________________
१८७
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । १६१ चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।
विलोचनपथं चास्य न गच्छत्यनलङ्कृता ॥ १४० ॥ काऽपि कुन्तलसंव्यानसंयमव्यपदेशतः । बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत्स्फुटम् ॥ १४१ ॥ आच्छादयति वागायैः प्रियस्य परिचारकान् । विश्वसित्यस्य मित्रेषु बहु मानं करोति च ॥ १४२ ॥ सखीमध्ये गुणान्ब्रूते स्वधनं प्रददाति च । सुप्ते स्वपिति दुःखेऽस्य दुःखं धत्ते सुखे सुखम् ॥ १४३ ॥
१६१ चिराय दीर्घकालावधि । प्रियस्य कान्तस्य । सविधे निकटे लक्षणया किञ्चिद्दर इत्यर्थः । स्थानमुपस्थितिम्। बहु । मन्यते युक्तं श्रेष्ठं चेति बुध्यत इति भावः। अस्य प्रियस्येत्यर्थः। च। विलोचनपथं साम्मुख्यम् । अनलकृताऽलङ्कारैरनुपासितेति भावः । न । गच्छति काऽपि काचिन्मुग्धाकन्याभ्यामितरेत्यर्थः । कुन्तलसंव्यानसंयमव्यपदेशतः कुन्तल (केशपाशः ) श्च संव्यानं (उत्तरीय) चेति तयोः संयमस्तस्य व्यपदेशश्छलस्तत इति तथोक्ततः। 'चिकुरः कुन्तलो वाल: कचः केशः शिरोरुहः ।' इति, 'संव्यानमुत्तरीयं चेति चामरः । बाहुमूलं बाह्वोर्मूलमारम्भभूताङ्गमित्यर्थः । स्तनौ। तथा-नाभिपङ्कजं नाभिकमलम् । स्फुटम् । दर्शयेत् प्रियस्य। परिचारकान् दुतान् किङ्करान् वा । वागाद्यः । आद्यपदेनानवस्त्रभूषणदानादीनां ग्रहणम् । आच्छादयति पिहितान् करोत्युपचारादवरुद्ध इत्यर्थः । अत एव 'वशीकरोती'ति विवृतिकाराः । अस्य प्रियस्येत्यर्थः । मित्रेषु । अत्र विषये सप्तमी। विश्वसिति विश्वस्ता भवति । बहत्यन्तम् । मानमादरम् । च। करोति । तथोक्तं कामसूत्रकारैः-'परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति, तन्मित्रेषु विश्वसिति, वचनं चैषां वह मन्यते करोति च, तत्परिचारकैः सह प्रीतिं सङ्कथां द्यूतमिति च करोती'त्यादि सखीमध्ये सखीनां मध्ये । गुणान 'प्रियस्य प्रियपरिचारकाणां चेति शेषः। ब्रते कथयते। स्वधनं स्वस्य स्वस्यैव वा धनं तत्। च। प्रददाति समर्पयति । अयम्भावः-यदि खीया तदा, विपत्तौ यदलङ्कारादि तत्सर्व तत्सात् करोति । यदि च परकीया, तदा प्रियो यदि दीनो लुब्धो वा तदा सर्वखं तत्सात् तथैव करोति, यदि पुनः समृद्धः केवलं खलावण्यमात्रे मुग्धस्तर्हि खात्मानमेव धनमिव तदायत्तं करोति। यदि तु सामान्या तदा केवलं स्वात्मानमेव धनमित्र प्रयच्छति । प्रियस्य परिचारकानपि प्रियस्य प्रीतिभाजनानीति मन्यमाना तेषां जीवनाद्यर्थ 'यन्मदीयं तत्सर्वं भवता'मिति बहु तेभ्यो वितरति खीया परकीया वा, सामान्या तु अनुरक्ताऽपि स्वात्मानमेव । इति । सुप्ते निद्रिते सति'प्रिय'इति शेषः । स्वपिति निद्राति । तथोक्तम्'अनुसुप्ताऽपि तत्पूर्वमुत्थाय चरणौ नमेत् । मार्जनायेगेंह, देहं स्नानाद्यैः शुद्धिमानयेत् ॥' इत्यादि । यद्वा-सुप्ते शय्योपरि शयनार्थमुपविष्टे शयित इव वाऽवस्थित इत्यर्थः । स्वपिति शय्योपर्यवतिष्ठत इति भावः । एवं परकीया सामान्ययोरपि नाव्याप्तिः । अस्य प्रियस्येत्यर्थः । दुःखे 'सती'ति शेषः । दःखम। धत्ते खीयत्वेन मनुते । मते 'सती'ति शेषः । सुखम् । 'धत्ते'इति पूर्वतोऽन्वेति । अत्रायम्भावः-यदि वीया तदा नूनं सर्वविघेऽपि दुःखे दुःखिनी सुखे च सुखिनीति, परकीयाऽप्येवं प्रायेण, परायत्ततया तथा स्वस्य दुःसम्भवात्। अथापि मनसा, तस्य तत्रापि शारीरिके नितरां नूनम् । सामान्या पुनर्य्यद्यनुरक्ता, तदाऽपि शारीरिके दुःखे मनाग दुःखिनी, सुखे च नितराम्, अथासावननुरक्ता, तदाऽऽयहानौ धनहानावेव वा दुःखिनी भवति, आयवृद्धौ धनश्रद्धौ वा सुखिनी च । शारी