________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । अथ विच्छित्तिः
१४४ स्तोकाऽप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ॥ १२५ ॥ यथा'स्वच्छाम्भःनपनविधौतमङ्ग, मोष्ठ-स्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासस्तु प्रतनु विविक्तमस्त्वितीया-नाकल्पो यदि कुसुमेषुणा न शून्यः ॥६७॥' अथ विवोकः
१४५ विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १२६ ॥ यथा-'यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा,
याः प्राणान्वरमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये । अथ विच्छित्तिं लक्षयितुं प्रतिजानीते-अथेत्यादिना । अथ विलासोदाहरणानन्तरम् । विच्छित्तिलक्ष्यते-१४४ स्तोका..इत्यादिना ।
१४४ स्तोकाऽल्पा । 'स्तोक--स्त्रिज्वल्पे चातके पुमान् ।' इति मेदिनी । अपि किं पुनर्बह्वीति भावः । कान्तिपोषकत कान्तः शोभायाः पोष आनुकूल्यमिति यावत्, तं करोतीति तथाभूता। आकल्परचनाऽऽकल्पस्य रचना यथोपयोगं सङ्घटनविशेष इति तथोक्ता । 'आकल्पवेषौ नेपथ्यं..' इत्यमरः । विच्छित्तिः॥ १२५ ॥
उदाहरति-यथा-'स्वच्छाम्भः...'इत्यादौ ।
'यदि। कुसुमेषुणा कुसुमानि पुष्पाण्येवेषवो वाणा यस्य तेन । कामदेवेनेत्यर्थः । न नैष । शून्यो रिक्तः । स्यात । तर्हि-विलासिनीनां विलासः सुरतमेषामस्तीति तेषामिमा विलासिन्यस्तासाम् । सुरतशीलानां नायिकानामित्यर्थः । 'विलासो हावभेदे स्याल्लीलायामपि पुंस्ययम् ।' इति मेदिनी। स्वच्छाम्भानपनविधीतं खच्छमम्भो जलं तेन स्नपनं तेन विधौतमपनीतरज इति तथोक्तम् । 'धावु' गतिशुद्धयोः । 'निष्ठा।' ३।२।१०२ क्तः । अङ्गं शरीरम् । तथा-ताम्बूलद्युतिविशदस्ताम्बूलस्योपचारात्ताम्बूलवीट्या द्युतिस्तया विशदो व्यक्तो रञ्जित इति यावत् , इति तथोक्तः । 'विशदः पाण्डुरे व्यक्त' इति हैमः । ओष्ठः। एवम्-वासो वस्त्रम् । तु। प्रतनु प्रकर्षण तनु सूक्ष्म. मिति तथोक्तम् । 'सूक्ष्म दभ्रं कृशं तनु ।' इत्यमरः। विविक्तं पवित्रं निर्मलमिति यावत् । 'विविक्तौ पुतविजना' वित्यमरः । इतीत्येवम् । इयानेतावान् । आकल्पो वेषः । अस्तु 'पर्याप्त' इति शेषः । शिशुपालवधस्येदं पद्यम् । अत्र प्रहर्षिणी छन्दः, तल्लक्षणं यथोक्तम् 'प्रहर्षिणी नौ जौ ग् त्रिकदशकौ । इति ॥६७॥'
___ यथा वा मम-'नो हारं, न च मेखलां, न च रणद्रत्नावली नूपुरौ, नो निकं, न च कङ्कणे, न च महद्धत्ते विभूषान्तरम् । एषा हन्त तथाऽपि दीपकशिखेवेतस्ततश्चारिणी यावदर्शनमातनोति किमपि ज्योतिस्तमस्तत्परम् ॥' इति
अथ विबोकं लक्षयितुं प्रतिजानीते-अथेत्यादिना। .. अथ विच्छित्त्युदाहरणानन्तरम् । विवोकः- लक्ष्यते-१४५ विव्योकः इत्यादिना ।
१४५ इष्टेऽभिमते । अपि 'किं पुनरनभिमत' इति भावः । वस्तुनि नीवीविलंसनादावित्यर्थः । अत्र विषये सप्तमी । अतिगर्वेण । अनादर आदराभावः । विवोकः। तु 'मत' इति शेषः ॥ ५२६ ॥
उदाहरति-यथा-'यासां... इत्यादौ ।
‘यासाम् । सगुणानुसरणे सन्तः सतां वा गुणाः सुस्मितभाषणादिरूपास्तेषामनुसरणमनुसत्योपासने तस्मिंस्तथोक्ते । सति वर्तमाने । अपि । दोषानवत्तिर्दोषाणां गुणप्रतिकूलानां प्रसादानुग्रहाधभावरूपाणां दूषणानां, रात्रीणां वाऽनुवृत्तिरनुवर्त्तनं सेवनमिति यावत् । 'दोषोऽवद्यो, निशा दोषा' इति गोपालः । पराऽत्यन्ता। 'अस्ती' ति शेषः । याः। प्राणान् जीवनमित्यर्थः । वरं यथेष्टम् । अर्पयन्ति निवेदयन्ति । न । पुनः । प्रिये खकान्ते । सम्पूर्णदृष्टिं सम्पूर्णा मुखावगुण्ठनोद्घाटनपुरःसरमसङ्कुचिता रष्टिदर्शनं नेत्रविषयीकरणमिति यावत्,