________________
परिच्छेदः
___ रुचिराख्यया भ्याख्यया समेतः। यथा-'नेत्रे खअनगअने-' इत्यादि । अथ दीप्तिः
१३७ कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ १२१ ॥ पथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम्.. 'ताहण्यस्य विलासः समधिकलावण्यसम्पदो हासः ।
धरणितलस्याभरणं युवजनमनसो वशीकरणम् ॥ ६०॥' भथ माधुर्य्यम्
___ १३८ सर्वावस्थाविशेषेषु माधुर्य रमणीयता । यथा
'सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोलक्ष्म लक्ष्मी तनोति । उदाहरणं दर्शयति-यथा-'नेचे खञ्जनगञ्जने..'इत्यादि । 'तथाऽन्यदप्यवसेय' मिति शेषः । अथ दीप्तिं लक्षयितुमुपक्रमते-अथेत्यादिना । भथ । दीप्तिलक्ष्यते-१३७ कान्ति...इत्यादिना । १३७ कान्तिनिकलक्षणे'ति शेषः। एव । अतिविस्तीर्णा । दीप्तिः । इति । अभिधीयते॥ १२१॥ उदाहर्तुमुपक्रमते-यथेत्यादिना।
यथा । मम । सम्बन्धसामान्यविवक्षया षष्ठी । चन्द्रकलानामनाटिकायां चन्द्रकलानानी चासौ नाटिक तस्याम् । 'पुंवत्कर्मधारयजातीयदेशीयेषु ।' ६।४२ इति पुंवद्भावः । चन्द्रकलावर्णनम् ।
'तारुण्यस्य यौवनावस्थायाः । विलासस्तत्स्वरूपभूतेत्यर्थः । समधिकलावण्यसम्पदः समधिकं यदपेक्षयाऽनन्यातिशयस्तादृशं यल्लावण्यं 'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' इत्युक्तलक्षणं सौन्दर्य तस्य सम्पत् समधिका वा या लावण्यसम्पत्तस्या इति तथोक्तायाः । हासः प्रमोदचिह्नभूतेत्यर्थः । धरणितलस्य धरणिः पृथिवी तस्यास्तलं स्वरूपं तस्य, पृथिव्या इति भावः । 'अधः स्वरूपयोरस्त्री तल' मित्यमरः। आभरणमाभूषणस्वरूपेत्यर्थः । युवजनमनसो युवानो ये जनास्तेषां मनस्तस्य। वशीकरणं तत्स्वरूपभूतेति भावः । अत्रेदं बोध्यम्-विलासादीनां तारुण्यादिसम्बन्धित्वाभावेपि चन्द्रकलास्वरूपभूतत्वाभावेऽपि च तथा प्रतिपादनं लक्षणया । अत एव तर्कवागीशाः प्राहुः 'अत्र तारुण्यविलासादीनामतिशयो लक्षणाप्रयोजनम् ।' इति । अत्राा छन्दः, तलक्षणं चोक्तं प्राक् ॥' ___ अथ माधुर्य लक्षयितुमाह-अथ । माधुर्यम् । लक्ष्यते-१३८ सर्वा..इत्यादिना । __ १३८ सर्वावस्थाविशेषेषु सर्वाः प्रतिकूलाप्रतिकूलोभयविधा या अवस्थाः स्वरूपावस्थितयस्तासां विशेषाः प्रकारास्तेषु । माधुर्य । रमणीयता 'क्षणेक्षणे यन्नवतामुपैति तदेव रूयं रमणीयतायाः।' इत्युक्तस्वरूपा सुन्दरतेत्यर्थः ।
उदाहरति-यथा-'सरसिज.. इत्यादौ ।
'शैवलेन शेवालेन । 'जलनीली तु शेवालं शैवल' इत्यमरः । अपि किं पुनरन्येन येन केनापि वस्तुनेति भावः । अनुविद्धं व्याप्तम् । सरसिज कमलम् । रम्यं रमणीयं भवति । न हि जलस्य शेवालेनापि जलस्थस्य कमलस्य रमणीयत्वं व्याहन्यत इति भावः । मलिनं खभावतोऽसुन्दरम् । अपि । हिमांशोश्चन्द्रमसः । लक्ष्म नीलिमचिहम् । लक्ष्मी शोभाम् । 'लक्ष्मी: सम्पत्तिशोभयोः । ऋद्योषधे च पद्मायां वृद्धिनामौषधेऽपि च ।' इति मेदिनी। तनोति ।