________________
१९० साहित्यदर्पणः।
[तृतीयःअन्यस्त्रियाः प्रगल्भाया-स्तथा स्युरियोषितः । दिङ्मानं यथा मम
'अन्तिकगतमपि मामिय-मन लोकयतीव हन्त दृष्ट्वाऽपि ।
सरसनखक्षतलक्षित-माविष्कुरुते भुजामूलम् ॥८३॥' १६२ लेख्यप्रस्थापनैः स्निग्धै-वौक्षितैर्मृदुभाषितः ॥ १५३ ।।
दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते । मध्याऽनल्पानतिशयिता ब्रीडा लज्जा येषु तानि । 'भवन्ती'ति शेषः । ख्रसमानत्रपाणि खंसमाना नश्यन्ती त्रपा लज्जा येषु तानि । 'मन्दाक्षं ह्रीस्त्रपा ब्रीडा लग्ना'इत्यमरः । तु पुनः । 'चेष्टितानीति पूर्ववत् अन्यस्त्रियाः परकीयायाः कान्ताया प्रगल्भायाः। तथा। वारयोषितो वेश्यायाः । स्युः 'भवन्तीति शेषः । यथा नवस्त्रियाः-'मुहुरालिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युनिमितं न चुम्बितं तु ॥इति । अथ मध्याया यथा-'प्रातस्तरां प्रणमने विहिते गुरूणामाकर्ण्य वाचममलां भव पुत्रिणीति । नेदीयसि प्रियतमे परमप्रमोदपूर्णादरं दयितया दधिरे दृगन्ताः ॥'इति । प्रगल्भायाः पुनर्यथा-'विवरीअरए लच्छी बह्म दठ्ठण णाहिकमलट्ठम् । हरिणो दाहिणणअणं रसाउला झत्ति ढक्केई ॥ इति । परस्त्रिया यथा-'शयिता सविधेऽप्यनीश्वरा सफलीकर्तमहो मनोरथान् । दयिता दयिताननाम्बुजं दरमीलनयना निरीक्षते ॥ इति । न चेदं खकीयायाश्चेष्टितमिति वाच्यम् , मनोरथान सफलोक मनीश्वरेति व्याख्यानेऽपि 'यावन्तो मनोरथास्तावन्तोऽद्य यावदेतस्या हृदयस्था इत्यर्थमात्रलब्धेः । नहि स्वकीयाया नवसङ्गमेऽप्येवं प्रवृत्तिः सहृदयहृदयसाक्षिकेति। सामान्यवनिताया यथा-'सा मजनालेपदुकूलभूषणस्रग्गन्धताम्बूलसुधाऽऽसवादिभिः । प्रसाधितात्मोपससार माधवं सबीडलीलोस्मितविभ्रमेक्षितैः ॥ इति दिक् ॥१४०॥१५२॥
एवं नायिकानामनुरागेजितावस्थां निरूप्याह-दिङ्मात्रं दिक्पथदर्शनमेवेति तथोक्तम् । यथा । मम । 'अन्तिक..इत्यादि । . 'इयम् । मां कान्तम् । अन्तिकगतमन्तिकं समीपं गतस्तम् । अपि 'किं पुनर्वैरगत'मिति शेषः । दृष्टा । अपि किं पुनरदष्टे ति शेषः । अन नैवेत्यर्थः । 'अनोपमा ते बुद्धिरितिव'दने'त्यस्यापि निषेधार्थकाव्ययत्वात् । लोकयतीव । 'लजयेति शेषः। हन्त । तथा-तरसनखक्षतलक्षितं सरसमुपचारादभिनवं यन्नखक्षतं तेन लक्षितमिति तत्तथोक्तम् । नखैः । (कृतं) क्षतमिति नखक्षतम् । 'तृतीया तत्कृतार्थेन गुणवचनेन' २।१।३० इति तृतीयासमासः । भुजामूलंभुजयोर्मूलमिति ततथोक्तम् । 'भुजे'ति टाबन्तोऽपि भुजशब्दः। 'अथो भुजा । द्वयोर्बाहौ.करे ।' इति मेदिनीकोशात् । आविष्कुरुते प्रकटयति । नायकस्य नायिकासखी प्रति नायिकाचेष्टितदर्शनार्योक्तिरियम् । अत्रा• छन्दः, तल्लक्षणं चोक्तं प्राक् ॥८३॥' . भावाभिव्यक्तहेतुं दर्शयति-तथा-१६२ लेख्येत्यादिना।
१६२ लेख्यप्रस्थापनलेख्यानां लेखनीयानां स्वाभ्यर्थनानां प्रस्थापनानि तैस्तथोक्तैः । स्निग्धैः स्निह्यन्तीति स्निग्धानि तैः । ‘गतिबुद्धिपूजार्थेभ्यश्च ।' ३।२।१८८ इति चाद्वर्तमाने कः । वीक्षितर्वीक्षणैः । मृदुभाषितर्मुनि कोमलपदानि भाषितानि तैः । यद्वा-'स्निग्धैरिति लेख्यप्रस्थापन' रित्यस्य 'मृदुमाषितै रित्यस्यापि च विशेषणमवगम्यम् दूतीसम्प्रेषणैर्दूतीनां सम्प्रेषणानि तैः । 'चेति शेषः । नार्या उपलक्षणेन नरस्य चत्यर्थः । भावाभिव्यक्तिभावस्य नायकविषयस्य नायिकाविषयस्य वाऽनुरागरूपस्य मनोविकारस्याभिव्यक्तिः । दृष्यते । 'इषु 'इच्छायाम् । 'सार्वधातुके यक्।'३।११६७ इति कर्मणि यक् । अत्रेदं तत्त्वम्-नायिकाकर्त्तकैलेख्यप्रस्थापनादिभिर्नायिकानिष्ठस्य नायकविषयसमेव नायककर्त्तकैरेतैरेव नायकनिष्टस्य नायिकाविषयस्यानुरागस्याभिव्यक्तिर्भवति । किन्तु-'पूर्व रक्ता भवेन्नारी पुमान्पश्चात्तदिशितैः ।' इत्युक्तदिशाऽनुरागस्य नायिकानिष्टताप्रत्ययानन्तरमेव नायकनिष्ठताप्रत्ययः स्थाने इत्येव 'नायां' इत्युक्तम् । यथा-'विज्ञप्तिरेषा मम जीवबन्धो ! तत्रैव नेया
१ 'विपरीतरते लक्ष्मीब्रह्माणं दृष्ट्वा नाभिकमलस्थम्। हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति॥' इति संस्कृतम्।