________________
१९४
साहित्यदर्पणः ।
यो यस्य रसस्योद्दीपनविभावः स तत्स्वरूपवर्णने वक्ष्यते ।
अथानुभावः
[ तृतीय:
१६९ उद्बुद्धं कारणैः स्वैःस्वै - बहिर्भावं प्रकाशयन् ॥ १५८ ॥ लोके यः कार्य्यरूपः सोऽनुभावः काव्यनाट्ययोः ।
यः खलु लोके सीताऽऽदिचन्द्रादिभिः स्वैःस्वैरालम्बनोद्दीपनकारणै रामादेरन्तरुद्बुद्ध
तत्र | अन्यत्र - उदयमहीधरवत् ( अत्युच्चौ ) स्तनौ तयोरन्तत्र । करं किरणं पाणि वा । 'बलिहस्तशिवः करा:' इत्यमरः । निवेश्य स्थापयित्वा । विकसितकुमुदेक्षणं विकसितानि यानि कुमुदानि तानीक्षयति दर्शयतीतितत्, तानीक्षणानीव यत्र तदिति वा तथाभूतम् । अन्यत्र विकसितकुमुदे इवेक्षणे नेत्रे यस्य तत् । अमरंशदिशो ऽमराणामीशस्तस्येन्द्रदेवस्य या दिक् दिशा तस्याः, पूर्वस्या दिश इत्यर्थः । अमरेशस्य किं पुनः कस्यचिन्मनुष्येशस्य दिक उपचारात्तद्वत्पथदर्शिकाऽत एव नायकं वशीकृत्योच्छृङ्खलतया वर्त्तमाना नायिका तस्या इत्यर्थः । मुखं द्वारम् । अन्यत्राननमुपचारात् तदुपलक्षितः समुदाय इत्यर्थ: । ' मुखमुपाये प्रारम्भे श्रेष्ठे निस्सरणास्ययोः । ' इति हैमः । विचुम्बति विशेषेण चुम्बत्युपचाराच्चुम्बतीव, स्पृशतीत्यर्थः । अन्यत्र यथाश्रुतार्थ एव । अत्र श्लेषवती समासोक्तिः । पुष्पिताग्रावृत्तं च तल्लक्षणं चोक्तं प्राक् ॥ ८५ ॥ इति ।
अत्रेदं बोध्यम्-सुधांशौ नायकत्वस्य दिशि नायिकात्वस्य चारोपः, अत एवात्र समासोक्तिः । तत्र सुधांशुदर्शनेन दिशो विकसितकुमुदेक्षणत्वमित्युद्दीपनविभावः सुधांशूदयः । इति ।
ननु स्यादेवं शृङ्गाराभासस्यायं, किन्तु कस्कोरसान्तरस्योद्दीपनविभाव इत्याह-यः । यस्य । रसस्य 'रस्यत आखायत' इति व्युत्पत्तेः शृङ्गारादेर्निर्वेदादेवेत्यर्थः । यः उद्दीपनविभावः । 'सम्भवती 'ति शेषः । सः । तत्स्वरूपवर्णने तस्य (रसस्य) स्वरूपं लक्षणं तस्य वर्णनं निरूपणं तस्मिन्, 'सती'ति शेषः । वक्ष्यते ।
अयमिह पर्यालोकः - "विभावयती 'ति विभाव इति यदवलम्ब्य रत्यादिराविर्भवति, तल्ललनादिरूपमालम्बनविभावाभिधेयं जनककारणम्, आविर्भूते च रत्यादौ यत्तत्परिपोषकं तच्चन्द्रोदयादिरूपमुद्दीपनविभावाभिधेयं परिपोषककारणम् । यथाssहुः ' यद्यप्युद्दीपकस्य स्थायिनि न कारणत्वं किन्तूत्पन्ने तस्मिन्नीषदुत्कर्षाधायकत्वमुद्दीपकत्वम् । तथाऽप्यनुद्दीपितोऽजातप्राय एवेत्युद्दीपकेऽपि कारकत्वोपचारात् तत्रापि विभाव (कारण) व्यवहारः । विभावादिसञ्ज्ञा च विभावनादिव्यापारयोगात् । ' इत्येके । 'यो यस्याश्चित्तवृत्तेर्विषयः स तस्या आलम्बनम् । निमित्तानि चोद्दीपकानि ।' इत्यपरे । एतेषामयमभिप्रायः - नायिकाऽऽदिरत्यादिं प्रति नायकादिः समवायिकारणम्, चन्द्रोदयादिस्तु निमित्तम् । नहि नायकादिं विना नायिकाऽऽदिरत्यादिरुद्भाव्यते न वाऽवतिष्ठते । इत्यस्य समवायित्व, मितरस्य तु निमित्तत्वमपरोऽक्षम् । इति ।
अथानुभावस्वरूपमभिधातुं प्रतिजानीते- अथेत्यादिना ।
अथ विभावनिरूपणानन्तरम् । अनुभावः निरूपयिष्यते - १६९ उद्बुद्धं इत्यादिना ।
१६९ स्वैःस्वैः स्वकीयैः स्वकीयैरित्यर्थः । वीप्सायां द्वित्वम् । कारणैर्जनकपरिपोषकरूपैरालम्बनोद्दीपनपदवाच्यैर्हेतुभिरित्यर्थः । उद्भुद्धं प्रतीतिपथमवतीर्णम् । 'अन्त' रिति शेषः । भावं मनोविकारं तद्रूपं रत्यादिकमिति यावत् । बहिः । प्रकाशयन् उद्भावयन् लोके जगति व्यवहारमार्गे इति यावत् । यः । कार्यरूपः । सः । काव्यनाट्ययोः काव्ये नाट्ये चेत्यर्थः । अनुभावः । ' इति व्यपदिश्यत' इति शेषः ॥ १५८ ॥
तदेव निर्दिशति यः । खलु । लोके संसारे । सीताऽऽदिचन्द्रादिभिः सीताऽऽदीनि च चन्द्रादीनि चेति तैस्तत्स्वरूपभूतैरित्यर्थः । स्वैः स्वैः स्वकीयैः स्वकीयैः । ' स्वः स्यात्पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने ।' इति मेदिनी । आलम्बनोद्दीपनकारणैरालम्बनकारणैरुद्दीपनकारणैश्चेत्यर्थः । रामादेः । अन्तरन्तःकरणे । उद्बुद्धमु