________________
साहित्यदर्पणः ।
[ तृतीय:
इयमधिकमनोज्ञा वल्कलेनापि तन्वी, किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ ६१ ॥ '
अथ प्रगल्भता --
१७४
१३९ निःसाध्वसत्त्वं प्रागल्भ्यम्
यथा
'समालिष्टाः समाश्लेषैवम्बिताश्चुम्बनैरपि । दष्टाश्च दशनैः कान्तं दाखीकुर्वन्ति योषितः ॥६२॥ ' अथौदार्यम् -
१४० औदार्यं विनयः सदा ॥ १२२ ॥ यथा--'नो ब्रूते परुषां गिरं, वितनुते न भ्रूयुगं भङ्गुरं,
नोत्तंसं क्षिपति क्षितौ श्रवगतः सा मे स्फुटेऽप्यागसि । कान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या बहि:सख्या वक्रमभि प्रयच्छति परं पर्य्यश्रुणी लोचने ॥ ६३॥ '
इयम् । तन्वी । वल्कलेन वृक्षाणां त्वचा । 'त्वक् स्त्री वल्कं वल्कलमस्त्रियाम् ।' इत्यमरः । अपि । अधिकमनोज्ञा 'पूर्वावस्थात' इति शेषः । नन्वेवं कथमित्याह - हि यतः । मधुराणां माधुर्य्यमापन्नानाम् । आकृतीनाम् । किमित्र किं नाम । मण्डनं प्रसाधनम् । न 'भवे' दिति शेषः । अपि तु सर्वमेवेति भावः । ' हीनमहीनं स्वसंबद्धं चेति सामान्यस्य समर्थकत्वादर्थान्तरन्यासः । पादत्रये साधारणधर्मस्य रम्यलक्ष्मीविस्तारमन। ज्ञपदैरभिधानान्मालाप्रतिवस्तूपमा । वृत्त्यनुप्रासच्छेकानुप्रासयोः संसृष्टिः । अर्थालङ्कारयोरङ्गाङ्गिभावः सङ्करः । इति राघव भट्टाः । शकुन्तलाया वल्कलधारणेऽपि शोभाऽतिशयमनुभवतो दुष्यन्तस्य स्वयं परामर्शोऽयम् । शाकुन्तलस्नेदं पद्यम्, मालिनी छन्दः, तक्षणं च यथोक्तम् 'ननमयययुतेयं मालिनी भोगिलो कैः ॥ ६१ ॥ '
अथ प्रगल्भतां लक्षयितुमुपक्रमते - अथेत्यादिना ।
अथ | प्रगता 'लक्ष्यते -१३९ निःसाध्वसत्वं... इत्यादिना ।
१३९ निःसाध्वसत्वं निर्गतं साध्वसं भयं दयितापराधविचारजन्यो दयितादुःखसम्भावनाजन्यो वा दयिताय । दयितेन दयितस्य दयितया वा साकं यथेष्टं रमणप्रतिबन्ध इति यावत्, यस्या यस्य वा तस्यास्तस्य वा भावस्तत्त्वं तथोक्तम् । प्रागल्भ्यम् ।
उदाहरति- यथा - 'समाश्लिष्टाः..इत्यादौ ।
'समाश्लिष्टाः सम्यग् यथेष्टमाश्लिष्ट आलिङ्गिता इति तथोक्ताः । 'सत्य' इति शेषः । एवं परत्रापि । समाश्लेषैः । चुम्बिताः । चुम्बनैः । अपि । दष्टाः । च पुनः । दंशनैः । अत्र साधने तृतीया । योषितो नायिकाः । कान्तम् । दासीकुर्वन्ति स्वाधीनं कुर्वत इत्यर्थः । अत्र लोकश्छन्दः, लक्षणं चोक्तं प्राक् ॥ ६२ ॥ '
उदारतां लक्षयितुमाह-अथ । औदार्य्यमुदारता 'लक्ष्यते - १४० औदार्य्यम्...इत्यादिना ।
१४० सदाऽपराधे ज्ञातेपि किं पुनरन्यदेति भावः । विनयः कोपाविष्करणाभावः । भौदार्यमुदारत्वम् ॥१२२॥ उदाहरति-यथा- 'नो ब्रूते.. इत्यादौ ।
'साऽपराधेऽपि सौम्यस्वभावा । कान्ता प्रियेत्यर्थः । मे मम । आगस्यपराधेऽन्योपभोगरूपे दण्डनीयत्व - हेतुभूते चेष्टित इत्यर्थः । स्फुटे प्रत्यक्षं ज्ञाते । अपि । परुषां क्रोधव्यञ्जिकां रूक्षामित्यर्थः । गिरम । नो । ब्रूते उच्चरति चरति तदा कोमलामेवेति भावः । भ्रूयुगं भ्रुवोर्युगं तत्तथोक्तम् । भङ्गुरं कुटिलम् । न । वितनुते करोति, यदि वितनुते तदा सरलमेव भ्रूयुगमिति भावः । श्रवणतः कर्णात् । उत्तंसं तस्याभरणम् । 'कमलादी 'ति शेषः ।