________________
१७२
साहित्यदर्पणः।
[ तृतीयः... १३५ रूपयौवनलालित्य-भोगाद्यैरङ्गभूषणम् ॥ १२० ॥
शोभा प्रोक्तातत्र यौवनशोभा यथा
'असम्भृतं मण्डनममयष्टे-रनासवाख्यं करणं मदस्य ।।
कामस्य पुष्पव्यतिरिक्तमत्रं बाल्यात्परं साऽथ वयः प्रपेदे ॥ ५९॥' एषमन्यत्रापि । अथ कान्तिः
१३६ सैव कान्ति-मन्मथाप्यायितद्युतिः । मन्मथोन्मेषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते ।
१३५ रूपयौवनलालित्यभोगाद्यै रूपं (सौन्दय ) च यौवनं च लालित्यं (सुकुमारत्वं) च भोगामनि (सक्चन्दनताम्बूलादिसेवनान्यलङ्कारधारणानि च) चेति तैः । अङ्गभूषणमङ्गानां भूषणं पाप्तिः शोभा। प्रोक्ता। अयम्भावः-रूपादिनाङ्गसज्जा शोभा । न चालङ्कारधारणे शोभा यत्नजा स्यादिति वाच्यम्। शोभायास्तथा प्रसाधनमात्रत्वात्, वस्तुतस्तु शोभयाऽयत्नजयैवालङ्कारधारणस्य पाप्तत्वम् । इति ॥ १२० ॥
तत्र तासु रूपाद्यपाधिभिर्भिद्यमानासु शोभासु मध्ये इति यावत् । यौवनशोभा। यथा-असम्भृतमित्यादौ
अथ प्राक्तनजन्मन्यभ्यस्तानां विद्यानां प्राप्त्यनन्तरमित्यर्थः । सा पार्वती। अङयष्टेरझं शरीरं यष्टिर्ध्वजादिदण्ड इवेति तस्याः । अङ्गं गात्रे...त्रिष्वङ्गवति चान्तिके।' इति मेदिनी। असम्भृतं न सम्भृतं सगृह्य सम्पादितमिति तथोक्तम् । अयत्नसिद्धमिति भावः। मण्डनमाभूषणं । मदस्य। अनासवाख्यं नासवाख्या यस्य तत्तथोक्तमासवाख्यारहितमिति भावः । करण साधनम् । कामस्य पुष्पधन्वत्वेन प्रसिद्धस्य । पुष्पव्यतिरिक्तं पुष्पेभ्यो व्यतिरिक्तं भिन्नं तत्तथोक्तम् । अस्त्रम् । बाल्याच्छैशवात् । परमनन्तरभावि । वयोऽवस्थाम् , यौवनमिति यावत् । प्रपेदे प्राप्तवती । अत्राहुमल्लिनाथाः-'यौवनेनैव हि युवतयः प्रसाध्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीये पादे आसवरूपकारणाभावेऽपि तत्का~मदोक्तेर्विभावनाऽलङ्कारः ।..प्रथमतृतीययोस्तु आरोप्यमाणयोर्मण्डनमदनाश्रितयोः प्रकृतोपयोगात्परिणामालङ्कारः।' इति । कुमारसम्भवस्येदं पद्यम्, अत्रेन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ५९॥'
एवं रूपादिशोभाऽपि बोयत्याह-एवमित्यादिना।
एवं यथाऽत्र यौवनशोभोदाहृता तथेत्यर्थः । अन्यत्र । अपि 'रूपादिशोभोदाहाय्ये'ति शेषः । तथाहि-रूपशोभा यथा-'आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दा: । किञ्चासिताक्षि ! मृगला'उछनसम्भ्रमेण चञ्चूपुटं चपलयन्ति चिरं चकोराः ॥' लालित्यशोभा यथा-'अधारि पद्धेषु तदघ्रिणा घृणा व तच्छयच्छायलवोऽपि पल्लवे । तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः ॥' भोगशोभा यथा-'वियति विलोलति जलदः, स्खलति विधुश्चलति कूजति कपोतः । निष्पतति तारकाततिरान्दोलति वीचिरमरवाहिन्याः ॥' इत्यत्र चन्द्रहारादिवर्णनात् । इति दिक् ।
अथ कान्ति लक्षयितुमुपक्रमते--अथेत्यादिना । अथ । कान्तिर्लक्ष्यते--१३६ सैव..इत्यादिना ।
१३६ सा निरुतखरूपा शोभेत्यर्थः । एव । मन्मथाप्यायितद्युतिर्मन्मथेन कामदेवेनाप्यायिता वर्द्धिता पोषिता वा द्युतिर्यस्याः सा । 'सती'ति शेषः । कान्तिः ।
तदेवाह-मन्मथोन्मेषेण मन्मथस्य (मनो मनसो मथो मन्थनकारीति तस्य) उन्मेषो जागृतिस्तेन । अतिवि. स्तीणोऽत्यन्तं विस्तारं प्रापितेत्यर्थः । शोभा। एव | कान्तिः । उच्यते कथ्यते।