________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
१६७ ' इति गदितवती, रुषा जघान स्फुटितमनोरमपक्षमकेसरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥५५॥'
इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताऽधीरमध्यताऽधीरप्रगल्भताभिः सडीर्णा । एवमन्यत्राप्यूह्यम् ।
१३० इतरा अप्यसङ्ख्यास्ता नोक्ता विस्तरशङ्कया ॥ १२४ ।। ता नायिकाः।
तिशयोक्त्याऽनुप्राणितमिति सङ्करः ।' इति मल्लिनाथा: ॥५४॥ इतीत्येवम् । अन्या पूर्वस्या भिन्नेत्यर्थः । कान्तम् । रुषा रोषेण रोषवती वेति भावः । एकत्र भावे विप्, परगुपधत्वात् कः । गदितवती कथयति स्म । च तथा । स्फुरितमनोरमपक्षमकेसरेण स्फुरितानि च मनोरमाणि च पक्ष्माणीव केसराणि, केसराणीव पक्ष्माणीति वा यस्य तेन। श्रवणनियमितेन श्रवणेन कर्णेन नियमितं धृतं तत्पर्य्यन्तमायतत्वेन वाऽऽकृष्टं तेन। असिताम्बुरुहेणासितं नीलं च तदम्बुरुहं तेनोपचारात्तत्सदृशेन वा अत एव 'पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः ।' इत्यादि सङ्गच्छते । समं सह । चक्षुषा । यद्वा-'असम' मिति क्रियाविशेषणम् । जघान ताडयति स्मोपचारात्ताडयति स्मेवेति वा । यत्तु व्याख्यातं 'इति गदितवती, अन्या पुनर्जघाने' ति, तन्न सत्, ‘इयं ही' त्यादिमूलाखरसात् । शिशुपालवधस्यैतानि पद्यानि, पुष्पिताऽग्रा च च्छन्दः । तलक्षणं च यथोक्तं 'पुष्पितामा नौयौँ नजौ ढौग ।' इति ॥ ५५ ॥'
प्रकृतमाह-इयं हीत्यादिना ।
हि यतः । इयम् । वक्रोक्त्या विटपादिपदार्थस्यान्यथा योजनरूपया वाचा । परुषवचनेन परुषं 'शठे' त्याद्यस्निग्धं यद्वचनं तेन । च। कोत्पलताडनेन कर्णोत्पलेन ताडनं तेन, कर्णान्तमायतत्वेन कर्णकमलसदृशस्य नेत्रस्य बा पातेनेति भावः । हेतौ तृतीया, एवं पूर्वत्रापि । धीरमध्यताऽधीरमध्यताऽधीरप्रगल्भताभिरामध्यात्वेनाधीरामध्यात्वेनाधीराप्रगल्भात्वेन चेत्यर्थः । अत्र 'शरदः कृतार्थते' तिवत्सामान्ये नपुंसकम् । सङ्कीर्णा। अचम्भाव:धीरामध्या रुषा वका, मधीरामध्या पत्वां वाचमुदीरयति, अधीराप्रगल्भा पुनस्ताडयतीत्येवमासां तिनृणां लक्षणाकान्तेयम् । इति ।
उक्ता नीतिरन्यत्रापि सङ्गच्छत इत्याह-एवम्। अन्यत्र । अपि । ऊह्यं 'सङ्कीर्णत्वमासा' मिति शेषः । अयम्भावः-यथा गोप्यादीनां-'मधुप! कितवबन्धो! मा स्पृशाघ्रिं सपल्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः।' इत्यादौ परकीयानामपि 'सपल्या' इत्याद्युक्त्याः स्वकीयात्वं तथा सति सम्भवेत् सङ्कीर्णात्वमेतासाम् । इति ।
ननु 'तल्पगताऽपि च सुतनुः श्वासासॉन या सेहे। सम्प्रति सा हृदयगतं प्रियपाणिं मन्दमाक्षिपति॥' इत्यादिलक्ष्यात्प्रवत्स्यन्नायका, 'यामि न यामीति धवे वदति पुरस्तात्क्षणेन तन्वङ्गायाः । गलितानि पुरो वलयान्यपराणि तथैव दलितानि ॥' इत्यादिलक्ष्याच्च प्रवत्स्यदागच्छन्नायकेत्येवमन्येऽपि भेदा वक्तुं युक्ता इति चेत्सत्यमित्याह-१३० इतरा इत्यादि ।
१३० ताश्चतुरधिकाशीतियुतं शतत्रय' मित्युक्ता नायिका इत्यर्थः । इतरा इतरभेदवत्यः । अपि । असख्या न सङ्ख्या गणना यासां ताः । 'सन्तीति शेषः । किन्तु-विस्तरशङ्कया एवं कथनेऽत्यन्तं ग्रन्थाडम्बर इति शङ्कयेति भावः । स च शब्दस्य विस्तरः।' इत्यमरः । न । उक्ता ॥ १२४ ॥
कारिकास्थं तत्पदं व्याचष्टे-ता 'इत्यस्य'ति शेषः । नायिकाः 'इत्यर्थ' इति शेषः । इति । अयम्भावः-ग्रथा-स्वकीयाऽऽदीनां धीराऽऽदिभेदास्तथा प्रवत्स्यन्नायकाऽभिधेयो भेदोऽवगन्तव्यः, यस्या नायक: परत्र गमिष्यन्, यथा रसगङ्गाधरकारैरुदाहृते 'तल्पगताऽपी' त्यत्र, यथा वा-रसमञ्जरीकारैरुदाहृतेषु । 'मुग्धा प्रोष्यद्भर्तका यथा-"प्राणेश्वरे किमपि जल्पति निर्गमाय क्षामोदरी वदनमानमयाञ्चकार । आली पुनर्निभृतमेत्य लता