________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः ।
१६३ नवामेकामेकावलिमयि मयि त्वं विरचये-न नेपथ्यं पथ्यं बहुतरमनङ्गोत्सवविधौ ॥५०॥' १२७ आगन्तुं कृतचित्तोपि दैवान्नायाति यत्प्रियः ।
तदनागमदुःखार्ता विरहोत्कण्ठिताऽस्तु सा ॥ १११॥
यथा- -
'किं रुद्धः प्रियया कयाचि, दथवा सख्या ममोरेजितः, किं वा कारणगौरवं किमपि, यन्नाद्यागतो वल्लभः ।
तया प्रीवाभरणरूपया लतयेति भावः । नात्रैवादेशः, अन्वादेशविषयत्वाभावात् । किम् । अथ-एकां केवलाम् । नयां नवगुम्फिताम् । अन्यथा परिरम्भे सद्य एव त्रुटिता स्यादिति भावः । एकावलिमेकयष्टिकहारम् । अन्यथा परिरम्भेऽतिविघ्नः स्यादिति भावः। 'एकावल्यादयो हारभेदा' इति गोपालः । अयि। (इदं मधुरामन्त्रणे)। त्वं 'सखी'ति शेषः । एतेन तत्र खात्मनो हितविधानौचित्यमावेद्यते। मयि । विरचयः। ननु किमिति सर्वाण्यपास्यैकमेतदेवाभरणमित्याशङ्कयाह-अनहोत्सवविधावनङ्गः कामस्तस्योत्सवः प्रियसङ्गजन्य आमोदस्तस्य विधिर्विधानं तत्र । बहुतरं । नेपथ्यं भूषणरचनादिशोभा। 'नेपथ्यं तु प्रसाधने।' इति हैमः । पथ्यं हितकारि। न न भवतीत्यर्थः । अत्र कस्याश्चित्स्वां मण्डयन्तीं सखी प्रत्युक्तिः । शिखरिणी छन्दः, तल्लक्षणं चोक्तं प्राक् ॥' - यथा वाऽऽह रसमजरीकारा:-'मुग्धा वासकसज्जा यथा-'हारं गुम्फति तारकाऽतिरुचिरं, अनाति काञ्चीलता, दीपं न्यस्यति, किन्तु तत्र बहलं स्नेहं न दत्ते पुनः । आलीनामिति वासकस्य रजनौ कामानुरूपां क्रियां साचि सोरमुखी नवोढसुमुखी व्रात्समुद्रीक्षते ॥' मध्या वासकसज्जा यथा-'शिल्पं दर्शयितुं करोति कुतुकात् कहारहारस्रजं चित्रप्रेक्षणकोतुकेन किमपि द्वारं समुद्रीक्षते । गृहात्याभरणं नवं सहचरी भूषाजिगीषामिषादित्थं पद्मशः प्रतीत्य चरितं स्मेराजनोऽभूत्स्मरः ॥' प्रगल्भा वासकसजा यथा-कृतं वपुषि भूषणं, चिकुरधोरणी धूपिता, कृता शयनसन्निधो क्रमुकपीटिकासम्मृतिः । अकारि हरिणीदृशा भवनमेत्य देहत्विषा स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्दिनम् ॥'...परकीया बासकसज्जा यथा 'वधूं खापयति, च्छलेन च तिरोधत्ते प्रदीपाइकुरं धत्ते सौधकपोतपोतनिनदैः साङ्केतिक चेष्टितम् । शश्वत्पार्श्वविवर्तिताऽअलतिकं लोलत्कपोलद्युति क्वापि कापि कराम्बुजं प्रियधिया तल्पान्तिके न्यस्यति॥' सामान्यवनिता वासकसज्जा यथा-'चोलं नीलनिचोलकर्षणविधौ, चूडामणिं चुम्बने, याचिध्ये कुचयो: करार्पणविधौ काची पुनः काचनीम् । इत्थं चन्दनचर्चितैर्मृगमदैरङ्गानि संस्कुर्वती तत् किं यन मनोरथं वितनुते वारेषु वाराङ्गना ॥' इति ।'
विरहोत्कण्ठितां लक्षयति-१२७ आगन्तुं. इत्यादिना ।
१२७ यत्प्रियो यस्याः प्रियः । आगन्तुम् । कृतचित्तः। अपि । दैवालक्षणयाऽऽकस्मिककार्याधुपस्थानेन । न । आयाति । सा। तदनागमदुःखार्ता तस्य प्रियस्यानागम आगमनाभावस्तस्य दुःखेनाता पीडितेति। विरहोत्कण्ठिता विरहेणोत्कण्ठिता। अस्तु स्यात् । विध्यर्थे लोट् ॥ १११ ॥
उदाहरति-यथा-'किं रुद्धः.. इत्यादौ ।
'कयाचित् कयाऽप्यज्ञातनाम्न्याऽत्युनतपुण्ययेत्यर्थः। प्रियया मद्भिनया दयितया। किं किंखित् । हलो निरोधं नीतः। अथवा । मम । सख्या वयस्यया, वस्तुतोऽसख्या सखीत्वाच्युतया सपत्न्या दूत्या वेत्यर्थः । 'भानेतुं मयव प्रेषितये'ति शेषः । उद्घजित उद्वेगं प्रापितो, मयि दोषानारोप्य पराङ्मुखतां नीत इति यावत् । 'कि' मिति पूर्वतोनुवृत्तम् । वाऽथवा । किं किंननु । किमप्यनिर्वचनीय, दुर्दैवादापतितमित्येवावाच्याभिधेयं वा । कारणगौरवं कारणानामनागमनेऽवष्टम्भरूपाणां हेतूनां गौरवं गुरुत्वमनुलङ्घय सम्पादनीयत्वमिति यावत् । यद्वा-खजीवितं प्रति संशयानाऽऽह-कारणानां घातनानां ममैव मृत्युहेतूनां गौरवमवश्यम्भाव्युपस्थितिकत्वमित्यर्थः। 'आपतित'