________________
१९६
साहित्यदर्पणः ।
सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः ।
१७२ सत्त्वमात्रोद्भवत्वात्ते भिन्ना अप्यनुभावतः ।
'गोबलीवर्दन्यायेने 'ति शेषः । केत इत्याह-
तत्र
१७३ स्तम्भः स्वेदोऽथ रोमाश्वः स्वरभङ्गोऽथ वेपथुः ॥ १६१ ॥ वैवर्ण्यम प्रलय इत्यष्टौ सात्त्विका मताः ।
[ तृतीय:
१७४ स्तम्भश्चेष्टाप्रतीघातो भयहर्षामयादिभिः ॥ १६२ ॥
सत्त्वम् । नाम । प्रसिद्ध्यर्थेऽव्ययमिदम् । स्वात्मविश्रामप्रकाशकारी खात्मनि विश्रामः पर्यवसानं यस्य तस्य, सोऽसौ वा प्रकाशकारी । विद्युतिकारास्तु - 'स्वात्मन्येव विश्रामो यस्य स रत्यादिः, तस्य प्रकाश उद्बोधस्तत्कारी ।' इति विवृण्वते, 'प्रागुक्तमपि सत्त्वलक्षणं शिष्याणां विविधव्युत्पत्त्यै प्रकारान्तरेण पुनरुक्तम् ।' इति चाहुः । कश्चन । आन्तरोऽन्तर्भव इति तथोक्तः । धर्मः ।
नवेषां किं नाम व्यपदेशबीजम् ? इत्याह- १७२ सत्त्व.. इत्यादि ।
१७२ ते सात्विका भावाः । सत्त्वमात्रोद्भवत्वात् । मात्रपदेन रजस्तमसोः सर्वदा व्यवच्छेदः । अत्र हेतौ पञ्चमी । अनुभावतोऽनुभावेभ्यः । अत्राप | दानपञ्चम्यर्थस्तस् । भिन्नाः । अपि 'अभिन्ना' इति शेषः ।
ननु कथमेवमित्याह - 'गोबलीवर्दन्यायेन गोबलीवर्दयोर्यायो युक्तिस्तेन यथा गोत्वेन बलीवर्दत्वेन चानयोर्भेदेऽपि गोत्वेनाभेदस्तथेति युक्त्येति यावत् । इतीत्येवम् । शेषः । अवशिष्यत इति भावः । विवृतं च विवृतिकारैः-‘ननु भेदाभेदयोर्विरोध इत्यत आह-गोबलीवर्देति । तथा चानुभावत्वावच्छिन्नप्रतियोगिताकभेदाभावेन सहानुभावत्वसमानाधिकरणधर्म्मावच्छिन्नप्रतियोगिताकभेदस्य समावेशः । यथा बलीवर्दे गोत्वावच्छिन्नप्रतियोगिताकभेदाभावेन सह गोत्वसमानाधिकरणधेनुत्वादिधर्मावच्छिन्नप्रतियोगिताकभेदाभावेन सह गोत्वसमानाधिकरणधेनुत्वावच्छिन्नप्रतियोगिताकभेदस्येति भावः । 'विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ।' इत्यादौ सात्त्विकभावस्य पृथगुपन्यासेनानुभावातिरिक्तत्वशङ्कानिवारणार्थमिह पृथगुपादानम् ।' इति ।
सात्विक इति बहुवचनेन तेषां बहुत्वे सिद्धे तजिज्ञासामुत्थापयति- क इत्यादिना ।
ते बहुवचनद्यत्याः सात्त्विकभेदा इत्यर्थः । के किंकिनामानः किंकिंखरूपाचेत्यर्थः । इतीत्येव जिज्ञासायाम् । आह- क्रमेणोत्तरयतीति भावः । १७३ स्तम्भः इत्यादिना ।
१७३ स्तम्भो जडीभाव: । ' स्तम्भौ स्थूणाजडीभावा' वित्यमरः । स्वेदः स्वेदनम् । 'स्वेदो घर्मे स्वेदने चे 'ति हैमः । अथ । रोमाञ्चो रोम्णामुद्रमः । स्वरभङ्गः स्वरस्य भङ्गो भञ्जनम् । अथ । वेपथुः कम्पः । 'अथ वेपथुः कम्पः ' इत्यमरः । वैवर्ण्य विगतो वर्णो रूपं यस्य तस्य भावस्तथोक्तम् । यद्वा - विरुद्धो वर्णः, स एवेति तथोक्तम् । 'वर्णदृढादिभ्यः यश्च ।' ५।१।१२३ इति 'चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम्' इति वा ष्यञ् । अश्रु नेत्रोदकमुपचारात्तत्पातः । ' रोदनं चास्रमश्रु च ।' इत्यमरः । प्रलयो 'बुद्ध्यादीना' मिति शेषः । इतीत्येवम् । अष्टा अष्टभेदाः । सात्त्विकाः । मताः ॥ १६१ ॥
एवं नामानि निर्दिश्य स्वरूपाणि निर्देष्टुमुपक्रमते तत्र तेषु स्तम्भादिषु मध्ये इति यावत् ।
१७४ भयहर्षामयादिभिर्भयं च हर्षश्चामय (रोग) श्रुति त आदौ येषां ( घातपातादीनां ) तैः । अत्र साधने तृतीया । चेष्टाप्रतीघातश्चेष्टायाः कायिकव्यापारस्य मानसिकव्यापारस्य चेति भावः, प्रतीघातो विघात इति तथोक्तः । 'उपसर्गस्य घञ्यमनुष्ये । बहुलम् ।' ६।३१२२ इति दीर्घः । स्तम्भस्तत्पदवाच्यः सात्त्विको भाव इत्यर्थः ॥ १६२ ॥