________________
परिच्छेदः)
रुचिराख्पया व्याख्यया समेतः। यथा-'उत्तिष्ठ दूति ! यामो यामो यातस्तथाऽपि नायातः।
याऽतः परमपि जीवेज्जीधितनाथो भवेत्तस्याः ॥४८॥' १२५ नानाकार्यवशाद् यस्या दूरदेशं गतः पतिः ।
सा मनोभवदुःखार्ता भवेत्प्रोषितभर्तृका ॥ १०९ ॥ यथा'तां जानीयाः परिमितकथां जीवितं मेऽद्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
उदाहरति-यथा-'उत्तिष्ठ,..इत्यादौ ।
'हे दूति ! उत्तिष्ठ । यामो गच्छामः 'स्वस्थान'मिति शेषः । यामः प्रहरमितः कालः । यातो व्यतीतः । तथाऽपि तदपि । 'कान्त इति शेषः । न । आयातः प्राप्तः । या । अतोऽस्मात् प्रहरपर्यन्तमपेक्षणात् । परमनन्तरम् । अपि । जीवेत् । अत्र सम्भावनायां लिङ्। तस्याः। जीवितनाथो जीवितस्य नाथो रक्षकः स्वामी वेति तथोक्तः। भवेत् स्यात् । नातः परं मम जीवनमिति चिराय तेन शून्या भवामीति भावः । आर्या छन्दस्तलक्षणं चोक्तं प्राक् ॥ ४८॥'
अत्र रसमञ्जरीकाराः-'मुग्धा विपलब्धा यथा-'आलीभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शुन्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं, न स्थितम् । न्यस्ताः किन्तु नवोढनीरजशा कुञ्जोपकण्ठे रुषा ताम्यभृङ्गव स्पृशो दृष्टयः ॥' मध्या विप्रलब्धा यथा-'सङ्कतकेलिगृहमेत्य निरीक्ष्य शुन्यमेणीदृशो निभृतनिःश्वसिताधरायाः । अर्धाक्षरं वचनमर्धविकाशि नेत्रं ताम्बूलमर्धकवलीकृतमेव तस्थौ ।' प्रौढा विप्रलब्धा यथा-'शून्यं कुञ्जगृहं निरीक्ष्य कुटिलं विज्ञाय चेतोभुवं, दूती नापि निवेदिता, सहचरी पृष्टाऽपि नो वाऽनया। शम्भो! शङ्कर ! चन्द्रशेखर! हर! श्रीकण्ठ! शूलिन् ! शिव! त्रायखेति परन्तु पङ्कजशा भर्गस्य चक्रे स्तुतिः ॥' परकीया विप्रलब्धा यथा-'दत्वा धैर्य्यभुजङ्गमूर्ध्नि चरणावुल्लङ्घय लज्जानदीमगीकृत घनान्धकारपटलं तन्व्या न दृष्टः प्रियः। सन्तापाकुलया तया च परितः पाथोधरे गर्जति क्रोधाक्रान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ योजिते ॥' सामान्यवनिता विप्रलब्धा यथा'कपटवचनभाजा केनचिद्वारयोषा सकलरसिकगोष्ठीवञ्चिका वञ्चिताऽसौ। इति विहसति रिङ्गभृङ्गविक्षिप्तचक्षुर्विकचकुसमकान्तिच्छमना केलिकुञ्जः ॥' इत्याहुः।
अथ प्रोषितभर्तृकां लक्षयति-१२५ नाना..इत्यादिना ।
१२५ नानाकार्यवशादनेककाऱ्यांधीनतया। इदमुपलक्षणं शापादेः । दरदेशं सन्निधानाभावमिति भावः । गतः । यस्याः । पतिः । इदमुपलक्षणमुपपतेर्जारस्य च । सा। मनोभवदुःखार्ता मनोभवस्य कामस्य दुःखं तेनातेति तथोक्ता । प्रोषितभर्तृका प्रोषितः प्रवासं गतो भर्ती भर्तृको वा यस्याः सा तथोक्ता। भवेत् ॥ १०९ ॥
उदाहरति-यथा-'तां जानीयाः..' इत्यादिना ।
'सहचरे सह चरति गच्छतीति तथोक्ते । सहभोगिनीति भावः । एतेन वियोगासहत्वं सूचितम् । मयि तन्नायके यक्ष इत्यर्थः । दूरीभूते साहचर्य्यतो निवृत्ते सतीत्यर्थः । सहचरे (चक्रवाके) दूरोभूते-चक्रवाकी चक्रवाकस्य ताम् । 'जावेरस्त्र विषयादयोपधात् ।' ४।५।६३ इति ष् । इव । एकामेकाकिनीम् । परिमितकथां परमिता कथा जीवनवार्ता यस्यास्ताम्, मृतप्रायामिति भावः । तां, निर्दिष्टस्वरूपाम् । मे मम । आद्वतीयमभिन्नम् । जीवितं जीवनम् । जानीयाः । यथा सा मां विना परिमितकथा तथा तो विनाअहमपि परिमितकथ एवास्मीति सा मम
२१