________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । १३१ यौवने सत्त्वजास्तासा-मष्टाविंशतिसख्यकाः।
अलकारास्तत्र भाव- हावहेलास्त्रयोऽङ्गजाः ॥ ११४ ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्य धैर्यमित्येते सप्तैव स्युरयत्नजाः ॥ ११५ ॥ लीला विलासो विच्छित्ति-विव्वोकः किल किश्चितम् । मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ ११६ ॥ विकृ (ह) तं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् । हसितं चकितं केलिरित्यष्टादशसङ्ख्यकाः ॥ ११७ ॥
स्वभावजाश्च, भावाद्या दश पुंसां भवन्त्यपि। पूर्वे भावादयो धैर्यान्ता दश नायकानामपि सम्भवन्ति, किन्तु सर्वेऽप्यमी नायिकाश्रिता
५३१ तासां निरुक्तानुक्तलक्षणानां नायिकानाम् । यौवने 'सती'ति शेषः । अष्टाविंशतिसङख्यकाः । सत्त्वजाः सत्त्वात् रजस्तमसी अभिभूयोज्जृम्भमाणाद्गुणविशेषाज्जायन्त इति ते । अलङ्कारा 'भवन्तीति शेषः । तत्र तेषु मध्य इत्यर्थः । भावहावहेला भावहावहेलानामानोऽलङ्कारा इत्यर्थः । त्रयः। अङ्गजा अङ्गान्मनसो जायन्त इति ते तथोक्ताः । 'अझं चित्ते च गात्रे च प्रतीकेऽन्तिकगौणयोः ।' इति गोपालः । एवं च सर्वेषामेतेषामलङ्काराणां सात्त्विकत्वेऽपि भावादीनां त्रयाणां पुनरङ्गज (मनोज) त्वेनाभिधानं प्राधान्यं प्रत्याययन रूढिमनसरतीति द्योतितम् । तेषुपुनः-शोभा। कान्तिः । च। दीप्ति प्रकाशः। च। माधुर्यम्। च। प्रगल्भता। औदार्यम् । धैर्यम् । इत्येते। अयत्नजा न यत्नजा इति तथोक्ताः । आन्तरबाह्योभययनमन्तरा जायमाना इति भावः । सप्त। एव। स्युः। तथा-लीला। विलासः। विच्छित्तिर्विच्छेदनं रूपदर्पादिवशादलङ्काराणामनादरणमिति तथोक्ता। 'आभरणविलेपनादीनां कुतश्चित्प्रियापराधादीर्घ्ययाऽनादरणेन त्यक्तानां सखीनां प्रयन्ना द्धारणं विच्छित्ति'रिति तु न सत्, वक्ष्यमाणलक्षणविरुद्धत्वात् । विव्वोकः प्रियविधेरप्यविधानमितिभावः। विवानं विवुः तस्यौकः स्थानमिति तथोक्तः। 'मृगय्वादयश्च ।' (उ०) ११३७ इति विदुः 'ओक उचः के।' ३१६४ इत्योक: किलकिश्चितम् । मोडायितं मोटनं (जृम्भाऽऽदिना) हिंसनमङ्गानामिति तथोक्तम् । 'भावे ।' ३।३।१८ इति घञ् । 'बाहुलकत्वाद' घनस्तुट्च । कुट्टमितं कुठून च्छेदनेन नखाघातादिनेति यावत् निर्वृत्तं, कुहिमम्; तदिवाचरति स्मेति तथोक्तम् । भावे घञ्, 'भावप्रत्ययान्तादिमब्वक्तव्य*' इतीमप् । ततो नामधातुत्वे णिच् ततो भावे क्तः । विभ्रमो विशिष्टो हर्षोद्रेके त्वरयाऽधिगतो भ्रम इति तथोक्तः । ललितं ललनमिति तथोकम् । 'लल'ईप्सायाम् । भावे क्तः। मदः विकृ(ह)तम् । तपनम् । भावे ल्युट् । मौग्ध्यम् । विक्षेपः । अस्वस्थत्वम् । च। कुतूहलम् । हसितम् । भावे क्तः । चकितम् । 'चक' तृप्तौ प्रतिघाते च । भावे क्तः । केलिः । इतीत्येवम् । अष्टादशसङ्ख्यकाः। च पुनः । स्वभावजाः स्वभावात् स्वभाव आत्मनो मनोविकारविशेषस्तस्माज्जायन्ते समुत्पद्यन्त इति तथोक्ताः । 'ज्ञेया' इति शेषः । अथ-भावाद्या भावो हावो हेला चेति त्रयः, तथा-शोभा कान्तिर्दीप्तिाधुर्य प्रगल्भतौदार्यं धैर्य चेति सप्तेत्यर्थः । अत एव-दश 'अलङ्कारा'इति शेषः । पुंसां नायकानाम् । अपि । न केवल नायिकानामिति सत्यम्, अथापि न चमत्कारातिशयायेति भावः । भवन्ति ॥ ११४॥ ११५॥ ११६॥ ११७॥
'भावाद्या' इत्याग्रंशकाठिन्यं परिहरनाह-पूर्व इत्यादिना।
पूर्वे प्रागुक्ताः । भावादयो 'भाव' इत्यारभ्य पठिता इत्यर्थः । धैर्यान्ता 'धैर्य्य' मित्यन्तं पठिता इत्यर्थः । दश । नायकानाम् । अपि 'यौवने' इति शेषः । सम्भवन्ति । किन्तु । सर्वेऽष्टाविंशतिमिताः । अपि । न केवलं भावादयो धैर्यान्ताः, किन्तु 'एतेभ्योऽतिरिक्ता अपी'ति शेषः । भमी एतेऽलहाराः । नायिकाश्रिता
२२