________________
१६० साहित्यदर्पणः।
तृतीयः-- १२३ चाटुकारमपि प्राण-नाथं रोषादपास्य या।
पश्चात्तापमवाप्नोति कलहान्तरिताऽस्तु सा ॥ १०७ ॥ यथा मम तातपादानाम्'नो चाटुश्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः
कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः। पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य हन्त सहसा कण्ठे कथं नार्पितः॥ ८७॥' १२४ प्रियः कृत्वाऽपि सङ्केतं यस्या नायाति सन्निधिम् ।
विप्रलब्धेति सा ज्ञेया नितान्तमवमानिता ॥ १०८॥ अथ कलहान्तरितां लक्षयति-१२३ चाटु..इत्यादिना ।
१२३ या । चाटुकारं सूनृतवक्तारम् । चाटुं प्रियकथनं करोतीति तम् । अपि । प्राणनाथं प्राणस्य जीवितस्य नाथस्तम् । एतेन वस्तुतस्तत्र रोषानौचित्यं प्रेमानुबन्धौचित्यं च सूचिते । रोषात । अपास्य परित्यज्यावमान्य वा। पश्चात्तापं प्राणनाथापनोदनानन्तरीणं सन्तापमिति भावः । अवाप्नोति । सा । कलहान्तरिता कलहेनान्तरिता प्राणनाथतो व्यवहितेति, कलह एवान्तरं तज्जातं यस्याः सेति वा तथोक्ता । अस्तु भवेत् । 'लोट् च ।' ३।३।१६२ इत्यनेन विध्यर्थे लोट् । 'त्वि'ति पाठान्तरम् ॥ १०७ ॥
उदाहरति-यथा । मम विश्वनाथस्य । तातपादानां पूज्यानां पितृणां चन्द्रशेखराणाम् । 'कृता'विति शेषः । कृतिश्च- 'नो चाटु..' इति पुरस्त्यैवेति बोध्यम् ।
'चाटुश्रवणं चाटूनां प्रेम्णा क्रियमाणानां प्रार्थनानां श्रवणम् । नो नैव । कृतम् । अन्तिके समीपे । 'कान्तेन समर्पित' इति शेषः । हारो मुक्ताऽऽभरणम् । च । न । दृशा। वीक्षितः । कान्तस्य मनोरमस्य । प्रियहेतवे। निजसखीवाचः । अपि । दूरीकृता अवज्ञाताः । तत्क्षणं रोषसमये । पादान्ते पादयोरन्तोऽग्रभागस्तत्रेति तथोक्ते। विनिपत्य विशेषेण प्रणम्य । गच्छन् 'प्रसादालाभ' इति शेषः । असौ कान्तः । मया । मूढया कर्तव्यविचारहीनया । पाणिभ्याम् । अवरुध्य निरुध्य । हन्त कष्टम् । सहसा वेगेन हर्षेण (रोषपरित्यागेन) वा । कण्ठे 'मुक्ताहारव' दिति शेषः । कथम् । न नैव । अर्पितः । इदं च खीयाऽऽदीनां सर्वासां विरहान्तरितानां सममुदाहरणं स्थाने । शार्दूलविक्रीडितं च वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥'
अत्र रसमञ्जरीकारा:-'मुग्धा कलहान्तरिता यथा-'अनुनयति पतिं न लज्जमाना, कथयति नापि सखीजनाय किञ्चित् । प्रसरति मलयानिले नवोढा वहति परन्तु चिराय शून्यमन्तः ॥' मध्या कलहान्तरिता यथा-'विरमति कथनं विना न खेदः, सति कथने समुपैतिकाऽपि लज्जा । इति कलहमधोमुखी सखीभ्यो लपितुमनालपितुं समाचकाक्ष ॥' प्रौढा कलहान्तरिता यथा-'अकरोः किमु नेत्रशोणिमानं किमकार्षीः करपद्मतर्जनं वा । कलह किमधाः क्रुधा रसज्ञे हितमर्थ न विदन्ति दैवदष्टाः ॥' परकीया कलहान्तरिता यथा-'भर्तुर्यस्य कृते गुरुलंघुरभूद , गोष्ठी कनिष्टीकृता, धैर्ध्य कोशधनं गतं, सहचरी नीतिः कृता दूरतः । निर्मुक्ता तृणवत्रपा, परिचिता स्रोतस्विनी बिन्दुवत् स क्रोधादवधीरितो हतधिया मातर्बलीयान्विधिः ॥' सामान्यवनिता कलहान्तरिता यथा-'यत्पङ्केरुहलक्ष्मपाणिकमलं भाग्यालये यद् गुरुयस्तं वा मम यललाटफलके भाग्याक्षरं वेधसा। तत्सर्व सखि ! यो यथाऽर्थमकरोत्तस्मिन्प्रकोपः कृतो धिमां, धिड्मम जीवितं, धिगतन, (काम) धिक् चेष्टितं धिग् वयः ॥' इत्याहुः ॥
विप्रलब्धां लक्षयति-१२४ प्रिय इत्यादिना ।
५२४ प्रियः। सङ्केतं निश्चयं 'तत्र त्वया विहरिष्यामी ति प्रतिज्ञामिति यावत् । कृत्वा । अपि । यस्याः। सन्निधिं समीपम् । न । आयाति । सा । नितान्तमत्यन्तम् । अवमानिताऽवमानास्पदतां नीता । विप्रलब्धा विशेषेण प्रलब्धा वञ्चितेति तथोक्ता । इतीत्येवं ख्यातेत्यर्थः । ज्ञेया ॥१०८॥