________________
परिच्छेदः1
रुचिराख्यया व्याख्यया समेतः। १४७ तद्भावभाविते चित्ते वल्लभस्य कथाऽदिषु ।
मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥ १२८ ॥ 'सुभग ! त्वत्कथाऽऽरम्भे कर्णकण्डूतिलालसा। उजृम्भवदनाम्भोजा भिनत्त्यङ्गानि साऽङ्गना।।७०॥' अथ कुट्टमितम्
१४९ केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् ।
आहुः कुट्टमितं नाम शिरःकरविधूननम् ॥ १२९ ॥ यथा-'पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे ।
पर्य्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥७२॥'
१४७ तद्भावभाविते तस्य वल्लभस्य भावो रतिर्वासनेति यावत्तेन भावितं व्याप्तं तत्र । 'विकारो मानसो भाव' इत्यमरः । चित्ते 'सती'ति शेषः । वल्लभस्य । कथादिषु 'सत्सु चेति शेषः । कर्णकण्डूयनादिकम् । आदिपदेन जम्भणादिग्रहणम् । मोडायितम। इतीत्येवं प्रसिद्धमलङ्कारम् । प्राहः 'भरताया' इति शेषः ॥१२८॥
उदाहरति-यथा-'सुभग.. इत्यादौ ।
"हे सुभग सुन्दर ! सा। अङ्गना। त्वत्कथाऽऽरम्भे तव कथा चरितचर्चा तस्या आरम्भस्तस्मिन् । 'सती'ति शेषः । कर्णकण्डूतिलालसा कर्णस्य कण्डूतिः कण्डूयनं तत्र लालसोत्कण्ठा कामना यस्याः सा । 'सोऽत्यन्तं लालसा द्वयोः ।' इत्यमरः । उज्जम्भवदनाम्भोजोज्जृम्भं जृम्भायुक्तं वदनाम्भोज मुखकमलं यस्याः सा । अङ्गानि । भिनत्ति । अत्र श्लोकश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥७॥ - या वा-'उपासनामेत्य पितुः स्म रज्यते दिनेदिने साऽवसरेषु बन्दिनाम् । पठत्सु तेषु प्रतिभूपतीनलं विचिद्ररोमाऽजनि शृण्वती नलम् ॥' इत्यादौ ।
अथ कुटमितं लक्षयितुं प्रतिजानीते-अथेत्यादिना । अथ मोटायितनिरूपणानन्तरम् । कुट्टमितं लक्ष्यते-१४८ केश..इत्यादिना ।
१४९ केशस्तनाधरादीनाम् । आदिपदेन दुकूलादीनां ग्रहणम् । ग्रहे ग्रहणे। विषयसप्तमीयम्। हर्षे सतिसप्तमीयम् । अपि । सम्भ्रमावरया । 'सम्भ्रमस्त्वरे' त्यमरः । शिरकरविधननं शिरःकर योर्मस्तकहस्तयोर्विधूननं कम्पनम् । कुट्टमितम् । नाम प्रसिद्धम् । 'अलङ्कार' मिति शेषः ।' आहु'भरतादय' इति शेषः ॥ १२९॥
उदाहरति-यथा-'पल्लवो...'इत्यादौ ।
'पल्लवोपमितिसाम्यसपक्षं पल्लवो नवाङ्कुरितं पत्रमुपमितिरुपमानं यत्र तादृशं यत्साम्यं समानधर्मत्वं तेन सपक्षं सरूपं तत् । 'पल्लवेनोपमित्या सादृश्येन यत्साम्यं तेन सपक्षमुभयोरपि पल्लवोपमानत्वसाधम्यात्सुहृद्भत मिति मल्लिनाथाः। अधरबिम्बमधरो बिम्बमिवाधर एव वा बिम्बं तत्तथोक्तम् । दष्टवति । अभीष्टेऽभिमत इष्टः प्रियस्तस्मिन्, प्राणप्रिय इति भावः । तरुण्या युवत्या नायिकायाः । सरुजेव समाना रुक् पीडा यस्य तेनेव । 'ससखी'तिवदस्खपदविग्रहो बहुव्रीहिः। 'सह रुजेति सरुक्। 'तेन सहेति बहुव्रीहिः। 'सहस्य स'इति सः, तेन सरुजेवेति तु मल्लिनाथाः। 'स्त्री रुग् रुजा चोपताप' इत्यमरः। तारलोलवलयेन तारमत्युच्चस्वरं लोलं चञ्चलं च करणं यत्र तेन । 'तारं च रजतेऽत्युच्चवरेऽन्यवदीरितम् । इति विश्वः। करेण पाणिना । पर्यकूजि परिकूजितम् । भावे लुङ । अत्राहमल्लिनाथा:-'सुहृदुःखाद् दुःखायन्ते सुहृद इति भावः। अत्र कङ्कणद्वारकस्य करकूजनस्य विधूननहेतुकस्य 'सरजेवेति घेतुकत्वमुत्प्रेक्षते' इति । शिशुपालवधस्येदं पद्यम् । खागता छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ७१॥'