________________
१८४
साहित्यदर्पणः ।
१५६ रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् ।
अथ कुतूहलम् -
यथा
' प्रसाधिकाऽऽलम्बितमग्रपाद - माक्षिप्य काचिद् द्रवरागमेव । उत्सृष्टलीला गति-रा गवाक्षा-दलक्तकाङ्कां पदवीं ततान ॥ ७९ ॥ ' अथ हसितम्
१५७ हसितं तु वृथा हासो यौवनोद्भेदसम्भवः ॥ १३५ ॥ यथा - ' अकस्मादेव तन्वङ्गी जहास यदियं पुनः । नूनं प्रसूनबाणोऽस्यां स्वाराज्यमधितिष्ठति ॥ ८० ॥ ' अथ चकितम्
१५८ कुतोऽपि दयितस्याग्रे चकितं भयसम्भ्रमः ।
[ तृतीय:
अथ विक्षेपोदाहरणानन्तरम् । कुतूहलं लक्ष्यते - १५६ रम्य... इत्यादिना ।
१५६ रम्य वस्तुसमालोके रम्यं रमणीयं यद्वस्तु नायकादिरूपं तस्य समालोकः सम्यगालोकनं तस्मिन् । ' सती ' ति ‘कर्त्तव्ये सती ' ति वा शेषः । विषये वा सप्तमीयम् । लोलता चञ्चलता । कुतूहलम् । स्यात् । उदाहरति-यथा- 'प्रखाधिकाSS... इत्यादौ ।
'काचित् काsपि कामिनीत्यर्थः । ' अज - महेश्वरान्यतरावेक्षणो के 'ति शेषः । प्रसाधिकाऽऽलम्बितं प्रसाधिकयाऽलङ्कर्ध्याऽलक्तरसादिना पादादीन् रञ्जयित्रीति यावत्, आलम्बितोऽवलम्बितोऽलक्तेन रञ्जनार्थ धृतस्तम् । अतः - द्रवरागं द्रवो रसात्मना परिणाम्यलक्तक इत्यर्थः, स एव रागो यत्र तम् । आर्द्रेणालक्तकेन रञ्जितरागमित्यर्थः । एव । अग्रपादमग्रश्वासौ पादस्तम् । 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्यामिति वामनः । आक्षिप्याकृष्य । उत्सृष्टलीला गतिरुत्सृष्टा लीलागतिर्ययोत्सृष्टलीलं यथा भवेत्तथा वाssगतिरागमनं यस्याः सा । त्वरितगमना सतीति भावः । आ गवाक्षाद् गवाक्षमभिव्याप्येत्यर्थः । पदद्वयमेतत् । 'पञ्चम्यपापरिभिः । ' २|३|१० इत्यायोगे पञ्चमी । अलक्तकाङ्कामलक्तको लाक्षोपचारात्तद्रसरागोऽङ्क उत्सङ्ग उपचारान्मध्ये यस्यास्ताम् । 'अलक्तकस्याङ्को लक्ष्म यत्र ता' मित्यन्ये । 'यावोऽलक्तो द्रुमामयः । इति, 'उत्सङ्गचिहयोरङ्क' इति चामरः । पदवीं मार्गम् । ततान चकार । रघुवंशकुमारसम्भवयोः समं पद्यमिदम् । इन्द्रवज्जोपेन्द्रवज्रयोरुपजातिश्छन्दश्च तलक्षणं चोक्तं प्राक् ॥ ७९ ॥'
अथ हसितं लक्षयितुं प्रतिजानीते - अथेत्यादिना ।
अथ कुतूहलोदाहरणानन्तरम् । हसितं लक्ष्यते - १५७ हसितं ... इत्यादिमा ।
१५७ हसितम् । तु पुनः । यौवनोद्भेदसम्भवो यौवनस्योद्भेद उद्गमस्तस्मात्सम्भवतीति तथोक्तः । वृथाऽकारणम् । हासः । ' स्या 'दिति शेषः ॥ १३५ ॥
उदाहरति--यथा- 'अकस्मा... इत्यादौ ।
इयम् । तन्वङ्गी कृशोदरी । अकस्मात् कारणमन्तरा । एव । यत् । पुनः । जहास । ' ततः शङ्कयत ' इति शेषः । अस्याम् । नूनं निश्चितम् । प्रसूनबाणः कामः । स्वाराज्यमेकाधिपत्यम् । अधितिष्ठति श्रामोति कुरुते वा । कामपि पश्यतः सखायं प्रति खोत्प्रेक्षणोतिरियम् । अत्र श्लोकछन्दः ॥ ८० ॥'
'अथ चकितं लक्षयितुं प्रतिजानीते - अथेत्यादिना ।
अथ हसितोदाहरणानन्तरम् । चकितं लक्ष्यते - १५८ कुतोऽपि... इत्यादिना ।
१५८ कुतः कस्मात् । अपि हेतो 'रिति शेषः । दयितस्य । अग्रे पुरस्तात् । भयसम्भ्रमो भयस्य विभ्रमः सराय इति तथोक्तः । 'अथ विभ्रमः । शोभायां संबाये हावे' इति हेम: । 'भयविभ्रमो भयेनातिषाञ्चल्य' मिति तु विवृतिकाराः । चकितम् । 'स्या'दिति शेषः ।