________________
१६८
साहित्यदर्पणः।
[ तृतीयः
अथासामलङ्काराः
निकुञ्जमुन्मत्तकोकिलकलध्वनिमाततान ॥" मध्या प्रोष्यद्भर्तृका यथा-“गन्तुं प्रिये वदति निःश्वसितं न दीर्घमासीन वा नयनयोर्जलमाविरासीत् । आयुर्लिपिं पठितुमेणदृशः, परन्तु भालस्थली किमु कचः समुपाजगाम ॥" प्रौढा प्रोष्यद्भर्तका यथा-"नायं मुञ्चति सुभ्रवामपि तनुत्यागे वियोगज्वरस्तेनाहं विहिताजलियंदुपते | पृच्छामि सत्यं वद । ताम्बूलं कुसुमं पटीरमुदकं यद्वन्धुभिर्दीयते स्यादत्रेव परत्र तरिकम विषज्वालाऽवली दुःसहम् ॥” परकीया प्रोष्यद्भर्तृका यथा-"न्यस्तं पन्नगमूर्ध्नि पादयुगलं, भक्तिर्विमुक्ता गुरो-स्त्यक्ता नीतिरकारि किं न भवतो हेतोर्मया दुष्कृतम् । अङ्गानां शतयातना, नयनयोः कोऽपि क्रमो रौरवः, कुम्भीपाकपराभवश्च मनसो युक्तं त्वयि प्रस्थिते ॥” सामान्यवनिता प्रोष्यद्भर्तृका यथा-"मुद्रां प्रदेहि वलयाय भवद्वियोगमासाद्य यास्यति वहिः सहसा यदेतत् । इत्थं निगद्य विगलनयनाम्बुधारा वाराङ्गना प्रियतमं करयोर्बभार ॥” इति । तथा-यस्या नायको यामीति पूर्व विचारवान् , पश्चाद् यदि न परत्र याति तदाऽसौ न प्रवत्स्यन्नायकोत्तरक्षण एव तद्विचारस्य निषिद्धत्वात्, नाप्यागच्छन् येन नायिका वासकसज्जा स्यात् , तदानीं तत्रैव वर्तमानत्वात्, किन्तु नरसिंहन्यायनान्यैव । एवम्-आसां पद्मिनीत्यादयो भेदा अप्यवगन्तव्याः । अत्राहू रसमञ्जरीकारा:-'यत्त्वेतासां "दिव्यादिव्योभयभेदेन गणनया द्विपञ्चाशदधिकशतयुतं सहस्रं भेदा भवन्ति । दिव्या इन्द्राण्यादयः, अदिव्या मालत्यादयः, दिव्यादिव्याः सीतादयः । इति तन्न, अवस्थाभेदेनैव नायिकानां भेदात्, जातिभेदेन भेदस्वीकारे नायकानामप्येवमानन्त्यं स्यात् । तथा भेदा नायकानामपि सन्ति । 'इन्द्रादयो दिव्या, अदिव्या माधवादयः, दिव्यादिव्या अर्जुनादयः।' इत्यत्र। इतरा इति प्रतीकमुपादाय-'पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना । चतुर्धा चोद्धतोदात्ता ललिता शान्तिका तथा ॥ अक्षता च क्षता यातायाता यायावरेत्यपि। पुनश्चतुर्धा कथिताः पूर्व जादिभिर्बुधैः ॥ पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनीति च । पुनश्चतुर्धा कथिताः कामशास्त्रेषु जातितः ॥ कफिनी वातुला पित्तला प्रकृत्या पुनस्विधा । अथोक्तानां च भेदानां लक्षणोदाहृती ब्रुवे॥ दिव्याः शच्यादयः प्रोक्ता अदिव्या मालतीमुखाः । दिव्यादिव्या इति प्रोक्ता जानकीरुक्मिणीमुखाः ॥ गर्वशालिन्युद्धता स्यादुदात्ता गूढमानिनी। ललिता साध्यमानेहा शान्ता निर्मानमानसा ॥ उदात्तैव भवेद्धीराऽथाधीरा तूद्धता मता । ललिता तु भवेन्मुग्धा शान्ता स्वीयोत्तमा मता ॥ भुक्ताऽन्येन पुरा पश्चादूढान्येनाक्षता मता। भुक्ता शक्तिसुतेनोढा राज्ञा सत्यवती यथा ॥ गते भर्तरि यद्यन्यं श्रिता सा तु क्षता मता। यथा तारा रविसुतं श्रिता वालिनि मारिते । यातायाता तु युगपढाऽनेकैस्तु भर्तृभिः ॥ यथा पाण्डुसुतैरूढा द्रुपदस्य कुमारिका । ऊडैकेन तु सन्त्यक्ता क्रमाद् यायावरा मता ॥ यथा बहुवरैरूढा माधवी चोपलात्मजा ॥ पद्मिनी चन्द्रवदना शिरीषमृदुला तथा । शखिनी स्याबृहन्मध्या कोपिन्यल्पस्तनी तथा ॥ दीर्घपादा द्रुतगतिः कुटिलाक्षी च पिङ्गला। हस्तिनी बहुभुक् क्रूरा नित्रपा पिशकुन्तला ॥ ह्रस्वा स्थूलाधरा गौरशरीरा मन्दगामिनी। कफिनी दृढरागा स्याच्छ्यामा तु स्निग्धलोचना ॥ वातुला तु कठोराङ्गी, चञ्चला कृष्णपाणिजा। श्यामधूसरवर्णां च बहुभोज्या प्रलापिनी ॥ पित्तला शोणनयना गौराझी कुशला रते। सा चतुर्धा पुनरपि नायिका प्रतिनायिका ॥ दुर्योधनस्य दयिता तत्र भानुमती यथा । तस्याः कैश्चिद्गुणैहीना पूज्या चैवोपनायिका ॥ समा न्यूनाऽपि या किञ्चित् कनीयस्यनुनायिका ॥'इत्यादि ।' इत्याहुष्टिप्पणीकाराः । 'सुखस्य च स्त्रियो मूलं नानाशीलधराश्च ताः । देवताऽसुरगन्धर्वरक्षोनागपतत्रिणाम् ॥ पिशाचक्षभुजङ्गानां नरवानरहस्तिनाम् । मृगमीनोष्टमकरखरसूकरवाजिनाम् ॥ महिषाजगवादीनां तुल्यशीलाः स्त्रियः स्मृताः । स्निग्धाङ्गोपाङ्गनयना स्थिरा मन्दनिमेषिणी ॥ अरोगा दीप्युपेता च सत्यार्जवदयान्विता । अल्पस्वेदा समरता स्वल्पशुक्ररतप्रिया ॥ गन्धपुष्परता हृद्या देवशीलाङ्गना स्मृता ।'इत्यादि भरताचार्याश्चाहुः । 'स्वाधीनभर्तृका मुख्या एवाष्टौ कीर्तिता भिदाः । पद्मिन्याद्याः पुनर्भेदाः खीयाऽऽदिभ्योनयत्पृथक् ॥' इति चाच्युतार्थ्याः। वयं तु-एवं सिद्धान्तानैक्यमेव सम्भावयामः, अत एवं कविराजैः १३. इतरा इत्यभिधायैव विरताः, यद्यपि प्रवत्स्यद्भकां प्रायोऽनेके स्वीकुर्वन्त्युदाहरन्ति च, किन्तु भरतैरनुक्तेत्येतेऽपि नाक्तवन्तः । इति बोध्यम् ।
एवं नायिकाभेदप्रभेदवर्णनं समाप्य नायिकानामलङ्कारानभिधातुं प्रतिजानीते-अथेत्यादिना । . अथ। आसां नायिकानाम्। अलङ्कारः पाप्तताबुद्धिसाधनानि। 'उच्यन्ते-१३५ यौवने'-इत्यादिनेति शेषः