________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। पर्या'त्रस्यन्ती चलशफरीविघट्टितोरामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनाऽपि हेतोर्लीलाभिः किमु सति कारणे तरुण्यः ॥८१॥' अथ केलि:
१५९ विहारे सह कान्तेन क्रीडितं केलिरुच्यते ॥ १३६ ॥ यथा'व्यपोहितुं लोचनतो मुखानिलेरपारयन्तं किल पुष्पज रजः । पयोधरणोरसि काचिदुन्मनाः प्रियं जधानोन्नतपीवरस्तनी ॥४॥ उदाहरति-यथा-'त्रस्यन्ती....इत्यादौ । . 'चलशकरीविघट्टितोरुश्चलाश्चञ्चला याः शफर्यो मत्स्यविशेषास्ताभिर्विघटितौ विद्धावूरू यस्याः सौ । अत एव-त्रस्यन्ती विभ्यती। 'वा भ्राशमलाशभ्रमुक्रमुक्तमुत्रसित्रुटिलषः ।' ३।११७० इति विकल्पात् श्यनि शतरिही। वामोरूः वामौ सुन्दरावूरू यस्याः सेति तथोक्ता। 'संहितशफलक्षणवामादेश्च ।' ४।१।७० इत्यूङ । विधमस्य भ्रान्तेः । 'विलासस्ये 'त्यन्ये । अतिशयम् । आप प्राप । अहो । तरुण्यो यौवनवत्यः कामिन्यः । 'रमण्य'इति पाठान्तरम् । हेतोर्हेतुम् । 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ।' २।३।३३ इति विकल्पात् पञ्चमी। विना। अपि । प्रसभं बलात्कारो यथा भवेत्तथा । 'प्रसमं तु बलात्कार'इत्यमरः । क्षुभ्यन्ति । चकिता भवन्तीत्यर्थः । लीलाभिर्विलासैः। 'इत्थम्भूतलक्षणे ।।३।२१ इति तृतीया । कारणे । तथा च लीलाज्ञाप्यकारण इत्यर्थः । सति । 'क्षुभ्यन्तीति पूर्वतोऽन्वेति । 'इती'ति शेषः । किन किमाम चित्रमिति भावः । शिशुपालवधस्येदम् । अत्र प्रहर्षिणी छन्दः, तल्लक्षणं चोक्तं प्राक् ॥८१॥'
अथ केलिं लक्षयितुं प्रतिजानीते-अथेत्यादिना । अथ चकितोदाहरणानन्तरम् । केलिः 'लक्ष्यते-१५९ विहारे....इत्यादिना ।
१५९ कान्तेन । सह । विहारे विहरणे क्रीडार्थकसञ्चार इति यावत् । 'विहारस्तु परिक्रमः ।' इत्यमरः । 'क्रियमाण' इति शेषः । क्रीडितं खेलनम् । केलिः। उच्यते। 'वल्लभेन सहैकान्ते कान्तायाः क्रीडितेषु यः ।। चुम्बनालिङ्गनादीनां विशेषः केलिरुच्यते ॥' इति पाठान्तरे तु-वल्लभेन प्रियेण सहकान्त एकान्तप्रदेशे कान्तायाः कान्तासम्बन्धिषु क्रीडितेषु सत्सु यचुम्बनालिङ्गनादीनां विशेषः प्रकारोऽतिशयो वाऽसौ केलिरित्युच्यत इत्यर्थः॥१६॥
उदाहरति-यथा-'व्यपोहितुम्.. इत्यादौ ।
'मुखानिलैर्मुखसम्बन्धिभिर्वायुभिः। लोचनतो नेत्राभ्याम् । अत्रापादानपञ्चम्यां तसिल । पुष्पजम्पुष्पेभ्यो जायत इति तत् तथाभूतम् । रजो धूलिं परागमिति यावत् । व्यपोहितमपनेतुम् । किलारुच्या । चुम्बितुमेव रुचोरति भावः । 'वार्तायामरुचौ किले ति त्रिकाण्डशेषः । अपारयन्तमशक्नुवन्तम् । प्रियम्। उन्नतपीवरस्तनी पीनोच्चस्तनी। काचित् । उन्मनाः प्रगल्भा । पयोधरेण । अत्रैकत्वं तु पीनोन्नतत्वाभ्यामभेदमवगमयति । उरसि वक्षसि । जघान संताडयामासेति भावः । वंशस्था छन्दः, तल्लक्षणं यथोक्तं 'वंशस्था जतौ नौ।' इति ॥४२॥'
--
-
१ 'तत्र त्रासेन यथा-"परिस्फुरन्मीनविघटितोरवः स्वरङ्गनास्त्रासविलोलदृष्टयः। उपाययुः कमपितपाणिपालवाः सखीजनस्यापि विलोकनीयताम् ॥” लज्जया यथा-"अभिमुनि सहसा हृते परस्या घनमस्ता जघनांशुकैकदेशे। चकि. तमवसनोस्सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥” इति पाठान्तरम् ।' २ अत्र 'विघट्टितोरू'रिति त्वपपाठः, न च 'संहितशफलक्षणवामादेश्च ।' ४११७० इत्यत्र सहितसहाभ्यां चेति वक्तव्यम् ।' 'किमः क्षेपे ।' ५।४।७० इत्यादाविय विनाऽप्यादिपदं सकलेष्टसिद्धावादिपदं 'शे तम्फादीनां नुम्वाच्यः ।' इत्यत्रेव प्रकारार्थम् । तथा च-'अत्राप्यूह निर्बाधः । इति वाच्यम् । 'परिस्फुरन्मीनविघट्टितोरव' इत्याद्युदाहरणान्तरदर्शनात्तथेष्टासिद्धेः ।
२४