________________
साहित्यदर्पणः।
[तृतीयःअथ लीला१४२ अङ्गैवैषैरलङ्कारैः प्रेमिभिर्वचनैरापि ॥ १२३ ॥
प्रीतिप्रयोजितैर्लीलां प्रियस्यानुकृति विदुः। 'मृणालच्यालवलया वेणीवन्धकपर्दिनी । हरानुकारिणी पातु लीलया पार्वती जगत् ॥६५॥' अथ विल्लास:-- १४३ यानस्थानासनादीनां-मुखनेत्रादिकर्मणाम् ॥ १२४ ॥
विशेषस्तु विलासः स्या-दिष्टसन्दर्शनादिना । यथा'अत्रान्तरे किमपि वागविभवातिवृत्त-वैचित्र्यमुल्लसितविभ्रममुत्पलाक्ष्याः । तद्भरिसात्त्विकविकारमपास्तधैर्य-माचार्यकं विजयि मान्मथमाविरासीत ॥६६॥' अथ । लीला-'लक्ष्यते... १४२ अङ्गै...इत्यादिना ।
१४२ प्रीतिप्रयोजितैः प्रीत्या प्रयोजितानि प्रयोजिता वा तैस्तथाभूतैः। अ लक्षणयाऽङ्गचेष्टाभिः । वेषेर्वनादिना प्रसाधनैः । अलङ्कारैः । प्रेमिभिः प्रेमवद्भिः । वचनैः। अपि । प्रियस्य । अनुकृति मनुकरणम् । लीलाम् । विदुः ॥१२३॥
उदाहरति-यथा-'मृणाल...इत्यादौ ।
'मृणालव्यालवलया मृणालं कमलमूलमेव व्यालस्सर्पः, स एव वलयं कङ्कणं यस्याः सा । वेणीवन्धकपर्दिनी वेण्याः केशपाशस्य बन्धो बन्धनं स एव कपर्दोऽस्या अस्तीति तथोक्ता। कपर्दो महादेवस्य जटाजूटः । अत एव-लीलया न तु कारणान्तरेण । हरानुकारिणी । पार्वती । जगत् (कर्म)। पातु । अत्र श्लोकश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥'
यथा वा मम-'श्यामस्य गानमिव हन्त निशम्य यस्याः पादस्पृशोऽहमहमित्युपपद्य धेन्वः । सा वेणुवादनपरा परमा त्रिभङ्गा श्यामा पुनात्वखिलमोहनमोहनीयम् ॥६५॥' इति ।
विलासं लक्षयितुमाह-अथ । विलासो लक्ष्यते-यान..इत्यादिना । - १४३ यानस्थानासनादीनां यानं (गमनं ) च स्थानं (उत्थानं ) चासनं ( उपवेशनं) चेति, तान्यादौ येषां तेषाम् । आदिपदेनागमनशयनादीनां ग्रहणम् । मुखनेत्रादिकर्मणां मुखनेत्रादीनां कर्माणि तेषां तथोक्तानाम् । आदिपदेन भृकुट्यादीनां प्रहणम् । मुखकर्म ताम्बूलचर्वणसुहसितविकसनादि, नेत्रकम्मै सप्रेमसलज्ज निरीक्षणादि । इष्टसन्दर्शनादिनेष्टस्य प्रियस्य सन्दर्शनादि समवलोकनादि तेन । आदिपदेनालिङ्गनादिग्रहणम् । विशेषः कश्चित्प्रकारोऽतिशयो वा । तु पुनः । विलासः। स्यात् ॥१२४॥ ..... उदाहरति-यथा-'अत्रा... इत्यादौ।
___'अत्रास्मिन्मम (नायकस्य ) समीक्षणरूप इत्यर्थः । अन्तरेऽवकाशे । उत्पलाक्ष्याः उत्पले इवाक्षिणी यस्यास्तस्याः अम्बुजनेत्राया मालत्या इत्यर्थः। किमप्यनिर्वचनीयम् । वागविभवातिवनवैचित्र्यं वाचो भाषणस्य विभवस्तस्यातिवृत्तमत्यन्तं यद्वैचित्र्यमद्भुतत्वं तत्तथोक्तम् । उल्लसितविभ्रममुल्लसितो विभ्रमो यत्र तत् । भूरिसात्त्विकविकार भूरयोऽनेके सात्त्विकविकारा यत्र तत् । अनेकसात्त्विकविकारलक्षणलक्षितमित्यर्थः । अपास्तधैर्यमपास्तं विजितं धैय्य येन तत् । अत एव-विजयि विजयशीलम् । अन्यैरजेयमिति भावः । तदनुभवरमणीयम् । मान्मथं मन्मथस्य मनोमथनकारिण इदमिति तथोक्तम् । आचार्यकमाचार्य्यरूपं प्रधानस्वरूपं 'चेष्टित' मिति शेषः । भाषिरासीत । माधवस्येयमुक्तिः । मालतीमाधवस्येदं पद्यम् । वसन्ततिलकं छन्दः, तलक्षणं चोक्तं प्राक् ॥६६॥'