________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
१७१ 'विवृण्वती शैलसुताऽपि भाव-मङ्गैः स्फुरद्वालकदम्बकल्पैः।
साचीकृता चारुतरेण तस्थौ मुखेन पय॑स्तविलोचनेन ॥ ५७ ॥' अथ हेला
१३४ हेलाऽत्यन्तप्तमालक्ष्य-विकारः स्यात्स एव तु । स एव भाव एव । यथा-'तह से झत्ति पउत्ता बहुए सव्वंगविन्भमा सअला ।
संसइअमुद्धभावा होइ चिरं जह सहीणं पि॥५८॥' अथ शोभा
'शैलसुता शैलस्य हिमालयस्य सुता पुत्रीति तथोक्ता । गौरीत्यर्थः । अपि न केवलं हर'इति शेषः । एतेन'हरस्त किश्चित्परिलप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचना निर्दिष्टो हरस्य हावः स्मार्य्यते। स्फुरद्वालकदम्बकल्पैः स्फुरन्तो विकसन्तो ये बालकदम्बा उपचारात्तत्पुष्पाणि तेभ्यो मनाङ् न्यूनानि तैः। अत्र बालपदं कठोरता व्यावर्त्तयति । 'बालकदम्बेत्यनेन पुलकस्याल्पत्वं, तेन च भावस्याल्पलक्ष्यत्वं प्रतीयते'इति चाहुस्तर्कवागीशाः । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।' ५।३।६७ इति कल्पप् । रोमाञ्चितैरिति भावः । अडैः । साधने तृतीया । भावमभिप्रायं शङ्करविषयकानुरागात्मिकां चित्तवृत्तिमिति यावत् । 'भावोऽभिप्रायवस्तुनोः । इति हैमः । विवण्वती प्रकटयन्ती। 'सती'ति शेषः। चारुतरेणातिशयेन चारु सुन्दरमिति तेन तथोक्तेन, नितान्तं सुन्दरेणेत्यर्थः । पर्यस्तविलोचनेन पय॑स्ते सङ्कुचिते लज्जया भ्रान्ते इति यावत् यस्य तेन, यद्वा-पर्य्यस्ते शङ्करे निक्षिप्ते विलोचने येन यस्य वा तेनेति तथोक्तेन । मुखेन । साचीकृता वक्री कृता । तस्थौ स्थिताऽऽसीत् । कुमारसम्भवस्येदं पद्यम्, अत्रेन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्च च्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ ५७ ॥'
एवं हावमुदाहृत्य क्रमप्राप्ता हेलामपि लक्षयितुमुपक्रमते-अथेत्यादिना ।
अथ हावनिदर्शनानन्तरम् । हेला 'हेलाऽस्यैवा ( हावस्यैवा ) नुभावनम् ।'इति परैर्लक्षितखरूपोऽलङ्कार विशेषः । 'लक्ष्यते' इति शेषः। १३४ हेला इत्यादिना ।
१३४ स निरुक्तस्वरूपो भाव इत्यर्थः । एव । तु । अत्यन्तसमालक्ष्यविकारोऽत्यन्तं हावापेक्षयाऽप्यधिकं यथा भवेत्तथा समालक्ष्यः सम्यगालक्ष्यो विकारो मानसक्षोभो यत्र सः । 'सनिति शेषः । हेला । 'हिल' भावकरणे । घञ् । स्यात् ।
स एवेति व्याचक्षाण: कारिकाकाठिन्यं परिहरति-सः। एव'इत्यस्येति शेषः । भावः। एव । 'इत्यर्थ' इति शेषः।
उदाहरति-यथा-'तह...'इत्यादौ ।
'जह यथा । सहीणं सखीनामाबाल्यं सौहार्देन सङ्गिनीनामिति यावत् । पि अपि । चिरम् । संसइअमुद्धभावाः संशयितमुग्धभावाः संशयिताः सन्देहं नीता मुग्धभावा मुग्धावस्था धर्मा यैस्तथोक्ता इति भावः । होइ भवन्ति । तह तथा । से तस्याः । बहुए वध्वाः । झत्ति झटिति । सअला सकलाः । सव्वंगविन्धमा सर्वाङ्गविभ्रमाः । सर्वेषां भ्रूनेत्रादीनामङ्गानां विभ्रमाः सञ्चारणविशेषा इति भावः । पउत्ताः प्रवृत्ताः । अत्रायों छन्दः, लक्षणं चोक्तं प्राक् ॥ ५८ ॥'
एवमङ्गजान् लक्षणानुपदमुदाहृत्यायनजानपि लक्षणानुपदमुदाहर्तुं प्रवृत्तस्तत्र तावच्छोभां लक्षयितुं प्रतिजानीतेअथेत्यादिना।
अथाङ्गजनिदर्शनानन्तरम् । शोभा लक्ष्यते-१३५ रूप..इत्यादिना ।
१ 'तथा तस्या झटिति प्रवृत्ता वध्वाः सर्वाङ्गविभ्रमाः सकलाः । संशयितमुग्धभावा भवन्ति चिरं यथा सखी. नामपि ॥' इति संकृतम् ।