________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
१५७ १२. अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताऽभिसारिका ॥ १०१॥ क्रमाद् यथा'न च मेऽवगच्छति यथा लघुतां, करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमभिगम्य वदे-रभिदूति काचिदिति सन्दिदिशे ॥ ८५॥' 'उत्क्षिप्तं करकङ्कणद्धयमिदं बद्धा दृढं मेखला, यत्नेन प्रतिपादिता मुखरयोर्मनीरयोद्कता । आरब्धे रभसान्मया प्रियसखि क्रीडाऽभिसारोत्सवेचण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्तेविधुः८६'
किम कलशाङ्कितमिति किमपि प्रष्टमिच्छन्त्याः । नयनं नवोढसदशः प्राणेशः पाणिना पिदधे ॥" मध्या खण्डिता यथा-'वक्षोजचिह्नितमुरो दयितस्य वीक्ष्य दीर्घ न निःश्वसिति जल्पति नैव किश्चित् । प्रातर्जलेन वदनं परिमार्जयन्ती बाला विलोचनजलेन तिरोदधाति॥' प्रौढा (प्रगल्भा) खण्डिता यथा-'मामुद्वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकैरालिप्ताननमानतीकृतमुखी चित्रार्पितेवाभवत् । रूक्षं नोक्तवती न वा कृतवती निःश्वासकोष्णे दृशो प्रातमङ्गलमङ्गना करतलादादर्शमादर्शयत् ॥' परकीया यथा-'कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशं मुक्तास्तया परभिया परुषा न वाचः । दूतीमुखे मृगदृशा स्खलदम्बुपूरा दूरात्परं निदधिरे नयनान्तपाताः ॥' सामान्यवनिता खण्डिता यथा-'उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा ततो मयि निधीयतां वसु पुरा यदङ्गीकृतम् । इति प्रचलचेतसः प्रियतमस्य वारस्त्रिया क्वणत्कनककङ्कण करतलात्समाकृष्यते ॥' इत्याहुः । ___ अथाभिसारिका लक्षयति- १२० अभिसारयते-इत्यादिना ।
१२० या। मन्मथवशंवदा कामातेत्यर्थः । 'सती' ति शेषः । कान्तं पतिमुपपर्ति वा। अभिसारयते 'रमणदेशं प्रती' ति शेषः । वाऽथवा। स्वयम् । 'ये' ति पूर्वतोन्वेति। अभिसरति 'रमणदेशस्थ' मिति शेषः । 'कान्त' मिति पूर्वतोऽन्वेति । एषा । 'से' ति शेषः । अभिसारिका । धीरैः। उक्ता कथिता । अत्रेदं बोध्यम्अभिसारयित्र्यभिसारिणी चेति द्विविधाऽभिसारिका । इति ॥ १०१ ॥
उदाहर्तुमुपक्रमते-क्रमादित्यादिना। क्रमाद यथा निर्देश मित्यभिप्रायः । यथा-'नचेत्यादौ।
‘स प्रियः पतिः । 'अय' मिति शेष : । मे मम कामातया इत्यर्थः । लघुतां तुच्छप्रकृतित्वम् । मनागपि कामवेगासहिष्णुतामिति भावः। न च नैव। यथा येन प्रकारेण। अवगच्छति जानाति। यथा। च । मयि। करुणाम्। असमयेऽपि रमणे प्रवृत्तिरूपमनुग्रहमिति भावः । कुरुते । एनम् । 'त' मिति शेषः । अभिगम्य सम्मुखमुपेत्य न तु यथाकथमपि सन्देशद्वारेत्यभिप्रायः । तथा तेनैव प्रकारेण । निपुणं यथा नैपुण्य सङ्गच्छेत तथेति भावः । वदेः
अत्र विध्यर्थे लिङ् । इतीत्येवम् । अभिति दूत्याः सम्मुखम् । काचिन्नायिका । सन्दिदिशे स्वाभिप्रायं प्रकाशितवती । शिशुपालवधस्येदं पद्यम् । अत्र प्रमिताक्षरा च्छन्दः । तल्लक्षणञ्च प्रमिताक्षरा सजससैरूदितेति ॥ ८५ ॥'
'हे प्रियसखि ! इदम् । करकङ्कणद्वयं करयोः कङ्कणद्वयं तदाभरणयुग्मम् । अत्र 'कङ्कणं करभूषणम् ।' इत्यमरोक्त्या कङ्कणद्वयमित्येतावत्यभिहिते करपदार्थलाभेऽपि करपदं कङ्कणयोराधारात्मताऽवगमनार्थम् । उत्क्षिप्तमूर्ध्वं न्यस्तम् । येन तयोः सञ्चाराभावे शब्दो माभूदिति भावः । मेखला काञ्ची। दृढं यथा शिथिला शब्द न कुर्यादिति भावः । बद्धा। मुखरयोरप्रियशब्दकारिणोः । अप्रियत्वं च तदानीं तूष्णीम्भावस्यैवाभिमतत्वात् । 'दुर्मुखे मुखराबद्धमुखा' वित्यमरः । मञ्जीरयोः पादाङ्गदयोः । 'पादाङ्गदं तुलाकोटिर्मजीरो नूपुरोऽस्त्रियाम्।' इत्यमरः । मूकता वागहीनत्वम् । 'अवाचि मूक' इत्यमरः । यत्नेनात्यन्तमुद्यमेन । प्रतिपादिता सम्पादिता। रभसाद्वेगात् । क्रीडाऽभिवारोत्सवे क्रीडाया अभिसारोत्सवस्तत्र । मया। आरब्धे 'सती' ति शेषः । चण्डाल उपचारात्तद्वत् ऋरकर्मठः । एतस्य चण्डालसादृश्येनाभिधानं तु स्वानिष्टकारित्वेनैवावसेयम् । विधुश्चन्द्रः । तिमिरावगुण्ठनपटक्षेप तिमिरमन्धकारस्तदेवावगुण्ठनमाच्छादनवस्त्रमिति तस्य क्षेपो दूरविधानमिति तम्। विधत्ते । अत्र वृत्तं, तलक्षणं चोक्तं प्राक ॥ ८६ ॥'