________________
साहित्यदर्पणः।
। तृतीयःइत्यालोच्य मृगीदृशा करतले विन्यस्य वाम्बुजं, दीर्घ निःश्वसितं, चिरं च रुदितं, क्षिप्ताश्च पुष्पस्रजः ॥५१॥' १२८ इति साऽष्टाविंशतिशत-मुत्तममध्यमकनिष्ठरूपेण ॥
चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदाः ॥ ११२ ॥ मित्यस्ती'ति वाऽध्याहार्यम् । 'कारणं घातने हेतौ करणे चे' ति हैमः । कुत एवं तयंत इत्याह-यद् यस्मात्कारणात् । वल्लभः प्रियो, वस्तुतस्त्ववल्लभो, वल्लभताप्रदर्शनेऽक्षमत्वात्पराङ्मुखत्वाद्वेत्यर्थः । अद्यास्मिन्नवश्यं त्वत्सन्निधिं भजिष्य इति प्रतिज्ञाया विषयभूते दिवस इति भावः । न नैव। आगतः । इतीत्येवम् । आलोच्य विचाऱ्यांन्तिमं पक्षं स्थिरीकृत्येति यावत् । मृगीदृशा मृगीदृशौ इव पारिप्लवे (खभावत एव) दृशौ नेत्रे यस्यास्तया (का)। करतले करतलोपरि । वाम्बुजं मुखकमलं लक्षणया कपोलपालीमित्यर्थः । विन्यस्य स्थापयित्वा । दीर्घ दूरे प्रसारि । निःश्वसितम् । च तथा । चिरम् । रुदितम् । च तथा। पुष्पस्रजः । क्षिप्ता दूरं पातिताः। अत्र प्रियानागमने कारणमालोचमानायाः कस्या अपि मदननिपीडिताया अवस्थावणेनम् । शृङ्गारतिलकस्य पद्यमिदम् । शार्दूलविक्रीडितं वृत्तम् , तल्लक्षणं चोक्तं प्राक् ॥५१॥'
यथा वाऽऽहू रसमञ्जरीकाराः-'मुग्धोत्का (विरहोत्कण्ठिता) यथा-'यन्नाद्यापि समागतः प्रिय इति प्रायः प्रपेदे परामित्थं चेतसि चिन्तयन्त्यपि सखी न वीडया पृच्छति । दीर्घ निःश्वसितं दधाति, चकितं न प्रेक्षते, केवलं किञ्चित्पक्कपलाण्डुपाण्डुररुचिं धते कपोलस्थलीम् ॥' मध्योत्का यथा-'आनेतुं न गता किमु प्रियसखी, भीतो भुजङ्गारिकम, क्रुद्धो वा प्रतिषेधवाचि किमसौ प्राणेश्वरो वर्तते। इत्थं कर्णसुवर्णकेतकरजःपातोपघातच्छलादक्ष्णो: काऽपि नवोढनीरजमुखी बाप्पोदकं मुञ्चति ॥' प्रौढोत्का यथा-'भ्रातर्निकुञ्ज ! सखि यूथि ! रसालवन्धो ! मातस्तमस्विनि ! पितस्तिमिर ! प्रसीद । पृच्छामि किञ्चिदिति नीरधराभिरामो दामोदरः कथय किं न समाजगाम ॥' परकीयोका यथा-'स्नातं वारिदवारिभिर्विरचितो वासो घने कानने, शीतैश्चन्दनबिन्दुभिमनसिजो देवः समाराधितः । नीता जागरणव्रतेन रजनी, व्रीडा कृता दक्षिणा, तप्तं किं न तपस्तथाऽपि स कथं नाद्यापि नेत्रातिथिः ॥' सामान्यवनितोत्का यथा-'कथं न कान्तः समुपैति कुञ्जमित्थं चिरं चेतसि चिन्तयन्ती। अस्रावयन्निष्पतदध्रुधारा वाराङ्गना काऽपि धनाभिलाषात् ॥' इति ।' यत्तूक्तमेतैरेव-'सङ्केतस्थलं प्रति भर्तुरनागमनकारणं या चिन्तयति सोत्का, अवधिदिवसानागतप्रेयसि प्रोषितभर्तृकायां नातिव्याप्तिः । तस्या भर्तुरवधिदिवसे भवनागमननियम इति सङ्केतपदेन व्यावर्तनात् ।' इति । तन्मन्दम् , उदाहरिष्यमाणेषु पद्येऽवद्यापीत्यादीनामपि खारस्थेन वासभवनस्थाया अपि तादवस्थ्यात् । नहि स्वीया सदा सङ्केतस्थल
तिं लभते, इति वक्तं सुशकम, प्रत्युत प्रायस्तस्या वासभवन एव तथा वर्णनौचित्यम् । तस्मात्-अवधिदिवसेऽनुपेतप्रिया प्रोषितभूर्तृका स्यात्, विप्रलब्धा वा स्यात्, किन्तु या तदनागमनहेतुचिन्तया मुह्यति सैवोत्का विरहोत्कण्ठिताऽ. परनामधेयेति बोध्यम् ।
अत्रेदमप्यवधेयम्-अनुदाहृता विविच्य धीरादिभेदा अप्येवमेवावगम्याः, तथाऽऽहू रसमञ्जरीकारा:-'मुग्धाया लज्जाप्राधान्येन, मध्याया लज्जामदनसाम्येन, प्रगल्भायाः प्राकाश्यप्राधान्येन, धीराया धैर्यप्राधान्येन, अधीराया अधैर्यप्राधान्येन, धीराऽधीराया धैर्ध्याधैर्य्यप्राधान्येन, ज्येष्ठायाः स्नेहाधिक्यप्राधान्येन, कनिष्ठायाः स्नेहन्यूनत्वप्राधान्येन, परोढायाः सङ्गुप्तिप्राधान्येन, मुग्धाया इव कन्यका याश्च, सामान्यवनिताया धनप्राप्तिप्राधान्येनाष्टविधनायिकावर्णनमिति विशेषः । इति।
आसां पुनः स्वरूपभेदमाह-१२८ इतीत्यादिना।।
१२८ इतीत्येवं षोडशानां प्रत्येकमष्टविधत्व इत्यर्थः । साऽष्टाविंशत्यष्टाविंशत्या सहितम् । शतम् । उत्तममध्यमकनिष्ठरूपेण । 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति नयेन 'रूप' पदस्य प्रत्येकं सम्बन्धे उत्तमरूपेण मध्यमरूपेण कनिष्ठरूपेण चेत्यर्थः । 'उत्तममध्याधमस्वरूपेणे'ति पाठान्तरम् । 'भेदं प्राप्ता' इति शेषः । नायिकाभेदाः । चतुरधिकाशीतियुतम् । शतवयं “सम्पद्यन्त' इति शेषः । अत्राा छन्दः, तल्लक्ष चोक्तं प्राक् ॥ ११२॥