________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः।
साया समेतः।
.
.
अथ धैर्यम्
१४१ मुक्ताऽत्मश्लाघना धैर्य मनोवृत्तिरचश्चला । यथा'ज्वलतु गगने रात्रौ राबावखण्डकलः शशी, दहतु मदनः, किं वा मृत्योः परेण विधास्पति। मम तु दयितःश्लाघ्यस्तातोजनन्यमलान्वया, कुलमलिनं, न त्वेवायं जनोन च जीवितम्॥६॥' क्षितौ पृथिव्याम् । न नैव । क्षिपति पातयति, यदि क्षिपति तथा सन्निधानस्थान एवेति भावः । किन्तु-गर्भगृहे गर्भ : इव गृहमिति तत्र, गृहस्य मध्यभाग इत्यर्थः । 'स्थिते'ति शेषः। गवाक्षविवरव्यापारिताक्ष्या गवाक्षस्य विवरं तत्र ध्यापारिते सञ्चालिते, अक्षिणी यया तस्यास्तथोक्तायाः। किं मम सखी करोतीति गवाक्षरन्ध्रतस्तनिरीक्षणा तटितं विजिज्ञासन्न्या इत्यर्थः । बहिःसख्या बहिर्वर्त्तमानायाः सख्या इत्यर्थः । वत्र मुखम् । अभ्यभिलक्ष्य । अत एव-'अभिरभागे।' १।४।९१ इत्यनेन वक्र'मिति द्वितीया । परं केवलम् । पर्यश्रुणी परिगतानि अश्रूणि ययोस्ते अश्रुरहिते इत्यर्थः, असम्भव द्योतयितुमिदं विशिष्योक्तम् । लोचने । प्रयच्छति समर्पयति । अत्राहुष्टिप्पणीकारा:-'विषयान्तरावलोकनप्रवणेय ममैवंविधामवस्थां न ज्ञास्यतीति तथाचरति । अन्यथा खजनसमक्षं दुःखोत्पीडस्य प्रतिरोद्धमशक्यतया तत्कारणाभिव्यक्ती विनयव्यत्यासः स्यात् ।' इति । यदा-पर्यश्रृणी अभिया॑ते । लोचने । प्रयच्छति निवर्तयतीत्यर्थः । 'यम उपरमे। बहिःस्थां सखीमालक्ष्य जायमाने दुःखोत्पीडे नेत्रे पय॑श्रुणी इति ततोऽपहरतीति भावः । यद्वा-चक्रं मुखावधि । 'कालाध्वनोरत्यन्तसंयोगे।' २।३।५ इति द्वितीया । पर्याणी पर्याप्तान्यश्रूणि ययोस्ते । लोचने । अभिप्रयच्छति समर्पयति । नह्येतावता (दुःखनिवेदनेन) कोपाविष्करण, येन लक्षणसङ्गतिया॑हन्येत । अत एव
व्याप्ते' इति विवृतिकाराः प्राहुः । 'पर'मिति च सङ्गच्छते । कस्यापि ज्ञानपरप्रसङ्गस्य कमपि सखायं प्रत्युक्तिरियम् । अत्र शार्दूलविक्रीडितं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ६३॥'
अथ धैर्य लक्षयितुमाह-अथ । धैर्य धीरस्य भाव इति तथोक्तम्। 'लक्ष्यते-१४१ मुक्ता..इत्यादिना ।
१४१ मुक्तात्मश्लाघना मुक्तं परित्यक्तमात्मनः खस्य श्लाघनं गुणारोपपुरःसरं प्रशंसनं यया सा। अचञ्चला। मनोवृत्तिर्मनसो वृत्तिः प्रणिधेयाकारतयाऽवस्थानमिति तथोक्ता । धैर्य तत्पदवाच्य स्या'दिति शेषः ।
उदाहरति-यथा-'ज्वलतु...इत्यादौ ।
'रात्रौरात्रौ प्रतिरात्रि । अखण्डकलोऽखण्डाः समग्राः कला यस्य सः, पूर्णकल इत्यर्थः । शशी चन्द्रः । गगन आकाशे । ज्वलतू ज्वलनः सन् दीप्यताम् । - 'सन्तापकः सन् दीप्यतामिति तु विवृतिकाराः । मदनः कामः । 'अपी'ति शेषः । दहतु । पूर्णचन्द्रस्य साहाय्येन प्रचण्डो मदनोऽपि करोतु यथेष्टं दग्धं मामिति भावः । मृत्योः। परेणाधिकम् । 'परेणे'त्यव्ययमधिकार्थे'इति विवृतिकाराः । किम् । वा। विधास्यति मदनः शशी वेति पूर्वतोऽन्वेति । मम । तु पुनः । दयितः प्रियः । श्लाघ्यः प्रशंसनीयः । तातः पिता। जननी माता । 'चे ति शेषः । अमलाम्वयाऽमलो निष्कलङ्कोऽन्वयो वंशो यस्याः सा तथोक्ता । लिङ्गव्यत्ययेन तात'इत्यनेनाप्यन्वेति । एवं च-कुलम् । अमलिनं न मलिनमिति तथोक्तः । न । तु । अयं मल्लक्षणो जनः । एव। 'अमलिन 'मिति लिङ्गव्यत्ययेनान्वेति, अमालिन्ये दुःखानुदयादिति भावः । अत एव-न । च । जीवितममलिन मिति पूर्वतोऽन्वेति ! टिप्पणीकारास्त्वाहः-'अयं मल्लक्षणो जनो न त्वेव स्थिरः, जीवितं च न स्थिरम्, अचिरावस्थायिनः शरीरस्य कृते मातृपितृभर्तकुलकलङ्कनमतितरामनुचितमिति भावः । इति । ज्वलति शशिनि, दहति च मदने मालत्याः सख्याः पुरस्तात्परामर्शोऽयम् । मालतीमाधवस्येदं पद्यम् । हरिणीप्लुतं च च्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥६४॥'
एवं भावादीस्त्रीनझजान् शोभादीन् सप्तायनजानित्येवं नायिकानायकोभयसाधारणान् दशालकाराँलक्षणानुपदमुवाहत्य स्वभावजानायिकामात्रसम्भवाँल्लक्षथितुमुपक्रमते-अथेत्यादिना ।