________________
साहित्यदर्पणः।
[तृतीयः
.. यथा
'न खलु वयममुण्य दानयोग्याः, पिवति च पाति च याऽसको रहस्वाम् । विट ! विटपममुं ददस्व तस्यै, भवति यतः सदृशोश्चिराय योगः ॥५२॥ तव कितव ! किमाहितैर्वृथा नः, क्षितिरुहपल्लवपुष्पकर्णपूरैः। ननु जनविदितैर्भवव्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ ५३॥ मुहुरुपहसितामिवालिनादेर्वितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ ! कलिरेष महांस्त्वयाऽद्य दत्तः ॥ ५४॥
उदाहरति-यथा-'न खलु...'इत्यादाविति शेषः ।
'हे विट कामिन् ! 'विटोऽद्रौ धवले पिङ्गे (लम्पटे) मृषिके खदिरेऽपि च ।'इति मेदिनी। वयं विटपेतरा रमण्य इत्यर्थः । अमुख्य विटपस्येत्यर्थः । दानयोग्या दानाधिकारिण्यः । न । खल। भवाम'इति शेषः। किन्तुया। असकौ । असावेवेत्यसको, 'अव्ययसर्वनाम्नामकच् प्राक् टेः।' ५।३।७१ इत्यकच । 'त्वप्रिये ति शेषः । रह एकान्ते । त्वां 'सुरतरसनिधान मिति, 'मदनानलसन्तापित'मिति वा शेषः । पिबति । च। पाति रक्षति । च । समुच्चयार्थमेतत् । अतः-तस्यै निरुक्तनयेन विटपेति नाम सार्थयित्र्यै । अमुम्। विटपं पल्लवम् , लक्षणया सपुष्पं शाखाखण्डमित्यर्थः । 'विटपं सपुष्पमालां शाखा मिति विवृतिकाराः। 'विटपः पल्लवे षिले विस्तारे स्तम्बशाखयोः । इति विश्वः । ददस्व देहि । 'दद'दाने । यतो यस्माद्दानादिति शेषः। सदृशोर्विटपानकृत्तया सदृशयोरित्यर्थः । चिराय। योगः सम्बन्धः । भवति । अयम्भावः-'विटं पिबति, पाति वेति व्युत्पत्त्यनुकूलतया तव विटस्य पानकदसौ (विटपा), तदयं विटपस्तस्या एव योग्यः, सा चास्यैव योग्या । तथा च-विटपेनानेन विटपाया अस्या योगो दम्पत्योरिव स्थाने इति। अत्र 'सभालकारोऽय' मिति मलिनाथाः। वयं तु समालङ्कारण ‘मा मामुपगम' इति वस्तु व्यङ्गचमिति॥५२॥ हे कितव! धृत ! वृथा। आहितैः स्थापितैः । तव। क्षितिरुहपल्लवपुष्पकर्णपूरैः क्षितिरहाणां वृक्षाणां पलव पुष्पाणि (पलवाश्च पुष्पाणि च) तान्येव कर्णपूराः कर्णाभरणानि तैस्तथोक्तैः । कौँ पूरयन्तीति कर्णपुराः । 'कणेपूराऽवतंसे स्थादिति गोपालः । नोऽस्माकम् । किम् । न किमपि साध्यमिति भावः । तथा च-सत्यं ब्रमः 'वृथाऽऽहित' रिति सूचितम् । ननु । जनविदितैर्जनैर्विदितानि ज्ञातानि तैः । 'जनेषु विदितै' रिति मल्लिनाथाः । भवदव्यलीकैर्भवतो व्यलीकानि विशेषेणालीकानि (अप्रियाण्यनृतानि वा वचनानि) लक्षणया तच्छ्रवणानि तैः। 'अलीकं त्वप्रियेऽनृते' इत्यमरः । यद्वा-भवतो व्यलीकान्यकार्याणि (निषिद्धानि कर्माणि) लक्षणया तच्छ्रवणानि तैरिति तथोक्तैः । 'व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीडने ।' इति विश्वः । कर्णयुग्मम् । चिरपरिपूरितं चिरेण परिपूरितमित्यर्थः । एव नात्र संशयः । अतः-परितः पूरितस्य (पूर्णतां नीतस्य) पूर्णताकृते विफलश्रमः, प्रत्युतोऽनिष्टहेतुरिति भावः । 'अत्रोत्तरवाक्यार्थस्य पूर्वबाक्यार्थहेतुत्वेनोपनिबन्धनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलकारः ।' इति मल्लिनाथा: ॥५३॥ हे शठ! मुहः। अलिनादैर्धमरशब्दैः ( कर्तभिः)। उपहसितामिव 'प्रतारणार्थेय' मिति परिहासविषयतां नीतामिव, वस्तुतस्तथाभूतामेवेति भावः । अत्रेवेन समासो विभक्त्यलोपश्च । एनाम् । कलिकां पुष्पकोरकम् , अल्पः कलिः कलहस्तं वा । 'कलिका कोरकः पुमान् ।' इत्यमरः। 'अल्पे ।' ५। ३ । ८५ । इति कः। अत्र स्त्री प्रत्ययस्त्वविवक्षित एवेति बोद्धव्यम् । 'कलहे च युगे कलिः ।' इति विश्वः । नोऽस्माकम् । किमर्थम् । वितरसि । तस्या दुष्टचरितात्वेन ख्याताया अत एवानुच्चारणीयनामधेयाया इति भावः । धानि भवने। 'धाम शक्ती प्रभावे च तेजोमन्दिरजन्मसु।' इति विश्वः । वसतिं निवासम्। उपगतेन । त्वया (का)। अद्य । एष वर्त्तमानः । महान् । कलिः कलहः । दत्तः । महति कलौ दत्ते पुनस्तस्याल्पत्वेन दानमकिञ्चित्करमिति भावः । 'अत्रापि पूर्ववाक्यार्थस्योत्तरवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । कलिकामिति श्लेषोत्थापितया कोरककलहयोर्भेदेऽभेदरूपा
५ 'पानं पीति-भाजनरक्षणे।' इति मेदिनी ।