________________
साहित्यदर्पणः।
[ तृतीयः१५२ वक्तव्यकालेऽप्यवचो वीडया विकृ ( है ) तं मतम् । यथा--'दूरागतेन कुशलं पृष्टा नोवाच सा मया किञ्चित् ।
पर्यश्रुणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम् ।। ७५॥' अथ तपनम्---
१५३ तपनं प्रियविच्छेदे स्मरावेगोत्थचेष्टितम् ॥ १३२ ॥ यथा मम'श्वासान्मुञ्चति, भूतले विलुठति त्वन्मार्गमालोकते, दीर्घ रोदिति, विक्षिपत्यत इतः क्षामा भुजावल्लरीम् । किश्च प्राणसमान ! काक्षितवती स्वप्नेऽपि ते सङ्गम, निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि ॥ ७६॥' अथ मौग्ध्यम्
१५२ वीडया लज्जया। वक्तव्यकाले वक्तव्यस्य कालोऽवसरस्तस्मिन् । अपि किं पुनरन्यदेति भावः । अवचो न वचः कथनमिति तथोक्तम् । विक (ह) तम् । मतं 'भरताथै' रिति शेषः ।
उदाहरति-यथा-'दूरा... इत्यादौ ।
'दरागतेन दूरादागतेन । मया। कुशलम् । 'कच्चिदितीति शेषः । पृष्टा । सा। किश्चित् कुशलमकुशलं वेति भावः । न । उवाच । तु किन्तु । तस्याः । पर्यश्रुणी अश्रुभिर्व्याप्ते । नयने । सर्वम् । मम दूरं गतावकुशलं, तत आगतौ च कुशलम् । कथयाम्बभूवतुः। अत्र गीतिश्छन्दः,। तल्लक्षणं चोक्तं प्राक् ॥ ७५ ॥'
यथा वा-'पादाङ्गुष्ठेन भूमिं किशलयरुचिना सापदेशं लिखन्ती भूयोभूयः क्षिपन्ती मयि सितशवले लोचने लोलतारे । वत्रं ह्रीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भं दधाना यन्मां नोवाच किञ्चित् स्थितमपि पुरतो मानसं तद् दुनोति ॥' इति ।
अथ तपनं लक्षयितुं प्रतिजानीते-अथेत्यादिना । अथ विकृ(ह)तोदाहरणानन्तरं तपनं लक्ष्यते-१५३ तपनं...इत्यादिना ।
१५३ प्रियविच्छेदे प्रियस्य विच्छेदो वियोगस्तस्मिन्सतीत्यर्थः । स्मरावेगोस्थचेष्टितं स्मरस्य कामस्यावेग आसमन्ताद्वेगस्तस्मादुत्तिष्ठतीति स्मरावेगोत्थं, तच यच्चेष्टितमिति तथोक्तम् । तपनम् ॥ १३२ ॥
उदाहरति-यथा। मम विश्वनाथस्येत्यर्थः । 'कृता'विति शेषः । 'श्वासान.. इत्यादौ। .
'श्वासान । मुश्चति । भूतले पृथिव्याम्, 'न तु शय्याया' मिति शेषः । विलठति मरणोन्मुखेवेतस्ततो निपततीति भावः । त्वन्मार्ग तव मार्ग आगमनद्वारं तम् । आलोकते निरीक्षते । त्वदर्शनालब्धौ च-दीर्घमायत यथा भवेत्तथा । रोदिति । अत एव क्षामा दुर्बला तव वियोगाधिना पीडितेति यावत् । 'सती'ति शेषः । भुजावलरी भुजा वल्लरी लतेवेति ताम् । अत इत इतस्तत इत्यर्थः । विक्षिपति निपातयति । किश्च । हे प्राणसमान तस्या जीविताधायकत्वेन तत्सदृश ! अत एव त्वद्विरहेऽपि क्षणं तस्या जीविताशेयमिति व्यजितम् । ते तव । सङ्गम समागमम् । स्वप्ने। अपि 'किं पुनर्जागृताविति शेषः ।' काक्षितवती। तथा काझोत्तरमपि लाभाभावे निर्विण्णा। निद्राम् । वाञ्छति । दग्धः 'क्रोधेने ति शेषः, निष्ठुरतां प्राप्त इति भावः । 'निर्दय'इति हि विवृतिकाराः । विधिर्ब्रह्मा । पुनः। तां निद्रामित्यर्थः । अपि किं पुनस्ते सङ्गम मिति शेषः । न। प्रयच्छति ददाति । 'दाण'दाने । नायकं प्रति नायिकासख्या वियोगाधेरावेदनपरेयमुक्तिः । अत्र शार्दूलविक्रीडित छन्दः । तलक्षणं चोक्तं प्राक् ॥ ७६ ॥'
अथ मौग्ध्यं लक्षयितुं प्रतिजानीते-अथेत्यादिना । अथ तपनोदाहरणानन्तरम् । मौग्ध्यं लक्ष्यते-१५४ अज्ञाना...इत्यादिना ।