५ वपुर्जलोद्गमः स्वेदो रतिधर्मश्रमादिभिः । यथा'कान्तानां कृतपुलकः स्तनान्तराले, वऋषु च्युततिलकेषु मौक्तिकाभः । आपेदे श्रमसलिलोद्गमो विभूषां रम्याणां विकृतिरपि श्रियं तनोति ॥ ८७ ॥'
१७६ हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ॥ १६३ ॥ यथा'चित्रं करतले स्पृष्टे सञ्जाताः पुलकोत्कराः । सखे ! तस्याः कुचयुगे हर्षबीजाङ्कुराइव ॥८८॥' उदाहरति-यथा-'अधीराक्ष्याः .. इत्यादौ ।
'यत्पातैः येषाः पाताः शराणामिव पतनानि तैः । युवानो न तु वृद्धाः शिशवो वेति भावः। एतेन सामर्थ्यातिशयो द्योत्यते । तत्रतत्र। 'यत्रयत्र स्थिता आस' निति शेषः । वीप्सायां द्वित्वम् । एव 'न तु पुरः किञ्चित् प्रवृत्ता' इति शेषः । लिखिता। इव चित्रिता इवासन् । 'ते' इति शेषः । अधीराक्ष्या अधीरे चञ्चले अक्षिणी यस्यास्तस्याः । एतेन-रोषाभावो द्योतितः । जिष्णवो जयशीलाः । जयन्तीति तथोक्ताः । 'ग्लाजिस्थश्च पस्नुः।' ३।२।१३९ इति रस्नुः । कटाक्षा अपाङ्ग्रेन दर्शनानि । 'कटाक्षोऽपाङ्गदर्शने ।' इत्यमरः । वो युष्माकम् । श्रेयसे । सन्तु। कस्या अपि वेश्यामातुः कमपि श्रीमन्तं प्रति ससम्मानमाशीर्वचनम् । अत्र श्लोकदछन्दः, तल्लक्षणं चोकम्॥८६॥
स्वेदं लक्षयति-१७५ वपु... इत्यादिना ।
१७५ रतिघमश्रमादिभिः। रती रमणं तदायास इति यावत् । धर्मः सूर्यादितेजःप्रभावस्तापः । श्रमो गमनाद्यायासः । आदिपदेन भराकरदर्शनाकस्मिकदुर्घटनादीनां ग्रहणम् । रमणायासस्य रमणान्तरायासस्य च नितान्तं वैलक्षण्यमिति व्यवच्छिद्य निर्देशः । वपुर्जलोद्गमो वपुषो जलोद्गमो जलस्य प्रादुर्भाव इति तथोक्तः । स्वेदः। 'स्यादिति शेषः ।
उदाहरति-यथा-'कान्तानां... इत्यादौ ।
'कान्तानां सुन्दरीणाम् । स्तनान्तराले स्तनयोरन्तरालं मध्यं तत्र । 'अभ्यन्तरं त्वन्तराल' मित्यमरः । कृतपुलक उत्पादितरोमहर्षः । 'पुलको गजानपिण्डे रोमाञ्चे प्रस्तरान्तरे । इति हैमः । च्युततिलकेषु च्युतं गलितं तिलकं येभ्यस्तेषु । वक्रेषु मुखेषु । अधिकरणे सप्तमी । मौक्तिकाभो मुक्ताफलसदृशः । श्रमसलिलोद्गमः श्रमो भ्रमणाद्यायासस्तस्य सलिलोद्गमः । विभूषाम् । आपेदे प्राप । युक्तं चैतत्, यतः-रम्याणां 'स्वभावत'इति शेषः । विकृतिः कथमपि जातो विकार इति भावः। अपि किं पुनस्तादवस्थ्यमिति शेषः। श्रियं शोभाम्। 'श्रीबेशरचनाशोभाभारतीसरलदमे । लक्ष्म्यां त्रिवर्गसम्पत्ती वेषोपकरणे मतौ ॥ इति विश्वमेदिन्यौ। तनोति विधत्ते विस्तारयति वा अत्र प्रहर्षिणी छन्दः, तलक्षणं चोक्तं प्राक् ॥ ८७ ॥'
रोमाञ्चं लक्षयति-१७६ हर्षा...इत्यादिना ।
१७६ हर्षाद्भुतभयादिभ्यः। हर्षः पुत्रजन्माद्यामोदः । अद्भुतं विलक्षणदर्शनम् । भयमनिष्टाशंसनादिजम् । आदिपदेन-शीतादीनां ग्रहणम् । रोमविक्रिया रोम्णां विक्रिया कदम्बपुष्पावयवाकारत्येन परिणाम इति तथोक्ता। रोमाञ्चः । 'उच्यत इति शेषः ॥ १६३ ॥
उदाहरति-यथा-'चित्रं.. इत्यादौ।
'हे सखे मित्र ! करतले 'ममे'ति शेषः । स्पृष्टे 'सती'ति शेषः । तस्या मनःस्थायाः प्रकृतप्रशंसनायाः कान्ताया इत्यर्थः । कुचयुगे कुचयुगलोपरि । हर्षबीजारा हर्षस्यामोदस्योपचाराद्धर्षवृक्षस्य बीजं तस्याङ्कुरा