________________
१८८
[तृतीयः
साहित्यदर्पणः। स्थिता दृष्टिपथे शश्वत् प्रिये पश्यति दूरतः। आभाषते परिजनं सम्मुखं स्मरविक्रियम् ॥ १४४ ॥ यत्किश्चिदपि संवीक्ष्य कुरुते हसितं मुधा ॥ कर्णकण्डूयनं तद्वत् कबरीमोक्षसंयमौ ॥ १४५ ॥ जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति । भाले तथा वयस्याया रचयेत्तिलकक्रियाम् ॥ १४६ ॥ अगुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते । दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ॥ १४७ ॥ न मुश्चति च तं देशं नायको यत्र दृश्यते । आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ॥ १४८ ॥
रिकेऽन्यविधे वा दुःखे सुखे च न तथा । यदि तु भवेत्तदाशाऽवशेषात् । इति शश्वत् निरन्तरम् 'यावन्नावश्यक कार्यान्तरापातस्ताव' दिति शेषः । दूरतो दूरात् । प्रिये । पश्यति 'सती'ति शेषः । तस्य-दृष्टिपथे । स्थिता 'सती'ति शेषः । स्मरविक्रियं स्मरेण कामदेवेन (कृता) विक्रिया विकारो यत्र तद् यथा भवेत्तथा । 'तृतीया तत्कृता। थेन गुणवचनेन ।' २।१।३० इति तृतीयासमासः । सम्मुखं सम्यङ् मुखं यथा भवेत्तथा। 'सम्मुखमिति परिजनस्य विशेषण' मिति तु विवृतिकाराः। परिजनं सेवकजनम् । आभाषते । तथोक्तं सूत्रकारैः-'दूरे स्थिता ‘पश्यतु मा' मिति मन्यमाना समदनविकारमाभाषते ।' इति यत्। किश्चित् । अपि 'वस्त्वि'ति शेषः । संवीक्ष्य विलोक्य । मुधा विकृताङ्गत्वावेक्षणादिरूपकारणमन्तरेति भावः । हसितं हास्यम् । कुरुते । तथोक्तं यत् किञ्चिदृष्ट्वा विहसितं करोति ।' इति तया-कर्णकण्डयनं कर्णस्योपलक्षणेन गण्डस्य च कण्डूयनं तत् । तत् । कबरीमोक्षसंयमौ कबाः केशबंधरचनाया मोक्षसंयमौ तौ । 'कुरुत' इति पूर्वतोऽन्वेति । यथा-'गुरुभिः परिवेष्टिताऽपि गण्ड-स्थलकण्डूयनचारुकैतवेन । दरदर्शितहेमबाहुनाला मयि बाला नयनाञ्चलं चकार ॥' इति दिक् ज़म्भृते मुखं व्यादत्ते । अडं पार्थादिगात्रमित्यर्थः । स्फोटयति 'स्फुट' भेदने । बालम् । आश्लिष्यालिङ्गय । चुम्बति । तथोक्तं 'बालस्याङ्कगतस्यालिङ्गन चुम्बनं च करोती'ति । भाले ललाटे 'स्वस्या' इति शेषः । 'गोधिभालौ महाशखा' विति त्रिकाण्डशेषः । तथा। वयस्यायाः सख्याः । 'आलि: सखी वयस्या चे'त्यमरः । उपलक्षणेन परिचारिकाया अपीति बोध्यम् । 'भाले' इति पूर्वतोऽन्वेति । तिलकक्रियाम् । रचयेत् । उक्तं च 'परिचारिकायाश्च तिलक रचयतीति ॥ अङ्गुष्ठाग्रेणाऽङ्गुष्ठस्याप्रभागेन । 'पादम्येति शेषः । लिखति 'भूमि' मिति शेषः । यदपीदममङ्गलम् , तदपि तदभिव्यक्तये वर्ण्यत एव । अत एव श्रीमद्भागवते-'कृत्वा मुखान्यवशुचः श्वसनेन शुष्यद्विम्बाधराणि चरणेन भुवं लिखन्त्यः । अरुपात्तमषिभिः कुचकुङ्कमानि तस्थुर्मजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥' इत्यादि दृश्यते । सकटाक्षम् । निरीक्षते पश्यति 'प्रिय' मिति शेषः । यथा भागवते-'एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला । नन्तीवेक्षत्कटाक्षेण सन्दष्टदशनच्छदा ॥' इति । स्वाधरम् । अपि । च । दशति सङ्गच्छते चैवं 'सन्दष्टदशनच्छदा।' इत्युक्तम् । अधोमुखी 'भूत्वा' इति शेषः । प्रियम् । ब्रूते। यथा शाकुन्तले-'वाचं न मिश्रयति यद्यपि मदचोभिः, कर्ण ददात्यभिमुखं मयि भाषमाणे । कामं न तिष्ठति मदाननसम्मुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥' इति । यत्र यस्मिन् देशे स्वप्रियः । नायकः स्वप्रियः । दृश्यते दृष्टिविषयो भवति उपचाराद्भवितुं शक्यत इति भावः । तम् । देशम् । च । न नैव । मुश्चति परित्यजति । तत्रैव कथमपि अवस्थातुमिच्छतीति भावः । यथा-'अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः । नाहं हि दूरं भ्रमितुं समर्थी, प्रसीदतायं रचितोऽअलिबः ॥' इति 'अस्मी' त्यहमित्यर्थेऽव्ययम् । केनचित् । कार्यव्याजेन कार्यस्य व्याजश्छलन्तेन ।