________________
साहित्यदर्पणः ।
[तुतीयःगाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बाला जातां मन्ये शिशिरमथितां पद्मिनी वान्यरूपाम्॥४९॥'
१२६ कुरुते मण्डनं यस्याः सजिते वासवेश्मनि ।
साऽसौ वासकसज्जा स्याद्विदितप्रियसङ्गमा ॥ ११० ॥ यथा-राघवानन्दानां नाटके- . 'विदूरे केयूरे कुरु, करयुगे रत्नवलय-रलं, गुर्वी ग्रीवाऽऽभरणलतिकेयं किमनया ।
जीवनमेवेति त्वं जानीया इति भावः । एषु। गुरुषु । दिवलेषु । गच्छत्सु व्यतियत्सु सत्सु । गाढोत्कण्ठां गाढा नितान्तं दुःसहा प्रवृद्धा वोत्कण्ठा 'रागे त्वलब्धविषये वेदना महती तु या। संशोषिणी च गात्राणां तामुत्कण्ठां विदुर्बुधाः॥' इत्युक्तलक्षणा मद्विरहनिवेदिता चिन्ता यस्यास्ताम् । प्रकृतितश्च-बाला वेदनां सोढुमसमर्थी कोमलाङ्गी नायिकामिति भावः । शिशिरमथितां शिशिरेण शिशिरभवहिमोपद्रवोद्रेकेण (गजेंदेणेव) मथिता ताम् । पद्मिनी कमलिनी सरसीं वा । 'पधिनी योषिदन्तरे । अब्जेऽब्जिन्यां सरस्यां चेति हैमः । व (वा) इवेत्यर्थः । 'व वा यथा तथेवैवं साम्य इत्यमरः । अन्यरूपामन्यत् पूर्वावस्थातो भिन्नं रूपं यस्यास्ताम् । जातां। मन्ये तर्कयित्वा निश्चिनोमि। एवं च तस्याः साम्प्रतमन्यविथामालक्ष्य न त्वया भ्रमितव्यमिति मेघं दूतत्वेन कल्पयित्वा संदिशतो यक्षस्योक्तिः । पद्यं चैतन्मेघदूतस्थम् । मन्दाकान्ता छन्दः, तल्लक्षणं च यथोक्तं । 'मदाक्रान्ता म्भौ न्तौ तूगौ ग समुद्रस्विराः ।' इति ।
यथा वाह रसमजरीकाराः 'मुग्धा-प्रोषितभर्तृका यथा-'दुःखं दीर्घतरं वहन्त्यपि सखीवर्गाय नो भाषते शैवालैः शयनं सृजन्त्यपि पुनः शेते न वा लज्जया। कण्ठे गद्गदवाचमञ्चति दृशा धत्ते न बाप्पोदकं सन्तापं सहते यदाम्बुजमुखीतद्वेद चेतोभवः ॥ मध्या प्रोषितभर्तका यथा-'वासस्तदेव वपुषो, वलयं तदेव हस्तस्य, सैव जघनस्य च रत्नकाची। वाचालभृङ्गसभगे सुरभी समस्तमद्याधिकं भवति ते सखि! किं निदानम् ॥' प्रौढा प्रोषितभर्तका यथा-'माला वालाऽम्बुजदलमयी मौक्तिकी हारष्टिः, काची याते प्रभवति हरी सुभ्रवः प्रस्थितैव । अन्यद ब्रमः किमिह धमनी वर्तते वा न वेति ज्ञातुं बाहोरहह वलयं पाणिमूलं प्रयानि ॥' परकीया प्रोषितभर्तका यथा-'श्वश्रः पद्मदलं ददाति, तदपि भ्रसज्ञया गृह्यते, सद्यो मर्मरशकया न च तया संस्पृश्यते पाणिना । यातुर्वाचि सुहृदगणस्य वचसि प्रत्युत्तरं दीयते, श्वासः किन्तु न मुच्यते हुतवहारः कुरङ्गीदशा ॥' सामान्यवनिता प्रोषितभर्तका यथा-'विरहविदितमन्तः प्रेम विज्ञाय कान्तः पुनरपि वसु तस्मादेत्य में दास्यतीति । मरिचनिचयमक्ष्णोय॑स्य बाष्पोदबिन्दून् विसृजति पुरयोषिद् द्वारदेशोपविष्टा ॥' इति ।'
वासकसज्जां लक्षयति-१२६ कुरुत इत्यादिना ।
५२६ वासवेश्मनि निवासस्थाने । सज्जिते शोभा नीते शय्याऽऽकल्पनप्रदीपज्वालनवितानविधानादिभिः परिष्कृत इति यावत् । यस्याः । 'सखी'ति शेषः । 'या चेति पाठे तु न 'सखी'त्यध्याहार्य्यम् । मण्डनं भूषाssकल्पनाम् । कुरुते विरचयति । सा। असौ। 'त्वि'ति पाठे तु पुनरित्यर्थः। विदितप्रियसङमा विदितो ज्ञातः प्रियसङ्गमो विलम्बेन भावी प्रियेण सह संयोगो यया सा । अत एव-वासकसज्जा वासके वासभवने सज्जा प्रिोण रमणयुद्धार्थ सजा सन्नद्धति, वासकं वा सज्जयतीति वा तथोक्ता । वास एव वासकः । 'सन्नद्धो वम्मितः सज्ज'इत्यमरः । 'पज्ज'गतो, अच् , टाप् । स्यात् । ॥११॥
उदाहरति-यथा-राघवानन्दानाम् । अत्र सम्बन्धसामान्यविवक्षया षष्ठी । नाटके नाटकीये। 'विदूरे....' इत्यत्र इत्यर्थः ।
'अयि ! । केयूरे अङ्गदे बाह्वाभरण इति यावत् । 'केयूरमङ्गदं तुल्ये'इत्यमरः । विदूरे नितान्तं दूरे । कुरु । करयुगे करयोर्लक्षणया करमूलयोर्युगं द्वन्द्वं तत्र । रत्नवलयै रत्नजटितैरपि कङ्कणैरित्यर्थः । अलम् । इयम् । ग्रीवाभरणलतिका ग्रीवाऽऽभरणमेव लतिका लतेति तथोक्ता । एतेनायुक्तत्वमप्यावेद्यते । गुर्वी। अत:-मन