________________
[ तृतीयः
साहित्यदर्पणः। अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासा निषेधात्मक,स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥६८॥' अथ किलकिश्चितम्१४६ स्मितशुष्करुदितहसित-त्रासक्रोधश्रमादीनाम् ।
सायं किलकिञ्चित-मभीष्टतमसङ्गमादिजाद्धर्षात् ॥ १२७ ॥ यथा-'पाणिरोधमविरोधितवान्छ भर्त्सनाश्च मधुरस्मितगर्भाः।।
कामिनः स्म कुरुते करभोरु-होरि शुष्करुदितं च सुखेऽपि ॥६९॥' अथ मोडायितम्--
ताम् । 'अर्पयन्ती' ति पूर्वतोऽन्वेति। यासाम् । अत्यन्ताभिमतेऽत्यन्तमभिमतं तत्र। वस्तुनि। अपि 'किं पुनर्येन केनापि रूपेणाभिमत' इति शेषः । निषेधात्मकः। विधिविधानम् । ताः। त्रैलोक्यविलक्षणप्रक स्त्रयो लोका इति त्रैलोक्यं तस्माद विलक्षणा भिन्ना प्रकृतिः स्वभावो यासां तास्तथोक्ताः । चतुर्वर्णादीनां स्वार्थ उपसख्यानम् ।' इति ष्यञ् । 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिखभावयोः ।' इति मेदिनी। एवं च-ब्रह्मणस्त्रैलोक्यमात्रस्रष्टत्वेन तल्लेखापरतन्त्रभूता इति सूचितम् । वामाः सुन्दर्यः । ते तुभ्यम् । 'रुच्यर्थानां प्रीयमाणः ।' १ । ४ । ३३ इति चतुर्थी । प्रसीदन्तु । कमपि कामिनं प्रति कस्यापि सख्युराशीर्वादोऽयम् । अत्र शार्दूलविक्रीडितं वृत्तम् । तलक्षणं चोक्तं प्राक् ॥६८॥'
अथ किलकिञ्चितं लक्षयितुं प्रतिजानीते-अथेत्यादिना । अथ विव्वोकोदाहरणानन्तरम् । किलकिश्चितं लक्ष्यते-१४६ स्मित...इत्यादिना ।
१४६ अभीष्टतमसङ्गमादिजादतिशयितोऽभीष्टः प्रियः प्राणनाथ इति यावत्, इत्यभीष्टतमः, तस्य सङ्गमादिस्तस्माज्जायत इति तस्मात्तथोक्तात् । आदिपदेनालिङ्गनादिग्रहणम् । 'अतिशायने तमबिष्ठनौ।' ५।३।५५ इति तमप् । 'पञ्चम्यामजातौ । ३।२।९८ इति डः । हर्षात् । स्मितशुष्करुदितहसितबासक्रोधश्रमादीनां स्मितं (मन्दहासः) च शुष्करुदितं ( अक्लेशमश्रुपातरहितं रोदनं ) च हसितं च त्रासश्च क्रोधश्च श्रमश्चेति त आदौ येषां तथोक्तानाम् । आदिपदेन कम्पनोज्जम्भणादीनां ग्रहणम् । साइर्श्य सङ्करता 'खले कपोत-न्यायेन युगपदुपस्थितिरिति यावत् । किलकिश्चितम् । 'मत' मिति शेषः । अत्रोद्गीतिः छन्दः, तल्लक्षणं चोकं प्राक् ॥ १२७ ॥
उदाहरति-यथा-'पाणि... इत्यादौ ।।
'करभोरूः करभो मणिबन्धादारभ्य कनिष्ठापर्य्यन्तो हस्तस्तद्वदूरू जानूपरितनौ भागौ यस्याः सा । 'करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते ।' इति मेदिनी । 'ऊरूत्तरपदादौपम्ये ।' ४।१।६९ इत्यूङ् । कामिनः । कामोऽभिलाषो रिरंसेति यावत्, अस्यास्तीति तस्य । रिरंसो यकस्येति भावः । अविरोधितवाञ्छं न विरोधिता वाञ्छा यस्मिन् कर्मणि तत्तथा । पाणिरोधं पाणे: (नीवीस्रंसने व्यापृतस्य) करस्य रोधो निरोधस्तम् । च । मधुरस्मितगर्भा मधुरं रमणीयं स्मितं गर्भे मध्ये यास ताः । भर्त्सना 'मैव' मित्यादिरूपा अपपूर्विका उक्तीः । च तथा । मुखे सुखसाधनभूते चुम्बनादावित्यर्थः । अपि 'किं पुनरन्यदे'ति शेषः । हारि 'मनस' इति शेषः । शुष्करुदितं शुष्कं दुःखमन्तरा क्रियमाणत्वादनाई (अश्रुपातरहितम् ) च तद्वदितं तत् तथोक्तम् । 'नपुंसके भावे क्तः । ३।३।११४ इति क्तः । कुरुते । स्म । चकार । 'लट् स्मे ।' ३।२।११८ इति लट् । शिशुपालवधस्येदं पद्यम् । अत्र खागता छन्दः, तल्लक्षणं यथोक्तं 'स्वागता रनभगैर्गरुणा स्यात्' इति ॥६९॥
अथ मोद्याथितं लक्षयितुं प्रतिजानीते-अथेत्यादिना। अथ किलकिञ्चितोदाहरणानन्तरम् । मोडायितं लक्ष्यते-१४७ तद्भाव..इत्यादिना ।