________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः।
१९१ दूत्यश्व१६३ दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ॥ १५४ ॥
बाला प्रव्रजिता कारूः शिल्पिन्याद्याः स्वयं तथा। कारू रजकीप्रभृतिः, शिल्पिनी चित्रकारादिस्त्री। आदिशब्दात्ताम्बूलिकगान्धिकस्त्रीप्रभृतयः । तत्र सखी यथा-'श्वासान्मुश्चति-' इत्यादि । स्वयंदूती यथा मम'पन्थि ! पिआसिओ विअ, लच्छीअसि जासि ता किमण्णत्तो।
दिवसाः कियन्तः । सम्प्रत्ययोग्यस्थितिरेष देशः, करा यदिन्दोरुपतापयन्ति ॥' इदं नायिकाया लेख्यप्रस्थापनम् । नायकस्य पुनर्यथा-'सुन्दरि! न मम विना त्वां शयनं नक्तं, दिता कुतोऽपि वाऽऽमोदः । अमृषा ब्रवीमि दयिते ! तनुरिह, तत्रासवो भूयः ॥' इति, इदं मम । 'इत एव निजालय गताया वनिताया गुरुभिः समावृतायाः । परिवर्तितकन्धरं नतश्रु स्मयमानं वदनाम्बुजं स्मरामि ॥' इदं नायकाया वीक्षितम् । नायकस्य यथा शाकुन्तले दुष्यन्तस्य । मृदुभाषणमप्येवं तत्रैवोभयोः । दूतीसंप्रेषणं यथा गीतगोविन्दादौ। इति दिक् ॥ १५३ ॥
ननु का नाम दूत्यो यासां सम्प्रेषणं भावाभिव्यञ्जक्रमित्याह-दूत्यः। च पुनः ।
१६३ सखी । नटी नृत्यादिकुशला । दासी। धात्रेयी धात्र्या अपत्यं स्त्रीति तथोक्ता । 'स्त्रीभ्यो ढक् ।' ४।१।१२७ इति ढक् । 'आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ।' १२ इति ढस्य एयित्यादेशः। प्रतिवेशिनी प्रतिविशति प्रत्यासन्नतया निविशत इत्येवंशीलेति तथोक्ता। गृहान्तिके यस्या गृहं सेत्यर्थः बालाऽनिषिद्धप्रचारतया सर्वत्र सर्वोदन्तावगमसमर्था । प्रवजितोपचारेण प्रवजितासदृशीत्यर्थः । तथोक्तम् इह प्रत्रजिताशब्देन श्रमणाक्षपणारक्तपट्टिकादयस्तद्विशेषा अपि ग्राह्याः।' इति । कारू: कारो रजकनापिततक्षकतन्तुवायचर्मकारान्यतमस्येयं स्त्रीति तथोक्ता । 'रजकस्तक्षकश्चैव तन्तुवायश्च नापितः । चर्मकारस्तथेत्येवं कारः पञ्चविधः स्मृतः ॥' इति गणेशः । 'अडुतः ।। ४११६६ इत्यूङ । शिल्पिन्याद्याः शिल्पिनी चित्रकारिण्याद्या यत्र ताः । शिल्प कलादि कर्मास्या अस्तीति शिल्पिनी। 'शिल्पं कर्म कलाऽऽदिकम्।' इत्यमरः। तथा। स्वयं नायिका। 'इत्येता' इति शेषः। दृत्यः। भवन्तीति शेषः॥१५४॥ ___कारिकाकाठिन्यं परिहरति-कारूः। 'इत्यस्येति शेषः । रजकीप्रभृतिः। 'इत्यर्थः' इति शेषः । शिल्पिनी 'शिल्पिन्याद्या' इत्यंशभूतः शब्दः । 'इत्यस्येति शेषः । चित्रकारादिस्त्री । 'इत्यर्थ' इति शेषः। आदिशब्दादाद्यशब्दावयवभूतादित्यर्थः । ताम्बूलिकगान्धिकस्त्रीप्रभृतयस्ताम्बूलं शिल्पमस्यास्तीति ताम्बूलिकः, गन्धः शिल्पमस्यास्तीति गान्धिकस्तयोः स्त्रियौ, ते प्रभृती यासां ताः । आदिपदेन पाचकगायकख्यादीनां ग्रहणम् । एता हि प्रगल्भाश्चतुरा अप्रतिहतगमनाश्च भवन्ति । यथोक्तं कामसूत्रकारैः-'विधवेक्षणिका दासी भिक्षुकी शिल्पकारिका । प्रविशत्याशु विश्वासं दूतीकायै च विन्दति ॥' इति ।
उदाहर्तुमुपक्रमते-तत्रेत्यादिना ।
तत्र तासु दूतीषु मध्ये । सखी । इदमुपलक्षणं दास्यादीनामपि । 'दूती'ति शेषः। यथा-श्वासान् । मुश्चति' इत्यादि। अयम्भावः-यदिदं तत् सखीधात्र्यादिपरतयाऽप्युदाहाय्य॑म् । यथा वा गीतगोविन्दे । अथ नटी शिल्पिनी वा दूती यथा मम-'नृत्यं (शिल्प) दर्शयितुं खं परितो भ्रमणं सदैव नः सुभगे (ग!)। तस्य तवापि च (तस्यास्तव वा) सुषमा या दृष्टा नान्ययोर्भुवि सा ॥' इति । स्वयंदूती 'पुनरिति शेषः । यथा । मम कृतौ। 'पंथिअ... इत्यादौ।
'पंथिल पान्थ दुरादागमनश्रमात | इति रमणीवियोगदुःखित ! इति वा याक्त् । पिआसिओ पिपासितः पातुं जलमधरयुधां वाऽऽस्वादितुं जातेच्छ इति यावत् । विअ इव । लच्छीअसि लक्ष्यसे 'मुखम्लानतया वा सस्मितं सकटाक्षं तव दृष्टिपाता'दिति शेषः । तातत्तहीति यावत् । किम् । अण्णत्तो अन्यत्र जलाशये गुरुजन