________________
परिच्छदः ]
रुचिराख्यया व्याख्यया समेतः । रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते, स कान्यनाट्ययोः पुनरनुभावः। कः पुनरसावित्याह
१७० उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः ॥ १५९॥
तद्रूपाः सात्त्विका भावा-स्तथा चेष्टाः परा अपि । तद्रूपा अनुभावस्वरूपाः। तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते । तत्र सात्त्विकाः
१७१ विकाराः सत्त्वसम्भूताः सात्त्विकाः परिकीर्तिताः ॥ १६० ॥ द्भूतम् । रत्यादिकम् । 'भाव' मिति शेषः । बहिः प्रत्यक्षम् । प्रकाशयन् प्रकाशयतीत्येवम्भूतः । कार्यम् । इतीत्येवम् । उच्यते । स कार्य्यरूपो रत्यादिर्नामान्तरुद्द्धो भाव इत्यर्थः । काव्यनाट्ययोः काव्ये नाट्थे । चेत्यर्थः । नाट्यं नाटकम् । एतयोः श्रव्यदृश्यत्वाभ्यां गोबलीवर्दवद्भेदः । पुनः। एतेन 'लोक' इति व्यवच्छिद्यते । अनुभावस्तत्पदेन व्यपदिश्यत इति भावः ।
अस्य खरूपमभिधातुं जिज्ञासामुत्थाप्य प्रतिजानीते-क इत्यादिना ।
असावनुभावः । पुनः । कः किंखरूपः । इतीत्येवम् । 'जिज्ञासासत्त्व' इति शेषः । आह- १७० उक्ताः... इत्यादिना।
१७० स्त्रीणाम् 'य'इति शेषः । अङ्गजा अङ्गान्मनसो जायन्त इति तथोक्ताः, भावाद्यास्त्रय इत्यर्थः । च तथा । स्वभावजाः । व आत्मीयो नायिकासम्बन्धीति यावद्, यो भावो मनोविकारस्तस्माज्जायन्त इति तथोक्ताः । यद्वा-स्वः सत्त्वगुणप्रधानो यो भावस्तज्जा इत्यर्थः । लीलाऽऽद्या अष्टादशेति भावः । अलङ्कारा अलं (स्त्रीसम्बन्धि यौवनं) पर्याप्तं क्रियत एभिः, कुर्वन्तीत्येव वा तथोक्ताः । उक्ता निरूपिताः । 'अथासामलङ्कारा' इत्यादिनेति शेषः । तथा। 'थे'इति शेषः । सात्त्विकास्सत्त्वाद्भवन्तीति तथोक्ताः । सत्त्वगुणप्रधाना इति भावः । भावा मनोविकारवरूपाः । ‘वक्ष्यन्ते'इति शेषः । ते एवम्-परा अन्या एतेभ्यो भिन्ना इति यावत् । च्चेष्टा भ्रूनेत्रादिविक्षेपाः, बहुवचनेन तदादयः । 'सम्भाव्यमाना'इति शेषः । अपि । समुच्चयार्थमिदमव्ययम् । तद्रूपास्सो ऽनुभावो रूपं स्वरूपं येषां ते तथोक्ताः । 'ज्ञेया'इति शेषः ॥ १५९ ॥
संशयापनोदायाह-तपा'इत्यस्येति शेषः । अनुभावस्वरूपाः। 'इत्यर्थ'इति शेषः।
अयम्भावः-भावादयस्त्रयोऽङ्गजा लीलाऽऽदयश्चाष्टादश स्वभावजा येऽलकाराः स्त्रीणामुक्तास्ते तथा वक्ष्यमाणा ये स्तम्भादयोऽष्टौ सात्त्विका भावास्ते, एवं याश्चेष्टाऽऽद्याः सम्भवन्ति ता अपि नानुभावातिरिक्ताः अनुभाषयन्तीति व्युत्पत्तेः । न चैवमयत्नजा अप्यनुभावा इति गदितुं युक्तम्, रत्यायनुमापकत्वाभावात् । भेदोऽप्येवं खभावजेभ्य एतेषाम् । एते च कार्याणि । यथोक्तं-'यानि च कार्य्यतया तान्यनुभावशब्देन ।' इति । 'कार्याणि हिरोमाश्चादीनि स्वकारणमाधिक्येन व्यञ्जयन्तीत्यनुभावा अपि रत्यादेः कार्याणी'ति च । इति ।
एतानपि सौकर्येण प्रस्तावमुपपद्यैवाभिधातुं युक्तमित्याह-तत्र तेषु अनुभावेष्विति यावत् । निर्धारणार्थी सप्तमी । यः। यस्य । रसस्य शृङ्गारादेर्निर्वेदादेश्च । अनुभावः। 'सम्भवती'ति शेषः । सः। तत्स्वरूपवर्णने तस्यरसस्य लरूपं तस्य वर्णनं तत्रक्रियमाण' इति शेषः । वक्ष्यते ।
अथ सात्त्विकानभिधातुं प्रतिजानीते-तत्रेत्यादिना । तत्र तेष्वनेकविधेष्वनुभावेषु मध्य इति यावत् । सात्त्विका वक्ष्यन्ते १७१ विकाराः..इत्यादिना ।
१७१ सत्त्वसम्भूताः सत्त्वात्सम्भूता उबुद्धा (अभिव्यक्ता) इति यावत् । विकाराः परिणामाः । 'मनस' इति शेषः । सात्त्विकाः। 'भावा' इति शेषः । परिकीर्तिताः। 'सत्त्वमात्रोद्भवा भावा: सात्त्विकाः परिकीर्तिताः ।' इति पाठान्तरेऽप्ययमेवार्थः ॥ १६० ॥
किं नाम सत्त्वमिति 'रजस्तमोभ्यामस्पृष्टं मनः सत्त्व' मिति स्वरूपमपि शिष्याणां सौख्यायाह-सस्वमित्यादिना।