________________
परिच्छेदः )
रुच्चिराख्यया व्याख्यया: समेतः। १६६ धीरोद्धतः पापकारी व्यसनी प्रतिनायकः । यथा रामस्य रावणः। अथोद्दीपनधिभावाः
१६७ उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥ १५७ ॥
सपा ।
१६८ आलम्बनस्य चेष्टाऽद्या देशकालादयस्तथा । चेष्टाऽऽद्या इत्याद्यशब्दादूपभाषणादयः । कालादय इत्यादिशब्दाञ्चन्द्रश्चन्दनकोकिलाला. पभ्रमरझङ्कारादयः । तत्र चन्द्रोदयो यथा मम
'करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य । विकसितकुमुदेक्षणं विचुम्ब-त्ययममरेशदिशो मुखं सुधांशुः ॥ ८५॥' इति ।
१६६ धीरोद्धतो 'मायांपरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः । आत्मश्लाघानिरत' इत्युक्तलक्षणलक्षित इत्यर्थः । पापकारी पापमनर्थ करोतीत्येवंशील इति तथोक्तः । व्यसनी व्यसनानि सन्त्यस्येति तथोक्तः । व्यसनानि च कामजानि क्रोधजानि च, यथोक्तानि मनुना-'कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेन्वात्मनैव हि ॥ मृगयाऽक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाऽध्या च कामजो दशको गणः ॥
साहसं द्रोह इंयाऽसूयाऽर्थदूषणम् । वाग्दण्डजं च पारुष्य क्रोधजोऽपि गणोऽष्टकः ॥ इति । अक्षोऽक्षातादिरूपा क्रीडा । तौर्यत्रिक तौर्योपलक्षितं त्रिकमिति तथोक्तम्, तच्च 'तौर्यत्रिकं नृत्यगीतवाद्य नाट्यमिदं त्रयम्।' इत्यमरेणोक्तम् । पैशुन्यमविज्ञातपरदोषाविष्करणम् । साहसं साधोबन्धनादिनानिग्रहणम् । द्रोहो हन्तुमिच्छा। ईर्ष्या परगुणोत्कर्षद्वेषित्वम् । असूया परगुणेषु दोषारोपणम् । अर्थदूषणम् अर्थानामपहरणम् , देयानामदानं च । स्पष्टमितरत् । प्रतिनायकः । 'मत' इति शेषः ।
उदाहरति-यथा । रामस्य । रावणः । इति । एतावताऽऽलम्बनविभावो निरूपितः, अथोद्दीपनविभाव निरूपयितुं प्रतिजानीते-अथेत्यादिना। अथालम्बनाख्यविभावनिरूपणानन्तरम् । उद्दीपनविभावाः । निरूप्यन्ते-१६७ आलम्बनस्येत्यादिना ।
१६७ ये। रसं शृङ्गारादिरूपं निर्वेदादिरूपं वाऽऽस्वादविशेषम् । उद्दीपयन्ति । ते। उहीपनविभाषा:। 'मता' इति शेषः ॥ १५७ ॥
तेषां च दिङ्मात्रं दर्शयन्नाह-ते उद्दीपनपदवाच्या विभावा इत्यर्थः । च
१६८ आलम्बनस्य नायकादिरूपस्य विभावस्येत्यर्थः । चेष्टाऽऽद्याश्चेष्टा नेत्रसञ्चारादिरूपा आद्या येषां ते। तथा। देशकालादयः । देश उपवनादिरूपः, कालो वसन्तादिरूपः, तावादी येषां ते 'मता' इति शेषः ।
कारिकाया दुर्बोधतां परिहरति-चेष्टाऽऽद्याः । इत्यत्रेति शेषः । आद्यशब्दात । ल्यपो लोपेऽसौ पञ्चमी । रूपभाषणादयः । आदिपदेन तत्तच्छ्रवणादीनां ग्रहणम् । 'ग्राह्या' इति शेषः । कालादयः । 'इत्यत्रे'ति शेषः । आदिशब्दात् । अत्रापि ल्यपी लोपे पञ्चमी । चन्द्रचन्दनकोकिलालापभ्रमरझङ्कारादयः । आदिपदेन मलयानिलादीनां ग्रहणम् । 'ग्राह्या' इति शेषः ।
उदाहरति-तत्र तेषु तथाऽनेकविधेषूद्दीपनविभावैषु मध्य इति यावत् । चन्द्रोदयः। 'नामोद्दीपनविभाव' इति शेषः । यथा । मम कृतौ-'कर..' इत्यत्र ।
'अयं पुरतो दृश्यमानः । सुधांशुश्चन्द्रमास्तन्नामा वा तत्वेनाध्यस्यमानो वा नायक इत्यर्थः । गलिततमःपटलांशुके गलितं नष्टं तमःपटलमन्धकारनिचय एवांशुकं यस्य तथाभूते । अन्यत्र-गलितं च्युतं तमो नील श्याम चा पटलांशुकमावरणीयवस्त्रं यस्मात् तत्र । उदयमहीधरस्तनाग्र उदयमहीधर उदयगिरिरेव स्तनस्तस्याओं
२५