________________
१७०
एव विच्छित्तिविशेषं पुष्णन्ति । तत्र भावः -
. साहित्यदर्पणः ।
यथा
१३२ निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ ११८ ॥
जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्र विकारो भावः । यथा
' स एव सुरभिः कालः, स एव मलयानिलः । सैवेयमबला, किन्तु मनोऽन्यदिव दृश्यते॥५६॥'
अथ हावः
[ तृतीय:
१३३ भ्रूनेत्रादिविकारैस्तु सम्भोगेच्छा प्रकाशकः । भाव एवाल्पसंलक्ष्य-विकारो हाव उच्यते ॥ ११९ ॥
नायिका नायिकाभिर्नायिकासु वाऽऽश्रिता आश्रित्य स्थिता आलिङ्गिता, आधेयत्वेन स्थिता वेति तथोक्ताः । एव 'न तु नायकाश्रिता' इति शेषः । विच्छित्तिविशेषं विच्छित्तिवैचित्र्यं तस्य विशेषः कश्चित् प्रकारोऽतिशयो वा तं तथोक्तम् । पुष्णन्ति वर्धयन्ति । अयम्भावः - एतेऽष्टाविंशत्यलङ्कारा नायिकानां यौवनानुपदं रजस्तमसी अभिभूयोज्ज़म्भमाणात्सत्त्वात् (गुणात् ) जायन्ते, आसामेव श्रियं पुष्णन्ति । यद्यपि भावाद्या दश नायकानामप्यलङ्काराः सम्भवन्ति, सम्भवन्तु नाम, किं तेन; न हि नायकानां पुनरपि चमत्कारातिशयाय । सर्वेऽप्यमी सात्त्विकाः । ' प्राधान्येन व्यपदेशा भवन्तीति नयेन पुनरमीषामप्यङ्गजत्वादिना व्यपदेशः । भावादयो यथाऽङ्गात् ( मनसः ) सम्भवन्ति न तथाऽन्ये इत्यमी अङ्ग (मनः) सम्भवाः, शोभादयो यथाऽयत्नजा न तथाऽन्य इत्यमी अयत्नजाः, लीलाssदयः पुनर्नायिकानामेव मनोविकारानन्तरं मनोविकाराज्जायन्त इति स्वभावजा इति सुधीभिरवधेयम् । अथ सर्वेषामप्येषां लक्ष्यलक्षणानि निर्देष्टुमुपक्रमते तत्रेत्यादिना ।
तत्र तेषु भावादिषु मध्ये । भावः । 'लक्ष्यते -१३२ निर्विकारा.. इत्यादिना ।
१३२ निर्विकारात्मके निर्गतो विकारो रिरंसात्मकः क्षोभो यत्र यस्य वा, तादृश आत्मा यस्य तस्मिंस्तथोक्ते । चित्ते । 'नायिकाया नायकस्य वे'ति शेषः । प्रथमविक्रिया । भावः ॥ ११८ ॥
तदेवाह - जन्मतो जन्मनः । पञ्चम्यर्थे तसिल् । प्रभृत्यारभ्य । अव्ययमिदम् । 'कार्तिक्याः प्रभृत्याप्रहायिणी मास' इति भाष्यनिर्देशात् निर्विकारे मदनवासनाशून्यतया शुद्धे । मनसि । उबुद्धमात्र उद्बुद्धा मात्रांशो यस्य सः । 'स्त्रियां मात्रा त्रुटी' इत्यमरः । विकारः । भावः । भावयति रिरंसां, भावनं रिरंसात्मना वा भावः ।
उदाहरति यथा - ' स एव..' इत्यादौ ।
'सः । एव । सुरभिर्वसन्तोपलक्षित इत्यर्थः । कालः । सः । एव । मलयानिलः । सा । एव । इयम् । अबला । 'वर्त्तत' इति शेषः । किन्तु । मनः । 'अस्या' इति शेषः । अन्यदिव विलक्षणमिव । दृश्यत उपचारालक्ष्यते । अत्र श्लोकछन्दः, तलक्षणं चोक्तं प्राक् ॥ ५६ ॥'
हा लक्षयितुं प्रतिजानीते - अथेत्यादिना ।
अथ भावोदाहरणानन्तरम् । हावो 'लक्ष्यते -१३३ भूनेत्रादि.. इत्यादिना ।
१३३ नेत्रादिविकारै नेत्रादीनां विकराश्चाश्चत्यादिरूपास्तैः । तु । सम्भोगेच्छाप्रकाशकः सम्भोगस्यालिङ्गनादिरूपस्येच्छा तद्विषयाया भावनायाः प्रकाशक आविर्भावकारक इति तथोक्तः । भावो निरुक्तस्वरूपः । एव । अल्पसंलक्ष्यविकारोऽलं यथा भवेत्तथा संलक्ष्यो विकारो यस्मात् तथोक्तः । हावः । हवनमिति हावः । 'हु'दानादनयोः । ' क्वचिदपवादविषयेऽयुत्सर्गोऽभिनिविशते ।' इति परिभाषयाऽन्विषने 'भावे ।' ३।३।१८ इति घञ् । उच्यते । तथोक्तम्- 'स्याद्भावसूचको हावः ।' इति ॥ ११९ ॥
उदाहरति-यथा- विवृण्वतीत्यादि ।