________________
साहित्यदर्पणः।
[ तृतीयः१२१ सलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।
अवगुण्ठनसंवीता कुलजाऽभिसरेद् यदि ॥ ॥ विचित्रोज्ज्वलवेषा तु रणन्नूपुरमेखला। प्रमोदस्मेरवदना स्याद्वेश्याऽभिसरेद् यदि ॥१०३॥ मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना ।
आविद्धगतिसञ्चारा स्यात्प्रेष्याऽभिसरेद् यदि ॥१०४॥ तत्राद्ये उत्क्षिप्तं...'इत्यादौ । अन्ययोरूह्यमुदाहरणम् ।
अथाभिसरणक्रममाह-१२१ संलीना इत्यादिना ।
१२१ यदि । कुलजा कुलीना स्वकीयेति यावत् । अभिसरेत् । 'कान्त' मिति शेषः। तदा-स्वेषु स्वकीयेषु । गात्रेषु । संलीना लक्षणया नितान्तं लीनेवेत्यर्थः । 'लज्जये' ति शेषः । भूकीकृतविभूषणा यथा शब्दं न कुर्य्यस्तथा कृतानि भूषणानि यया तादृशीति भावः। अवगुण्ठनसंवीताऽवगुण्ठनेनाच्छादनवस्त्रेण संवीता परिवेष्टिता। अवगुण्ठनं चन्दनादीनामप्युपलक्षक, तेन चन्द्रिकायां सितं, तमिस्रायां पुनरसितं वसनचन्दनादियुक्तमिति बोध्यम् । 'स्या'दिति 'अभिसरे दिति वा शेषः ॥ अथ- यदि । वेश्या सामान्यनायिका । अभिसरेत् । 'कान्त' मिति शेषः । तु तदा । अव्ययानामनेकार्थत्वात् । विचित्रोज्वलवेषा विचित्रो विलक्षणो (चन्द्रिकायां नीलस्तमिस्रायां पुनश्शुक्र इत्यर्थः) सा उज्वलः प्रकाशमानो वेषो वस्त्राभूषणादिरचना यस्याः सा। रणन्नपुरमेखला रणन्त्यो नूपुरमेखला यस्याः सा। अत्र नूपुरपदं कङ्कणयोरप्युपलक्षकम् । प्रमोदस्मेरवदना प्रमोदो धनाप्तिजन्य आनन्दस्तेन स्मेरं सस्मितं विकसितं वा वदनं मुखं यस्याः सा । स्यात् ॥ अथ- यदि । प्रेष्या दासी लक्षणया तद्वत् कामार्त्ततया दीना परकीयेति यावत् । 'स्यात्प्रेष्या'इत्यत्र परकीय'ति पाठान्तरम् । अभिसरेत् । 'कान्त' मिति शेषः । तदा-मदस्खलितसंलापा मदेन कामक्षोभविशेषेण स्खलिता अव्यवस्थिताः संलापा उच्चारणानि यस्याः सा । विभ्रमोत्फुल्ललोचना विभ्रमेण शृङ्गारजन्यचेष्टाविशेषेणोत्फुल्ले विकसिते लोचने यस्याः सा। आविद्धगतिसञ्चाराऽऽविद्धा कुटिला या गतिगमनशैली तया (तदभिन्नः) सञ्चारो यस्याः सा । 'आविद्धं कुटिलं भुग्न'मित्यमरः । यद्वा-आविद्वौ गतिसञ्चारौ यस्याः सेति । सञ्चारो भ्रमणम् स्यात् ॥ १०२ ॥ १०३ ॥
उदाहरति-तत्र तासु मध्ये । आये कुलजे स्वीयापरकीये इत्यर्थः । 'उत्क्षिप्तं...'इत्यादौ । अन्ययोर्वेश्याकुलजेतरपरोढयोः । उदाहरणम् । ऊह्यं गवेषणीयम् । . अत्रेदमवधेयम्-स्वकीयाया अभिसारो लज्जयाऽऽलिङ्गित एवेति तया मुखराण्यपि विभूषणानि तथा ध्रियन्ते यथा मूकान्येव स्युः, स्वयं चात्यन्तं सुकुचितावयवयाऽऽच्छादनवस्त्रेणालक्ष्यमाणा च भवति । यद्यसौ चन्द्रिकायामभिसारिणी तदा श्वेतं चन्दनं श्वेतान्येव वसनानि, हीरकादिप्रधानानि प्रायो भूषणानि स्वीकुरुते, यदि तु तमिस्रायां तदा कस्तूरिकाचन्दनं नीलानि च वसनानि नीलमणिप्रधानानि प्रायो विभूषणानि । अथ यदि वेश्याऽभिसरति तदा लज्जाया असम्पर्कात् प्रमोदोद्रेकाच चन्द्रिकायां नीलमणिप्रधानानि मुखरीकृतानि विभूषणानि कस्तूरिकाऽऽलेपनं, तमिस्रायां सितमालेपनं मुखरीकृतानि हीरकमुक्ताऽऽद्याभरणानि च स्वीकुरुते स्वयं च शनैःशनैः स्मयमाना सञ्चरति। एवं पुनः परकीयाया मुग्धात्वस्यासम्मतत्वान्मदोद्धतैव सर्वाश्चेष्टा भवन्ति । किन्त्वेतदवश्यं स्मरणीयम्-यदि परकीया महति कुले प्रसूता परिणयेऽधिकृता वा तदा खकीयाया इवास्या अपि १२१ संलीना..इत्यायुक्ताऽवस्था स्यात्, यदि तु प्रेष्यरूपैव तदा-मदस्खलितसंलापा..इत्यायुक्ता । अत एव कविराजैः 'स्वकीये' त्यनभिधाय,