SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १८० साहित्यदर्पणः। [ तृतीयःअथ विभ्रमः१५० त्वरया हर्षरागादे-दयितागमनादिषु । अस्थाने भूषणादीनां विन्यासो विभ्रम्से मतः ॥ १३० ॥ यथा 'श्रुत्वाऽऽयान्तं बहिः कान्त-मसमाप्तविभूषया ॥ ___ भालेशनं दृशोर्लाक्षा कपोले तिलकः कृतः ॥७२॥' अथ ललितम् १५१ सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् । _ 'भोजराजस्तु सरस्वतीकण्ठाभरणे विपरीतमेव लक्षणमाह-"केशस्तनाधरादीनां ग्रहाद् दुःखेऽपि यत्पुनः । मुखाविष्करणं तन्व्यास्तच्च कुट्टमितं मतम् ॥' यथा-"हीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य । अर्पितोष्टदलमानन· पद्मं योषितो मुकुलिताक्षमधासीत् ॥"इति ।' इत्यधिकोऽपि क्वचित्पाठः । 'रागवान् कामवशंवदो नायकः । अवटुजेषु ग्रीवापश्चाद्भवेषु केशेषु । अवकृष्य । परिरम्भे । ह्रीभरात् । अवनतम् । अर्पितोष्टदलम् । मुकुलिताक्षम् । योषितः । आननपद्मम् (कर्म) यद्वा-'मुकुलिताक्षमिति क्रियाविशेषणम् । अधासीत् पपौ ॥ इत्ययमर्थश्च । अथ विभ्रमं लक्षयितुमुपक्रमते-अथेत्यादिना । अथ कुटमितनिदर्शनानन्तरम् । विभ्रमः लक्ष्यते-१५० त्वरया..इत्यादिना । १५० दयितागमनादिषु दयितस्यागमनादीनि तेषु । आदिपदेनाभिसरणादीनां ग्रहणम् । 'सम्वि'ति शेषः । हर्षरागादेहर्ष आनन्दश्च राग: प्रेम चेति तौ आदी यस्योत्सवादेस्तस्य तस्माद्वा । त्वरया । अस्थानेऽनुपयुक्त स्थाने । भूषणादीनाम् । आदिपदेन तिलकाअनदुकूलांदीनां ग्रहणम् । विन्यासः । विभ्रमः। मतः ॥ १३०॥ उदाहरति-यथा-'श्रुत्वा...इत्यादौ । 'बहिः । आयान्तमागच्छन्तम् । कान्तम् । श्रुत्वा। असमाप्तविभूषया न समाप्ताः सम्यक् प्रसाधनत्वेनोपन्यस्ता विभूषा अलङ्कारा यया तथाभूतया, कान्तयेत्यर्थः । भाले ललाटे। अञ्जनम् । अत्र 'कृत'इति लिङ्गव्यत्ययेनान्वेति । दृशोर्नेत्रयोरुपरिभाग इति भावः । लाक्षा लाक्षारससेक इत्यर्थः । अत्रापि 'कृत'इति लिङ्गव्यत्ययेनान्वेति । कपोले। तिलकः। कृतः। अयम्भावः-भाले करणीयस्तिलकः कपोले कृतः, चरणतले करणीयो लाक्षारससेको नेत्रयोः कृतः, नेत्रयोः करणीयं पुनरजन भाले कृतमित्येवमसमाप्तविभूषणत्वे सति कान्तागमने हर्षावेगो व्यज्यत इति । अत्र श्लोकश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥७२॥' __ यथा वा-'तां सम्प्रकृष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्मना । द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो हाणि चैवाहरुहर्नपोत्सुकाः ॥ काश्चिद्विपर्य्यग्धृतवस्त्रभूषणा विस्मृत्य चैकं युगलेश्वथापराः। कृतैकपत्रश्रवणेकनूपुरा नाइयत्वा द्वितीयं त्वपराश्च लोचनम् ॥ अश्नत्य एकास्तदपास्य भोजनमभ्यज्यमाना अकृतोपमज्जनाः । खपन्त्य उत्थायं निशम्य निःस्वनं प्रपाययन्त्योऽर्भमपोह्य मातरः ॥'इति । विभ्रमनिदर्शनान्तरं ललितं लक्षयितं प्रतिजानीते-अथेत्यादिना । अथ विभ्रमनिदर्शनानन्तरम् । ललितं लक्ष्यते-१५० सुकुमारतया..इत्यादिना। अङ्गानां करचरणाद्यवयवानाम् । सुकुमारतया सुकुमारखरूपत्वेन । विन्यासः । ललितं तदाख्यो ऽलङ्कारः । भवेत् ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy