________________
परिच्छेदः रुचिराख्यया व्याख्यया समेतः।
.१८९ दत्तं किमपि कान्तेन धृत्वाऽङ्गे मुहुरीक्षते । नित्यं हृष्यति तद्योगे वियोगे मलिना कृशा ॥ १४९ ॥ मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् । प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ॥ १५० ॥ विकारान्सात्त्विकानस्य सम्मुखीनाऽधिमच्छति । भाषते सूनृतं स्निग्धमनुरक्ता नितम्बिनी ॥ १५१ ॥ एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः।
मध्यवोडानि मध्याया स्रंसमानत्रपाणि तु ॥ १५२ ॥ तस्य प्रियस्येत्यर्थः । गृहम् । उपचारेण समीपदेशमित्यर्थः। आगच्छति । यथा मम-'यद्यपि तत्र बिडालो येन तदाऽहं कृतक्षता भूरि । तदपि न कथमिव यायां हारः पतितश्विरान्नश्येत् ॥' इति किमपि अनिर्वचनीयम् । कान्तेन । दत्तम् । 'वस्त्वि' ति शेषः । अङ्गे । धृत्वा । मुहुः पुनःपुनः । ईक्षते पश्यति । यथा मम-'अयि सखि ! किं किं न भवेदाभरणं चारु कान्तायाः । इदमिदमेव मया यद्विजितं रतिसङ्गरे भूयः ॥' इति । तयोगे तस्य नायकस्य योगः सङ्गस्तस्मिंस्तथोक्ते, 'सती' ति शेषः । अत एव-'प्रियसङ्गम' इति विवृतिकारा अप्याहः । नित्यम । हष्यति प्रसन्ना भवति। वियोगे 'तस्ये त्येव। मलिना। तथा-कृशा। 'जायत' इति शेषः। यथा'औत्सुक्यात्परिमिलतां, त्रपया सङ्कोचमञ्चतां च मुहुः । नवसङ्गमयोयूनोनयनानामुत्सवो जयति ॥' 'तल्पगताऽपि च सुतनुः श्वासासङ्गं न या सेहे। सम्प्रति सा हृदयगतं प्रियपाणेि मन्दमाक्षिपति ॥' इत्यादि। तच्छीलं तस्य (नायकस्य) शीलं खभावस्तत् । 'शील स्वभावे सद्वृत्त' इत्यमरः । बहु विपुलम् । मन्यते आद्रियते । यथा-'सीताधण्णा खु साजः एव्वं अजउत्तेण बहुमण्णीअदि चा एव्वं अजउत्तं विणोदयंदी आसाबंधणं खु जादा जीअलोअस्सं इति । तत्प्रियं तस्य (प्रियस्य) प्रियं (वस्तु) तत् । प्रियम् । मन्यते । यथा गान्धार्यादीनां पिहितनेत्रत्वादिनाऽवस्थानम् । अल्पमूल्यानि वीटिकाऽऽदीनि वस्तूनी'ति शेषः । प्रार्थयति प्रार्थयते । अत्र णिजन्तत्वेन परस्मैपदम् । यथा मम-'चिकुरमलङ्कुरु कुसुमैर्योजय हारं प्रयच्छ ताम्बूलम् । अद्य नृशंस इव त्वं नखरैर्दशनैश्च मां विभो हतवान् ॥ इति । सुप्ता तल्पगता । न । परिवर्तते पार्श्व परिवर्तयतीत्यर्थः, पृष्ठतः कान्तं कुरुत इति भावः । यत्तु 'शय्यायां परिवृत्य तिष्ठती'त्युक्तम्, तत्तस्या वामात्वं प्रत्याययितुमिति युक्तमेव । अस्य कान्तस्येत्यर्थः । सम्मुखीना समस्य सर्वस्य मुखस्य दर्शना (दर्शयतीति तथाभूता) इति तथाभूता । 'यथामुखसम्मुखस्य दर्शनः खः ।' ५।२।६। इति खः, समासान्तलोपश्च निपातात् ।, 'आयनेयीनीयियः फढखछा प्रत्ययादीनाम्।' १२ इति खस्य ईनादेशः । 'अजायतष्टापू ।' ४१४ इत्यतष्ठाप च। सात्त्विकान् सत्त्वगुणसम्बन्धिनः 'स्तम्भः खेदोऽथ रोमाञ्च' इत्यादिना वक्ष्यमाणानित्यर्थः । विकारान । अधिगच्छति प्राप्नोति । 'प्रकाशयतीति तु विवृतिकाराः। स्निग्धं स्निग्धा यथा भवेत्तथा । अत एव-सुनतं मङ्गलं यथा भवेत्तथा। ‘सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपि इति मेदिनीकारः। 'प्रियसत्यवचन मिति विवृतिकाराः । अनुरक्ता। नितम्बिनी। भाषते । अत एव-यथा मम-दयित ! भवन्तु सुभव्या भवतोऽध्वानः, प्रमोदयेज्जनको । नाथ परस्मिजन्मनि 'तुचि चरणौ भजिध्येऽहम् ॥' इति, अत्र प्रवत्स्यन्तमपि कान्तं प्रति सूनृतोक्तिः । ननु खकीयाऽऽदीनां लज्जातारतम्ये कथं सर्वासामासां समानानीशितानीत्यत आह-एतेषु कथितेष्वेष्विनितेषु मध्ये इति भावः। नवस्त्रिया नवोढाया अभिनवसङ्गमाया वेति भावः । चेष्टितानि । अधिकलजान्यधिका लज्जा येषु तादृशानि । 'भवन्तीति शेषः । मध्याया नवोढाप्रगल्भयोरन्तरालावस्थाया इत्यर्थः । 'चेष्टितानि पुन'रिति शेषः । मध्यव्रीडानि
१ 'धन्या खलु साऽद्य एवमार्यपुत्रेण बहु मन्यते चैवमार्यपुत्रं विनोदयती आशाबन्धनं खलु जातं जीवलोकस्य' इति संकृतम् ।