________________
१८६
साहित्यदर्पणः ।
अथ मुग्धाकन्ययोरनुरागेङ्गितानि
१६० दृष्ट्वा दर्शयति व्रीडां सम्मुखं नैव पश्यति ।
प्रच्छन्नं वा भ्रमन्तं वाs- तिक्रान्तं पश्यति प्रियम् ॥ १३७ ॥ बहुधा पृच्छ्यमानाऽपि मन्दम्मन्दमधोमुखी । सदस्वरं किञ्चित् प्रियं प्रायेण भाषते ॥ १३८ ॥ अन्यैः प्रवर्तितां शश्वत् सावधाना च तत्कथाम् । शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ॥ १३९ ॥ अथ सकलानामपि नायिकानामनुरागेङ्गितानि
[ तृतीय:
यथा वा–‘ताः क्लिन्नवस्त्रवितोरुकुचप्रदेशाः सिञ्चन्त्य उद्धृतवृहत्कवरप्रसूनाः । कान्तं तु रेचकजिहीरषयोपगुत्य जातस्मरोत्सवलसद्वदना विरेजुः ॥' इति । यद्यपि - ' कृष्णस्तु तत्स्तनविषज्जितकुङ्कुमनक् क्रीडाऽभिषङ्गधुत कुन्तलवृन्दबन्धः । श्चिन्मुहुर्युवतिभिः प्रतिसिच्यमानो रेमे करेणुभिरिवेभपतिः परीतः ॥ इत्यादौ नायकस्यापि केलिरिति वक्तुं शक्यते, तथाऽपि तत्रतत्र नायिकाया एव प्राधान्यम्, तामाश्रित्य मदनस्य स्वाराज्यात् । इति बोध्यम् ।
अथ नायिकामात्रस्याङ्गजादीनामलङ्काराणां लक्षणलक्ष्य निदर्शनानन्तरमिङ्गितानि निर्देष्टुं प्रवृत्तस्तत्र तावत् मुग्धायाः कन्यायाश्च तान्यनुरागजानि निर्देष्टुं प्रतिजानीते - अथेत्यादिना ।
अथालङ्कारनिदर्शनानन्तरम् । मुग्धाकन्ययोः । अनुरागेङ्गितान्यनुरागस्य नायक विषयस्य प्रेम्ण इङ्गितान्यभिप्रायानुकूलानि चेष्टितानीति तानि तथोक्तानि । निर्दिशति - १६० दृष्ट्वा ... इत्यादिना ।
१६० प्रिये नायके । अत्र विषये सप्तमी । अनुरागिण्यनुरक्ता । बालाsप्रौढा मुग्धा कन्याऽन्यतरेति यावत् । प्रियं प्रीतिविषयीभूतं नायकम् । दृष्ट्वा । व्रीडां लज्जाम् । दर्शयति । अत एव सम्मुखमभिमुखम् । अथवा उपचारात्सम्मुखीनमिति भावः । यद्वा सम्यङ् मुखं यस्मिन् कर्मणि तत्तथा, प्रकामं मुखावगुण्ठनमपवा भावः । न । एव । पश्यति । किन्तु प्रच्छन्नं क्वापि स्वेहितं ज्ञातुमपि निलीय स्थितम् । वाऽथवा । भ्रमन्तमितस्ततः पर्यटन्तम् । वाऽथवा । अतिक्रान्तमतिक्रम्य ( उपेक्ष्य ) स्थितं गतं वा । पश्यति । अत एवास्या अनुरागो व्यज्यते ॥ बहुधाऽनेकैः प्रकारैः । पृच्छ्यमाना अपि किं पुनः स्वत इति शेषः । मन्दं मन्दं ' न तु स्पष्ट' मिति शेषः । सगद्गदश्वरं गद्गदखरेणाव्य कोच्चारणेन सह यथा भवेत्तथा । किञ्चित् परिमितपदरूपमत एव वाक्यतामप्राप्तमिति । अधोमुखी । 'सती' ति शेषः । प्रियम् । प्रायेण । भाषते । यद्वा- दुःखिता सगद्गदस्वरम् । किञ्चित् किमप्यनिर्वचनीयम् । भाषते । हृष्टा - प्रियं हृद्यं यथा भवेत्तथा । किञ्चित् । भाषते । अन्यत् पूर्ववत् ॥ अन्यैर्वन्दारुप्रभृतिभिः । प्रवर्तितां प्रसङ्गं प्राप्य प्रापय्य वोन्नीताम् । तत्कथां तस्य ( प्रियस्य ) कथा गुणादिवर्णनं ताम् । च । शश्वन्न तु यदा कदा वे 'ति शेषः । सावधाना समवहितचित्ता । तथा अन्यत्र परस्मिन् पदार्थ इत्यर्थः । दत्ताक्षी दत्ते समर्पिते अक्षिणी नेत्रे यया तथाभूता । 'सती'ति शेषः । शृणोति ॥ १३७ ॥ १३८ ॥ १३९ ॥ अत्रेदं स्मरणीयम् - मुग्धायाः कन्यायाश्चैवंविधानीङ्गितानि भवन्ति, तानि यथोदाहृते--'दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता..' 'दत्ते सालसमन्थरं भुवि पदं नियति नान्तः पुरा - नोद्दामं हसति, क्षणात् कलयते ही यन्त्रणां कामपि...' 'एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' इत्यादी । तथाऽभिज्ञानशाकुन्तले प्रथमेऽङ्के-- शकुन्तला (आत्मगतम्) 'किं णु क्खु इमं पेक्खिअ तवोवणविरोहिणो विआरस गमणीआमि संवुत्ता' इतः प्रभृति गान्धर्वपरिणयावधि शकुन्तलायाः कन्यात्वे तानीङ्गितानि । एवमन्यत्रापीति दिक् ।
अथ नायिकामात्रस्य प्रायेण यानीङ्गितानि तानि निर्देष्टुं प्रतिजानीते - अथेत्यादिना ।
अथ मुग्धाकन्ययोरनुरागेङ्गित निदर्शनानन्तरम् । सकलानाम् । अपि 'न तु मुग्धाकन्येतरासामेव इति शेषः । नायिकानाम् | अनुरागेङ्गितानि । 'निर्दिश्यन्ते - १६१ विराय... इत्यादिने 'ति शेषः ।
१ 'किन्नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता' इति संस्कृतम् ।