________________
१९२
साहित्यदर्पणः ।
ण मणा पि वारओ इध अस्थि घरे घणरसं पिअंतार्णम् ॥ ८४ ॥' एताश्च नायिकाविषये नायकानामपि दूत्यो भवन्ति । दूतीगुणानाह
१६४ कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ॥ १५५ ॥ माधुर्य्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः । १६५ एता अपि यथौचित्यमुत्तमाधममध्यमाः ॥ १५६ ॥ एता दूत्यः । अथ प्रतिनायक:
[ तृतीयः -
तन्त्राया वा कामिन्या अन्तिक इति यावत् । जासि यासि । इध इह । घरे गृहे । घणरसं घनरसं घनस्य मेघस्य रसस्तम्, जलमित्यर्थः । 'मेघपुष्पं घनरस' इत्यमरः । घनो निविडो रस आस्वादो यत्र तम्, अधरमित्यर्थो वा । पिअंताणं पिबताम् । 'जनाना' मिति शेषः । मणा मनाक् । पि अपि । वारओ वारकः । ण न । अस्थि अस्ति । अत्र गीतिश्छन्दः, तलक्षणं चोक्तं प्राक् ॥ ८४ ॥'
न केवलं नायिकानामेव दृत्यों भवन्तीत्याह - एता अनन्तरोक्ताः । च । दूत्यः । नायकानाम् । अपि न केवलं नायिकानामेवेति भावः । नायिकाविषये 'अनुरागे सती 'ति शेषः । भवन्ति । सङ्गच्छते चैव नार्या उपलक्षणेन नरस्य चेति बोध्यम् । तथा च- नायिका विषयानुरागे नायकस्य स्वयंदूतीत्वमपि यथा मम - 'सखि ! हरिमानय जीवय मामपि भावय तमन्तराऽशरणम् । इत्यनुनीय विसञ्ज्ञामुदहत राधां स्वयं हरिर्भूत्वा ॥' इति दिक् ।
अथ प्रसङ्गानुक्तं दूतीगुणाभिधानं प्रतिजानीते-दूतीगुणान् । आह- १६४ कला... इत्यादिना ।
१६४ कलाकौशलं कलानां नृत्यादीनां कौशलं चातुर्य्यम् । उत्साहः सप्रमोदं कर्तव्यकर्म्मणि प्रवर्त्तितत्वम् । भक्तिः । चित्तज्ञता नायिकानायकयोश्चित्ताभिप्रायाभिज्ञत्वम् । स्मृतिः स्मरणम् । माधुर्य मधुरभाषित्वम् । नर्म्मविज्ञानं नर्म्मणां परिहासानां विज्ञानं विशेषेण ज्ञातृत्वम् । वाग्मिता भाषणपटुत्वम् । प्रशस्ता वागस्येति वाग्मी । 'वाचो ग्मिनिः ।' ५।२।१२४ इति ग्मिनिः । च । इतीत्येवम् । तद्गुणास्तस्या दूत्या गुणा इति तथोक्ताः ॥ १५५ ॥
अथोक्तगुणानामेव हानोपादानाभ्यामुत्कृष्टत्वानुत्कृष्टत्वे प्राह - १६५ - एता इत्यादिना ।
एता ' यासामनन्तरोक्ता गुणास्ता एवे 'ति शेषः । अपि । यथौचित्यमौचित्यमनतिक्रम्येति तथोक्तम् ! उत्तमाधममध्यमा उत्तमाश्चाधमाश्च मध्यमाश्चेति तथोक्ताः । ' भवन्ती 'ति शेषः ॥ १५६ ॥
एता: का इत्याशङ्कां परिहरति-- एताः । दूत्यः । इति ।
अयम्भावः- कलाकौशलादिभिर्गुणैः सुसम्पन्नोत्तमा, तद्विपरीताऽधमा, साधारण्येन सम्पन्ना मध्यमा च तत्राद्या यथा मम - 'तं कथमहमुपयायामिति यदि, तत्सखि ! चिकित्सका भूत्वा । एहि, तदाधिं व्यपनय, धर धृतिमिति काऽप्ययोजयद्राधाम् ॥' इति । द्वितीया यथा - 'निःशेषच्युतचन्दनं..' इत्यत्र यां प्रत्युक्तिः । तृतीया पुनर्गीतगोविन्दादो प्रसिद्धैव सन्देशमात्र परत्वात् । इति दिक् ।
अथ प्रतिनायकं निरूपयितुं प्रतिजानीते - अथेत्यादिना ।
अथ नायिकानायकयोर्लक्ष्यलक्षणाभ्यां प्रपञ्च्यनिरूपणानन्तरम् । प्रतिनायकः प्रतिनयति प्रापयत्यनर्थमिति, प्रतिकूलत्वेन न यातीति वा तथोक्तः । ' ण्वुल्तृचौ ।' ३|१|१३३ इति ण्वुल् । 'निरूप्यते - १६६ धीरोद्धतः... इत्यादिना ।
१. 'पान्थ ! पिपासित इव लक्ष्यसे यासि तत् किमन्यत्र । न मनागपि वारक इहास्ति गृहे घनरसं पिवताम् ॥' इति संस्कृतम् ।