________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
'इह च परस्त्रियौ कन्यकाऽन्योढे सङ्केतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूषकादिनाऽभिसरन्त्याभिसारिके, कुतोऽपि सङ्केतस्थानमप्राप्ते नायके विप्रलब्धे, इत्यवस्थैवानयोरस्वाधीनप्रिययोरवस्थाऽन्तरायोगात् ।' इति कश्चित् ।
१२९ कचिदन्योऽन्यसाङ्गय्र्यमासां लक्ष्येषु दृश्यते ।
१६५
परमतं निर्दिशति - ' इह च इत्यादिना ।
'इहास्मिन्नायिकाभेदप्रसङ्ग इत्यर्थः । च । परस्त्रियौ परकीये नायिके इत्यर्थः । कन्यकाऽन्योढे कन्यकाsन्योढा चेत्यर्थः । सङ्केतात् 'प्रियकर्तृका' दिति शेषः । पूर्वम् । विरहोत्कण्ठिते विरहेणोत्कण्ठिते । पश्चात् । विदूषकादिना । आदिपदेन चेटकादेर्ग्रहणम् । अत्र सहार्थे तृतीया । अभिसरन्त्यौ । अभिसारिके । 'उच्येते' इति शेषः । अथ- कुतोऽपि कस्माच्चित्कारणात् । सङ्केतस्थानम् । ' कृतमपी'ति शेषः । अप्राप्ते । नायके । 'सती'ति शेषः । विप्रलब्धे । इतीत्येवम् । एव । अस्वाधीनप्रिययोः स्वाधीनभर्तृकेतिव्यपदेशार्हत्वमप्राप्तयोः । अनयोः परत्रियोरित्यर्थः । अवस्थान्तरायोगादन्यासामवस्थानामसम्भवात् । अवस्था । 'न तु खण्डितात्वादिकृते 'ति शेषः ।' इति । कश्चित् । ' आहे 'ति शेषः । अत्र ' कश्चिदि' त्यस्वरसतां द्योतयति । इदं तत्त्वम्-परकीया नायिका कन्यका परोढा चेति द्विविधा, अस्याच पार्श्वे नायकस्य सततमवस्थानासम्भवान्न स्वाधीनभर्तृकात्वम्, नायिकान्तरसम्भोगेनेर्ष्याया अयोगान्न खण्डितात्वम्, नायिकान्तरसम्भोगदोषात् कान्तत्यागायोगान कलहान्तारतात्वम्, कान्तस्य दूरदेशगमनेन मनोभववेदनाया अयोगान्न प्रोषितभर्तृकात्वम्, परालोकनशङ्कया सज्जिते वासभवने मण्डनायोगान्न च वासकसज्जात्वम् । तस्मात् - अभिमतेन यावन्न सङ्केतस्थलं निर्दिश्यते तावत्तस्या विरहोत्कण्ठितात्वम्, विदूषकादिना सममभिसारयोगादभिसारिकात्वम्, कुतोपि सङ्केतस्थले प्राप्ययोगाद्विप्रलब्धात्वमित्येत एव त्रयो भेदाः परकीयायाः । इति यत् केनाप्युक्तं तन्न विचारपेशलम् । तथाहि प्रियस्य मनसि या सनिहिता सा स्वाधीनभर्तृकेति परकीया सामान्याऽपि वा स्वाधीनभर्तृकेति वक्तुं सुशकम् ; न हि कायेन स्वीयाया अपि दयितोऽधीनोऽपि सदा सन्निहितः स्थातुं क्षमते तदिति ' स्वीयाः सन्ती' त्यत्र परकीयायाः 'सन्त्येव..' इत्यत्र च सामान्यवनितायाः स्वाधीनभर्तृकात्वं स्पष्टम् । स्वीयं पतिमपहाय यथा परत्र नायिकाऽनुरज्यते, तथा नायकोऽपि स्वयां नायिका मपहाय परत्रानुरज्यते । नानुरक्त विरक्तयोरनुरागोऽनुरागः । तदिति नायकः प्रियायाः सन्निधौ परोपभोगमवगमयन्नुपैति तथा सति तदन्तः सन्तापः 1 अत एवैवं परकीयाया अपि खण्डितात्वम् । यदपि न प्रायः सामान्या प्रेमान्धा भवति, तथाऽपि परत्रानुरागे धनलाभस्य न्यूनतामाशङ्कयात्मन्यनुरागवृद्धये खण्डितेव नकार सिद्धान्तमाश्रिता जयन्ती खण्डिता गीयते । नकारो हि स्त्रीणां सिद्धो मोहनमन्त्रः । एवं चानयोः 'कान्तं...' इत्यादौ खण्डितत्वं स्पष्टम् । रोषो नाम महाञ्छत्रुः, अतः 'भर्तुर्यंस्थे' त्यायुदाहरणदृशा परकीयायाः सामान्याया अपि च कान्तत्यागो, ऽन्यदा ततो व्यावर्त्तनमुपदेष्टुं सम्भवतीति विदितचरं कलहान्तरितात्वम् । एवं प्रोषिते दयिते प्रोषितभर्तृकात्वम्, दूत्यादिगृहेऽसङ्कुचितं स्वगृहे च सङ्कुचितं परकीयाया वासकसज्जात्वं श्वश्रूं स्वापयतीत्यत्र, सामान्यायाश्व सर्वदा 'चोलं नील... ' इत्यत्रेति निर्वाधं सूक्ष्मधियां धिया । इति ।
एवं नायिकानां शुद्धभेदनिर्देशानन्तरं मिश्रिता अपि भेदा निर्देष्टव्या इत्यपेक्षायामाह - १२९ क्वचिदित्यादि ।
१२९ आसां निर्दिष्टनयेन चतुरधिकशतत्रयसङ्ख्याकार्ना नायिकानाम् । लक्ष्येषूदाहरणेषु । कचित्र तु सर्वत्रेत्यर्थः। अन्योऽन्यसाङ्कर्य्यमन्योऽन्यं परस्परं साङ्कयै सङ्करतामिश्रणमिति यावत् । दृश्यते । 'तदूत्य' मिति शेष: । अस्माभिस्तु तस्य काचित्कत्वेन विरम्यत इति भावः ।