________________
यथा
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः।
१८१
१८१ यथा-- 'गुरुतरकलनूपुरानुनादं सुललितनर्तितवामपादपद्मा। इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥७३॥' अथ मदः
१५१ मदो विकारः सौभाग्य -यौवनाचवलेपनः ॥ १३१॥ 'मा गर्वमुद्भह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्याऽपि किं न खलु भाजनमीदृशीनां, वैरी न चेद्भवति वेपथुरन्तरायः ॥७॥' अथ विकृ (ह) तम्उदाहरति-यथा 'गुरुतर.. इत्यादौ ।
अथ । गुरुतरकलनूपुरानुनादं गुरुतरोऽत्यन्तं गुरुमहान् कलो मधुरास्फुटो ध्वनिर्ययोस्तादृशौ नूपुरी तयोरनुनादो नादोत्तरो नादो यस्मिन् कर्मणि तद् यथा भवेत्तथेति तथोक्तम् । 'गुरुस्त्रिलिङ्गयां महति' इति मेदिनी। 'ध्वनौ तु मधुरास्फुटे। कल' इत्यमरः। सुललितनर्तितवामपादपद्मा सुष्टु ललितं मनोज्ञ यथा भवेत्तथा नर्तितं वामपादपा यया सा । वामो दक्षिणेतरोऽसौ पादः स एव पद्ममिति, वामपादः पद्ममिवेति वा, वाम सुन्दरं च तत्पादपद्ममिति वा, वामपादपद्मम् । 'वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे।' इति विश्वः । इतरदक्षिणम् । पदं चरणम् । अनतिलोलमनति किञ्चिल्लोल चचलं यथा भवेत्तथा। आदधाना स्थापयन्ती। मन्मथमन्थरं मन्मथेन कामदेवेन मन्थरा यथा भवेत्तथेति भावः । जगाम गतवती । 'पार्श्ववर्तिनीय' मिति मल्लिनाथाः । शिशुपालवधस्येदं पद्यम् । पुष्पिताग्रा छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ७३ ॥'
यथा वा-'सभ्रूभङ्गं करकिशलयावर्त्तनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया खरपातैनिःसङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥' इति । करकिशलयस्यावर्तनानि सञ्चारणविशेषास्तैरेवालपन्ती, न तु जिह्वया । अन्यत्स्पष्टम् ।।
अथ मदाभिधानं प्रतिजानीते-अथेत्यादिना । अथ ललितनिदर्शनानन्तरम् । मदः लक्ष्यते-१५१ मदो..इत्यादिना।।
१५१ सौभाग्ययौवनाद्यवलेपजः सौभाग्ययौवनादीनामवलेपो गर्वः सम्बन्धो वेति तस्माज्जायत इति तथोक्तः । विकारः । 'मनस' इति शेषः । मदः ॥ १३१ ॥
उदाहरति-यथा-'मा गर्व.. इत्यादौ।
'मदविह्वले! मम । कपोलतले कपोलदेशे। कान्तस्वहस्तलिखिता कान्तस्य स्वहस्तेन लिखितेति तथोक्ता कान्तेन या खस्य हस्तेन लिखिता सेत्यर्थः । मञ्जरी । चकास्ति शोभते । कान्तो हि मदनवशंवदः कान्तायाः कपोलयोर्मजादिं लिखतीति कविसमयः । इतीत्येवम् । गर्वमभिमानम् । मा। उदह । यत:किम् । ईदृशीनामेवंविधानां मञ्जरीणामिति भावः । अत्र बहुवचनखारस्येन एकस्या द्वयोर्वा का नाम कथेति व्यज्यते । भाजनं पात्रभूता । अन्या त्वत्तो व्यतिरिक्ता मादृशीति भावः । अपि । चेद् यदि । अन्तरायो विघ्नरूपः । 'विघ्नोऽन्तरायः प्रत्यूहः' इत्यमरः । वेपथुः स्पर्शजः सात्त्विकभावविशेषः। वैरी शत्रुर्मजरीलेखनविघटकत्वेन शत्रुभूत इति यावत् । न । भवति । 'तही ति शेषः । न । खल। किन्तु भवत्येवेति भावः । खकपोलतले कान्तकृतं मअरीलेखं दर्शदर्श स्मयमानां कामपि मदनोद्धतायाः कस्याश्चिदवमाननोक्तिरियम् । अत्र वसन्ततिलकं छन्दः, लक्षणं चोक्तं प्राक् ॥ ७४ ॥
अथ विक (ह) तं लक्षयितुमुपक्रमते-अथेत्यादिना । अथ मदोदाहरणानन्तरम् । विकृ (ह) तं लक्ष्यते-१५२ वक्तव्य.. इत्यादिना ।