________________
परिच्छेदः) रुचिराख्यया व्याख्यया समेतः। .
१५९ प्रसङ्गादभिसारस्थानानि कथ्यन्ते१२२ क्षेत्रं वाटी भग्नदेवा-लयो दूतीगृहं वनम् ।
माऽऽलापं च श्मशानं च नद्यादीनां तटी तथा ॥ १०५ ॥ एवङ्क्ताभिसाराणां पुंश्चलीनां विनोदने ।
स्थानान्यष्टौ तथाध्वान्त-च्छन्ने कुत्रचिदाश्रये ॥ १०६ ॥ 'कुलजे' त्यभिहितम् । इति । यतूकं रसमजरीकारैः-'वयमभिसरति प्रियमभिसारयति वा या साऽभिसारिका । अस्याश्चेष्टाः समयानुरूपवेषभूषणशङ्काप्रज्ञानैपुण्यकपटहासादिरूपा इति परकीयाः। खीयायास्तु प्रवृत एव नमः। अलक्ष्यतासम्पादकस्य श्वेताद्याभरणस्य स्खीयाभिसारिकायामसम्मवात् । इति, तन्मन्दम्; स्वकीयाया अपि पितृगेहस्थाया गुरुजनसन्निहितावस्थानाया वा अभिसरणे तथोपपत्तेः । अत्र रसमजरीकारा:-'मुग्धाऽभिसारिका यथा-'दूती विद्युदुपागता सहचरी, रात्रिः सहस्थायिनी, दैवज्ञो दिशति स्वनेन जलदः प्रस्थानवेलां शुभाम् । वाचं माङ्गलिकी तनोति तिमिरस्तोमोऽपि झिल्लीरवैर्जातोऽयं दयिताऽभिसारसमयो मुग्धे विमुञ्च त्रपाम् ॥' मध्याऽभिसारिका यथा-'भीताऽसि नैव भुजगात्पथि मद्भजस्य सङ्गे पुनः किमपि कम्पमुरीकरोषि । अम्भोधरध्वनिभिरक्षुभिताऽसि तन्वि! मद्वाचि साचिवदनाऽसि किमाचरामि ॥' प्रगल्भाभिसारिका यथा-'स्फुरदुरसिजभारभड्गुरागी किसलयकोमलकान्तिना पदेन । अथ कथय कथं सहेत गन्तुं यदि न निशासु मनोरथो रथः स्यात् ॥' परकीयाऽभिसारिका यथा-'रभसादभिसर्तुमुद्यतानां वनितानां सखि ! वारिदो विवस्वान् । रजनी दिवसोऽन्धकारमर्चिर्विपिनं वेश्म विमार्ग एष मार्गः ॥' ज्योत्स्नाऽभिसारिका यथा-'चन्द्रोदये चन्दनमङ्गकेषु विहस्य विन्यस्य विनिर्गतायाः । मनो निहन्तुं मदनोऽपि बाणान्करेण कौन्दान्बिभराम्बभूव ॥' तमिस्राऽभिसारिका यथा-'नाम्बुजैन कुमुदैरुपमेयं खैरिणीजनविलोचनयुग्मम् । नोदये दिनकरस्य न वेन्दोः केवले तमसि तस्य विकाशः ॥' दिवसाऽभिसारिका यथा- 'पल्लीनामधिपस्य पङ्कजदृशां पर्वोत्सवामन्त्रणे जाते समजना मिथः कृतमहोत्साहं पुरः प्रस्थिताः । सव्याजं स्थितयोर्विहस्य गतयोः शुद्धान्तमत्रान्तरे युनोः स्विन्नकपोलयोर्विजयते कोऽयेप्ष कण्ठग्रहः ॥' सामान्यवनिताऽभिसारिका यथा-'लोलञ्चोलचमत्कृति प्रविलसत्काञ्चीलताझकृति न्यञ्चत्कञ्चुकबन्धुबन्धुरचलद्वक्षोजकुम्भोन्नति । स्फूर्जद्दीधितिविस्फुरद्गतिचलच्चामीकरालङ्कृति क्रीडाकुजगृहं प्रयाति कृतिनः कस्यापि वाराङ्गना ॥' इत्याहुः ।
अभिसारस्थानानि निर्देष्टं प्रतिजानीते-प्रसङादित्यादिना । प्रसङ्गात्प्रसङ्गं प्राप्येत्यर्थः । अभिसारस्थानानि । कथ्यन्ते-१२२ क्षेत्रमित्यादिना ।
१२२ एवङकृताभिसाराणामेवं कृत उदाहृतविधिना विहितोऽभिसारो याभिस्तासाम् । पुंश्चलीनां पुंसः पत्युश्चलन्ति जारमुपयन्तीति पुंश्चल्यस्तासाम् । एतेन स्वीयाया व्यवच्छेदः सूचितः, तस्या एतादृशस्थानेष्वभिसरणस्य कादाचित्कत्वात् । अत्र पचादित्वादच् , गौरादित्वात्डीष च। विनोदने 'विनोदे सति सम्पद्यमान' इति शेषः । क्षेत्रं सस्यदेशः । वाटी गृहोद्यानम् । भग्नदेवालयो भग्नावशेषो देवतानामालयः । देवपदमुपलक्षक सत्यादीनाम् । दूतीगृहम् । दूतीपदं धात्र्याः सख्याः कुटिन्याश्चोपलक्षकम् । वनं तृणगुल्मादिना गहनो देशः । च तथा । मालापं मा नास्त्यालापो यत्र त, जनसञ्चाराभावेन निश्शब्दं स्थलमित्यर्थः । च । श्मशानं लक्षणया तद्वज्जनान्तरभयावहो देशस्तत्र वा कस्यचिन्मृतस्य सूचनार्थ कारितं स्थानमित्यर्थः । तथा। नद्यादीनाम् । आदिपदेन प्रस्रवणवापीगहरादीनां ग्रहणम् । तटी। इत्येवम्-अष्टौ । स्थानानि । 'प्रसिद्धानी' ति शेषः । तथा। कुत्रचिदाश्रये कुत्रचिदाश्रयो ययोस्ते । ध्वान्तच्छन्ने ध्वान्तं च च्छन्नं (रहः) चेति तथोक्ते। 'छन्नं रहश्छादितयोः।' इति हैमः । यद्वा-तथा (यथा जनान्तरदृष्टिपातो न स्यात् ) ध्वान्तेन छन्नस्तत्र । कुत्रचित् । आश्रये देशे । विनोदने
इत्यध्याहृत्य योज्यम् । स्थानान्यष्टौ मुनिः प्राह ध्वान्तच्छन्नं स्थलं तथा । इति पाठान्तरे तु-"एवं प्राहे'ति योज्यम् । अन्यत्स्पष्टम् ॥ १.५ ॥ १०६ ॥
१ मालापञ्च इति विवृतिकारसम्मतः पाठः । तथाहि-'मालापञ्च पुष्पोद्यान' मिति विवृतिः। सच-मालानां लक्षणया पुष्पानां पञ्चोऽभिव्यक्तिर्यस्मात् तादृशः । इति सङ्गमनीयः